________________
[ कणिकासमन्विता उपदेशमाला । गाथा - २८ ]
आनन्दी नन्दनालोके महानन्दोन्मुखो नृपः । व्रतमस्पृहयल्लाभे न कोऽधिकमनोरथः ॥ १७२॥ राज्ये न्यस्य सुतं दूरनिर्वाणनगरोत्सुकः । धर्मतीर्थेशतीर्थे स प्रव्रज्यामाददे कृती ॥१७३॥ रसां सनत्कुमारस्य रक्षतश्चक्रिलक्षणम् । उदपद्यन्त रत्नानि चक्रादीनि चतुर्दश ॥१७४॥ चक्रमार्गानुगो वर्षसहस्रजितभारतः । लब्ध्वा नवनिधीन् हृष्टः स हस्तिपुरमागमत् ॥१७५॥ ततोऽस्य चक्रवर्तित्वाभिषेके धनदः स्वयम् । आगत्य विचकारैकयोजनां रत्नवेदिकाम् ॥ १७६॥ माणिक्यमण्डपं तत्र तत्र पीठं मणीमयम् । नानारत्नमयं तस्य मध्ये सिंहासनं महत् ॥ १७७॥ पूर्वप्रीत्यैव सम्प्राप्तं सुधर्माख्यं सदस्तदा । तत् कुबेरेण विज्ञप्तोऽलञ्चकाराश्वसेनसूः ॥१७८॥ दिव्याः कोटीर-ताडङ्कहार- चीवर - पादुकाः । सच्छत्र - चामरास्तस्मै ढौकयाञ्चक्रिरे सुराः ॥१७९॥ क्षीरनीरनिधेर्नीरैः सशरीरैः शुभैरिव । आश्वसेनाय चक्रित्वाभिषेकं चक्रिरे सुराः ॥ १८० ॥ गीत-नर्तन-वाद्यादि-मङ्गल्यं नाटकादि च । तारं तुम्बरुरम्भाद्यैः समारभ्यत तत्पुरः ॥१८१॥ स श्रीमानभिषिच्यैवं दिव्यैराभूष्य भूषणैः । सुरैः प्रावेशि रत्नेन हस्तिना हस्तिनापुरम् ॥१८२॥ पुरेऽस्मिन् विस्मयं यच्छन् पौराणां क्षितिपूरणैः । जलैरिवाथ जलदः प्रावर्षद्धनदो धनैः ॥ १८३॥ सौधर्मेन्द्रस्तव प्राच्यसौधर्मेन्द्रस्य सौहृदात् । मयेत्यकारयत्सर्वं किञ्चिदादिश्यतां पुनः ॥१८४॥ इदं विज्ञप्य धनदः सर्वं भव्यमभूदिति । सत्कृतश्चक्रिचिह्नेन द्यां ययौ द्योतयन् दिशः ॥१८५॥ युग्मम् ॥ नृपैर्मुकुटिभिः कामं सामन्तैश्चाथ निर्ममे । लक्ष्मीलतापय: सेकोऽभिषेको भरतेशितुः ॥ १८६॥ उज्झितां दण्डशुल्कादिक्लेशलेशैरपि क्षितिम् । अपालयदयं बालमिवाऽप्रकुपितः पिता ॥ १८७॥ ईशानकल्पतो भाभिर्भर्त्सयन् भासुरान् सुरान् । सङ्गमाह्वः सुरः प्राप सौधर्मेन्द्रसदस्तदा ॥१८८॥ गते सौदामिनीसंज्ञमस्मिन्नालोक्य नाटकम् । सुरैः सुराधिपः पृष्टः किमस्येदृक् महन्महः ॥ १८९॥ अथाऽऽचष्ट हरिः कष्टं तेनेऽनेन पुरा तपः । आचाम्लवर्धमानाख्यं तेनाऽसौ विश्वजैत्ररुक् ॥ १९०॥ ईदृक्रुचिः क्वचित् कश्चित् अस्तीत्युक्ते पुनः सुरैः । शक्रोऽभ्यधान्नभात्येष पुरस्तुर्यस्य चक्रिणः ॥१९१॥ 20 विजयो वैजयन्तश्च तदश्रद्धापरौ सुरौ । क्ष्मां श्रितौ विप्ररूपेण चक्रिरूपनिरूपणे ॥१९२॥ आरब्धमज्जनस्तैलाभ्यक्तस्तौ मुक्तभूषणः । तदैवाऽवीविशच्चक्री द्वाःस्थौ द्वाःस्थनिवेदितौ ॥१९३॥ तौ रूपं तस्य भूपस्य पश्यन्तौ विस्मयस्थितौ । शिरोऽकम्पयतां रूपं निषेधन्ताविवान्यतः ॥१९४॥ नृपेणाऽऽगमने हेतुमेतौ पृष्टावशंसताम् । त्रैलोक्योत्तरविख्यातत्वद्रूपेक्षाकुतूहलम् ॥ १९५॥ रूपमालोकनीयं मे स्नातस्य स्थीयतां क्षणम् । इत्यादिश्य नरेशस्तौ प्राविशत् मज्जनालयम् ॥१९६॥ निर्वृत्तमज्जनः सज्जचन्दनादिविलेपनः । अदूष्यदूष्यभृन्मुक्तदूषणः स्फारभूषणः ॥१९७॥
१. समुपद्यन्त - D, KH | समपद्यन्त A, C, B । २. पूर्वरीत्यैव - P । ३. महाचीवर - P । ४. श्चक्र - C, A, KH,
BKI
१०९
5
10
15
25