________________
११६
5
[कर्णिकासमन्विता उपदेशमाला । गाथा-३१] तथेति प्रतिपद्येयमलपच्चुलनी ततः । वध्योऽवध्योऽसकौ बालोऽरक्ष्यं रक्ष्यं निजं यशः ॥१७॥ हृद्वाह्योऽपि विवाह्योऽथ वासागारोक्तिभिः कृते । नवे जतुगृहे न्यस्य ज्वाल्योऽयं शयितो निशि ॥९८॥ इत्यालोच्य वृता ताभ्यां पुष्पचूलस्य कन्यका । जज्ञे तु तदभिप्रायं वासागारगुणैर्धनुः ॥९९॥ त्वामयं सेविता राजन् ! पुत्रो वरधनुर्मम । तीर्थेषु जीर्णो यामीति दीर्घ पप्रच्छ मन्त्रिराट् ॥१००॥ धीमान् बहिर्गतोऽनर्थमयं कर्तेति चिन्तयन् । जगाद सादरं वाचा सचिवं स नृपोऽशुचिः ॥१०१॥ शस्त्रैरिव महाधीरः शास्त्रैरिव महाकविः । राज्यं भवादृशैरिव विभ्राजते तव प्रभोः ॥१०२॥ स्यात् सर्वत्र कृतो धर्मः सिद्धसिन्धुरिहास्ति च । इहस्थैरेव युष्माभिः साध्यं वृद्धोचितं हितम् ॥१०३॥ ततः सुरसरित्तीरे सत्रागारमकारयत् । नित्यः तत्र स्थितो मन्त्री स्वयं पूज्यानपूजयत् ॥१०४॥
ततोऽसौ पुम्भिरिच्छद्भिर्भव्यमव्यभिचारिभिः । द्विक्रोशां कारयामास सुरङ्गां जतुसद्मगाम् ॥१०५॥ 10 प्रच्छन्नं पुष्पचूलोऽपि ज्ञापितः सचिवेन तत् । दासेरी दुहितुः स्थाने प्रैषीद्भरिपरिच्छदाम् ॥१०६॥
महोत्सवेन वीवाहं निर्वाह्य चुलनी ततः । स्नुषायुतमपि प्रैषीन्निशि वासौकसे सुतम् ॥१०७।। अमुक्तो मन्त्रिपुत्रेण पुण्येनेव विपच्छिदा । कृतान्तस्येव वदने स वाससदनेऽविशत् ॥१०८॥ जाग्रत्येव कुमारेऽत्र मन्त्रिपुत्रकथारसैः । सर्वतः शर्वरीमध्ये तद्धाम्नि ज्वलनोऽज्वलत् ॥१०९॥
किमेतदिति पृष्टोऽथ ब्रह्मदत्तेन मन्त्रिभूः । दुर्वृत्तचुलनीवृत्तमाख्यायेत्युत्सुकोऽवदत् ॥११०॥ 15 इह प्रहर पादेन धरित्रीमत्र सत्रगा । तातदत्ता सुरङ्गाऽस्ति तुरगावग्रतोऽद्भुतौ ॥१११॥
लूतातन्तुपुटीभेदं भित्त्वोर्वीमंहिणा ततः । सुरङ्गां द्राग् विवेशाऽयं त्रस्तो बिलमिवोरगः ॥११२॥ नररत्नद्वयं तच्च सुरङ्गातो विनिर्गतम् । युग्मरूपं तदा जातं स्वं मेने रत्नगर्भया ॥११३॥ साक्षाद्भूतेऽधिकगुणे तयोरेवाथ चेतसी । धनुना धारितौ वाहौ रयादारोहतां च तौ ॥११४॥
पञ्चाशद्योजनीं गत्वा रयात्पञ्चमधारया । पञ्चत्वमापतुः खिन्नौ तौ हयौ पञ्चहायनौ ॥११५॥ 20 आसन्ने क्रोष्ठकग्रामे कृच्छ्रात्पद्भ्यां ततो गतौ । तौ जानन्तौ बहुं मागं तं मार्गादश्वलङ्घितात् ॥११६॥
तत्र धात्रीश-मन्त्रीशपुत्रौ मन्त्रितपूर्वकम् । कारयामासतुश्चूलाशेषं शीर्षस्य मुण्डनम् ॥११७॥ अधत्तां ब्रह्मसूत्रं च कषायवरचीवरौ । ब्रह्मपुत्र-ब्रह्मदासनामकल्पनशिल्पिनौ ॥११८॥ ब्रह्मदत्तस्य वक्षस्थः श्रीवत्सः पट्टकेन तत् । पिदधे मन्त्रिपुत्रेण कर्मणेवात्मनो महः ॥११९।।
ततः प्रविष्टौ ग्रामं तौ जीवचित्ते इवाङ्गकम् । द्विजेनाऽऽमन्त्र्य केनाऽपि भक्त्या सद्मनि भोजितौ ॥१२०॥ 25 क्षिप्त्वाऽक्षतानथो मूजि कुमारस्य द्विजन्मना । सिते दत्त्वांऽशुके कन्योपानिन्येऽनन्यतुल्यरुक् ॥१२१॥
१. रक्षं रक्षं - K. । २. वासावासो० P, C, KH, L३. नेवाऽपरिच्छदः B. | ४. बाहू-C | ५. ०धन्य० L, B, P, KH, KI टि. 1. सिद्धसिन्धुः-गङ्गानदी । 2. जीवश्च चित्तं च-जीवचित्ते इति द्वन्द्वसमासः, अयुतौ इत्यर्थः ।