________________
१११
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-२९-३१] अथ देहे क्षणपरिहाणिरिति समर्थनार्थं सर्वभावानामभावावसानत्वं सोपपत्तिकमाह
जइ ता लवसत्तमसुर-विमाणवासी वि परिवडंति सुरा ।
चिंतिज्जंतं सेसं, संसारे सासयं कयरं ॥२९॥ यदि तावल्लवसप्तमसुराणामनुत्तरगीर्वाणविशेषाणां विमानेष्वनुत्तराख्येषु ये वसन्ति तिष्ठन्ति ते लवसप्तमसुरविमानवासिनोऽनुत्तरविमानवासिन इत्यर्थः । अत्र ये क्षपकश्रेणिसमुचितविशुद्ध्यमानविशिष्ट- 5 तमसंयमपरिणामवन्तोऽपि प्रान्तकाले आयु:कर्मणः सप्तभिर्लवैरपूर्यमाणतया देवेषूपपद्यन्ते ते समयपरिभाषया लवसप्तमा उच्यन्ते । उक्तं च 'सत्तलवा जइ आउं' [ ] इत्यादि तेषां चावश्यमनुत्तरोपपातित्वाच्च तदीयत्वनिर्देशोऽनुत्तरविमानानामिति । ततश्च तद्वासिनोऽपि त्रयस्त्रिंशत्सागरोपमायुषोऽपि सुराः परिपतन्ति आयुःक्षयेण च्यवन्ते । चिन्त्यमानं शेषं स्वल्पायुष्कजीवसत्कं संसारे आकलङ्कलीभावे शाश्वतं कतरत् ? न किमपीत्यर्थः ॥२९॥ अथाऽशाश्वतद्वारेणैव सुखस्य दुःखात्मिका आयतिरित्युपदिशति
कह तं भन्नइ सोक्खं, सुचिरेणवि जस्स दुक्खमल्लियइ ।
जं च मरणावसाणे, भवसंसाराणुबंधि च ॥३०॥ कथं तद् भण्यते सौख्यं गुणगुणिनोरभेदोपचारात् कथं स भण्यते सुखी सुचिरेणापि त्रयस्त्रिंशत् सागरोपमप्रान्तेपि यस्य दुःखं गर्भजन्मादिरूपं प्रतिकूलवेदनीयमालीयते आश्लिष्यति । एतेनानुत्तरवैमानिकादीनां पुण्यानुबन्धिपुण्यप्रभवसुखस्य गर्भजन्मादिदुःखमयी आयतिरुक्ता । अथ पापानुबन्धिपुण्योत्थ- 15 सुखस्यायतिमाह यच्च मरणेनावसानं मरणावसानं तस्मिन् सति भवसंसारानुबन्धि भवो नरकादिपर्यायस्तेन संसरणं भ्रमणं भवसंसारस्तमनुवर्तितुं शीलं यस्य तत्तथा । चः समुच्चये तेन न केवलं दुःखात्मकं भवसंसारनुबन्धि चेति भावः ॥३०॥ अथवा पापानुबन्धिपुण्यशालिनामपि पापानुबन्धिदुष्कर्मवतामिव तुल्यं दुर्लभबोधिकत्वमाह
उवएससहस्सेहिं वि, बोहिज्जंतो न बुज्झई कोइ ।
जह बंभदत्तराया, उदाइनिवमारओ चेव ॥३१॥ उपदेशसहस्त्रैरपि बोध्यमानो न बुध्यते कश्चिद् गुरुकर्मा, कथम् ? इत्याह -यथा ब्रह्मदत्तराजा उदायिनृप-मारकश्च एवावधारणे, स च कश्चिदेव न बुध्यते न सर्व इति व्यवहितः सम्बध्यते इति समासार्थः ॥३१॥ व्यासार्थः कथानकाभ्यामवसेयस्ते चेमे
___ [ब्रह्मदत्तकथानकम् ॥] सुतश्चन्द्रावतंसस्य साकेतनगरेशितुः । मुनिचन्द्राभिधश्चन्द्रादप्यभूदतिनिर्मलः ॥१॥ स्वं नाम सत्यतां नेतुं सेतुं संसारवारिधेः । दीक्षामयमुरीचक्रे सूरेः सागरचन्द्रतः ॥२॥ स विहारक्रमे सूरिः सार्थाद् भ्रष्टोऽटवीमटन् । चतुर्भिः क्षुत्तृषाग्लानः पर्यचर्यत वल्लवैः ॥३॥
20
25