________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २८] आजुहाव द्विजावेतौ समेतौ सममेव तौ । प्रम्लानवदनाम्भोजावभूतां राजदर्शनात् ॥१९८॥ पूर्ववत्किं न वां प्रीतिरितिपृष्टेऽथ चक्रिणा । तावूचतुः स्तुतिं चक्रे त्वद्रूपस्य दिवस्पतिः ॥ १९९॥ आवामश्रद्दधानौ तद्वीक्षितुं क्षितिमागतौ । शक्रस्तुतेरप्यधिकं पूर्वं न्यधायि धाम ते ॥ २००॥ देहद्युतिलताखण्डखण्डनोद्दण्डदन्तिनः । त्वयि भूकान्त ! सङ्क्रान्ताः सम्प्रति व्याधयोऽधिकम् ॥२०१॥ तनुस्तरुणिमारूपं श्रीरित्यादिमदप्रदम् । सन्ध्यारागस्थिरं धीरा नीरागत्वेन बिभ्रति ॥ २०२॥ इत्युक्त्वा त्रिदशीभूय द्राक् तिरोहितयोस्तयोः । स्वं विच्छायं नृपोऽपश्यन्निस्तैलमिव दीपकम् ॥२०३॥ सदध्यौ च हहा ! स्वैरमनालोचितगामिषु । अस्नेहेषु सुधास्नेहो देहादिषु शरीरिणः ॥२०४॥ देहे गेहे वसन् धीमान् मलव्यग्रे विनश्वरे । तदर्जत्याप्नुयात् धाम येन निर्मलमक्षयम् ॥२०५॥ इति ध्यात्वा सुधीः सूनुं न्यस्य राज्ये नराधिपः । व्रतं जग्राह विनयी विनयन्धरसूरितः ॥२०६|| 10 समवृत्तेर्विहरतस्तस्य प्रकृतिमण्डलम् । सान्ध्यं महो दिनस्येव पृष्ठेऽगादतिरागभृत् ॥२०७॥
निर्ममं निर्मलं स्वर्णशैलजङ्गमशृङ्गवत् । षण्मासान् समुपास्यैनं तत्क्रमेण न्यवर्त्तत ॥२०८॥ कोद्रवाम्लकरम्भं स भैक्ष्यं षष्ठान्तपारणे । अभुङ्क्त वपुषोऽपथ्यं पथ्यं क्वाकारिताहृतम् ॥ २०९ ॥ अस्य भूयोऽपि षष्ठान्ते तादृक्पारणकारिणः । व्याधयोन्तस्तपोनुन्ना इवाभूवन् बहिस्तनोः ॥२१०॥ कच्छूशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । देहे सेहेतरां सप्त सप्तवर्षशतानि सः ॥२११॥ 15 एवं परीषहानस्य सहमानस्य दुस्सहान् । अभूवन् लब्धयः सर्वौषधीभूततनूमलाः ॥२१२॥ तदा दिवस्पतिर्देवानुद्दिश्यानन्दकेन्दभूः । आचष्ट तच्चरित्रेण पवित्रेण चमत्कृतः ॥२१३॥ चक्री तुर्यस्तपोलब्धसर्वलब्धिरपि स्वयम् । अहो देहानपेक्षत्वं रुजः स्वान्न चिकित्सति ॥ २१४॥ तदश्रद्धाय विजयो वैजयन्तश्च तौ सुरौ । वैद्यरूपं समासाद्य तमेत्य मुनिमूचतुः ॥ २१५ ॥ महाभाग ! महारोगैः परितः परितप्यसे । वद कायं चिकित्सावः स्वैरं स्वैरौषधैस्तव ॥ २१६ ॥ ऊचे मुनिर्युवां वैद्यौ जन्मौघसहचारिणाम् । लोभादिभावरोगाणां यदि तन्मां चिकित्सताम् ॥२१७॥ वैद्यौ द्रव्यरुजां चेत् तद् दृश्यतामितिवाग् मुनिः । पामाशीर्णां कफेनैकां निष्कवद्विदधेऽङ्गुलीम् ॥२१८॥ तामङ्गुलीं तपोऽर्कस्य करमेकमिवोद्यतम् । भास्वतीं वीक्ष्य विस्मेरौ मुनिं नत्वेदमूचतुः ॥ २१९ ॥ लब्धीर्लब्ध्वापि रुग्बाधाः सहमानस्तपस्यति । आश्वसेनिर्महात्मेति चक्रे शक्रस्तव स्तवम् ॥२२०॥ आवां तावेव गीर्वाणौ भवद्रूपनिरूपकौ । आगत्येदमपश्याव शंसित्वेति तिरोहितौ ॥२२२॥ ज्ञातावसानसमयो गृहीतानशनस्ततः । सनत्कुमारस्त्रिदिवे स्वनाम्नि त्रिदशोऽभवत् ॥२२२॥ इति सनत्कुमारकथानकम् ॥
5
20
25
११०
१. नीत्वागत्वेन - K । २. कन्दल: KH । ३. स्वानयिकि... C, KH । ४. मपश्याव:- KH, K, P, A, BI टि. 1. तद् अर्जति धीमान् येन निर्मलं.... धाम आप्नुयात् इत्यन्वयः । 2. निष्कं - सुवर्णम् ।