SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - ३१] तमूचे मन्त्रिभूर्भिक्षोरस्य स्वामद्भुतां सुताम् । चिन्तामणिमिवोष्ट्रस्य कण्ठे कुण्ठ ! बधान मा ॥१२२॥ अथ प्रोवाच विप्रोऽमुं दिष्टं नैमित्तिकेन मे । ग्रामेऽस्मिन् पट्टकच्छन्नश्रीवत्सो भिक्षुरेति यः ॥१२३॥ देया बन्धुमती तस्मै कन्येयं चक्रवर्त्तिने । तदस्मै वितराम्येनां रवेरेवाब्जिनी भवेत् ॥१२४॥ तां व्युवाह कुमारोऽथ भोगाः कुत्र न भोगिनाम् । तत्रोषित्वा निशां चाऽगात् सरागाः कुत्र साऽरयः ? ॥१२५॥ प्रान्तग्रामं गतो मत्वा रुद्धान् दीर्घभटैः पथः । उत्पथेनाटवीमाप सापदां कुत्र निर्वृतिः ॥१२६॥ कुमारोऽस्थात्तृषा व्यग्रो न्यग्रोधे मन्त्रिभूः पुनः । तदर्थं वारिणेऽचालीद् विश्वार्थमिव वारिदः ॥ १२७॥ दध्रे दीर्घभटैर्ग्रामतीं यानुपलक्ष्य सः । तत्संज्ञया पलायिष्ट कुमारो विस्मृतश्रमः ॥१२८॥ स व्याधत्रस्तमृगवल्लङ्घमानोऽटवीर्बहूः । तृतीयेऽह्नि ददर्शेकमब्दं केकीव तापसम् ॥१२९॥ नीतस्तेनाऽऽश्रमे हृष्टो दृष्ट्वा कुलपति तदा । ननाम च पितृप्रीत्या द्वेत्ति सुंजनं जनम् ॥१३०॥ जाने मधुरया मूर्त्या स्फूर्त्या च त्वां महाकुलम् । अत्राऽऽगमे तु को हेतुरित्यपृच्छदमुं मुनिः ॥१३१॥ स्वं ततस्तस्य विश्वस्य निःश्वस्य च स राजसूः । विश्वं विश्वसनीयस्य पुरश्चरितमूचिवान् ॥१३२॥ ततः कुलपतिः प्रीतः प्रोचे पुत्र ! निजालयात् । त्वं निजालयमेवाप्तस्त्वत्पिता हि ममाऽग्रजः ॥१३३॥ तदत्र पुत्र ! दृक्सत्र ! तिष्ठाऽस्मन्मनसो मुदे । राज्योचितकरीं विद्धि वृद्धि भोगैर्वनोचितैः ॥१३४॥ अथैनमिह तिष्ठन्तं ब्रह्मेव ब्रह्मणोऽनुजः । शास्त्रशस्त्राऽर्थकुशलं चक्रे कुलपतिः स्वयम् ॥१३५॥ कदाऽपि तापसैः सार्द्धं मधुमासि जगाम सः । पुष्पोत्सुको वनोत्सङ्गमनङ्ग इव जङ्गमः ॥१३६॥ वनद्विपस्य स पश्यन् सैद्यस्कां पदपद्धतिम् । अगादनुपदी युद्धमदी द्राक् पञ्चयोजनीम् ॥१३७॥ स प्रेक्ष्य हस्तिनं हस्ती तं च प्रेक्ष्य मदोक्षितौ । क्रुद्धावधावतां योद्धुं हक्का-बृंहितसंहितौ ॥१३८॥ जेतुमेकेन शेकेऽन्यो न यावत्तावदम्बुदः । खे चकार कुमारस्योत्कर्षिवर्षैः सहायताम् ॥१३९॥ जलाकुलः पलायिष्ट स करी विरसं रसन् । वीरोऽपि सर्वतस्तोयधवले ववलेऽध्वनि ॥१४०॥ दिङ्मोहेन स भीमापत्सीमारेखामिवापगाम् । उत्ततार च तत्तीरेऽपश्यच्च पुरमुद्वसम् ॥१४१ ॥ प्रविष्टोऽस्मिन् पुरे वंशजालिकामयमैक्षत । स्फराखड्गौ च शून्यात्तविलासेन्दुनिशोपमौ ॥१४२॥ वंशजालीं स चिच्छेद खड्गमाकृष्य कौतुकात् । सहच्छिन्नं शिरोऽपश्यत् तदन्तः स्थस्य कस्यचित् ॥१४३॥ स दध्यौ धूमपः कोऽपि वल्गुलीकरणो मुनिः । मया वंशच्छिदाऽच्छेदि धिगचिन्तितकारिताम् ॥१४४॥ मन्दं नन्दनमुद्यानमथैक्षि भ्रमताऽमुना । वेश्म सप्तक्षणं तत्र सप्तलोकसमासवत् ॥१४५॥ स्त्रीमपश्यदिहारूढः प्ररूढनवयौवनाम् । हस्तन्यस्तमुखामेष सचिन्तां स्वामिव श्रियम् ॥१४६॥ ११७ १. स्वजनं - KH | २. शास्त्रास्त्र - P, L, CI टि. 1. रागवतां कुत्रापि अरिशङ्का नास्ति इति ते न साऽरयः, इति काक्वा लभ्यते, अत एव विश्वस्तः स तत्रोषितवान् इति तात्पर्यः । 2. तात्कालिकीम् । 3. स्फरा - 'ढाल' इति भाषायाम् । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy