________________
१०५
[कर्णिकासमन्विता उपदेशमाला । गाथा-२८] स व्रजन् पल्वलोपान्ते कान्तकान्ताऽऽवलीवृतम् । पुरो ददर्श सुहृदं हृदयादिव निर्गतम् ॥७१॥ स्नपितौ हर्षरतोयैः स्मितार्चिस्रग्भिर्चितौ । ततः सनत्कुमारस्य स क्रमौ सहसाऽनमत् ॥७२॥ कुमारोऽप्यथ हर्षाश्रुशान्ततद्विरहानलः । उत्थायोत्थाप्य सुहृदं हृदि दोामपीडयत् ॥७३॥ द्वावप्युद्यन्महानन्दावकस्मात्प्राप्तिविस्मितौ । दृग्सुधानिझरैस्तापं शमयामासतुर्मिथः ॥७४॥ सुहृत्सङ्गसुधामेव नयन् वचनतामथ । महेन्द्रसिंहमाचष्ट स्मयमानो नरेन्द्रभूः ॥५॥ मद्वियोगानलज्वालाजालेन परितापितैः । अस्थीयत पितुः पादकमलैः कोमलैः कथम् ॥७६॥ त्वया कथं वा निस्तीर्णा विस्तीर्णा दुस्तराऽटवी । मद्विलोकनलोलेन क्वेयान् कालो विलम्बितः ॥७७॥ अथाऽऽदितः कथामेष कथयित्वा यथा तथा । हयापहारमारभ्य वार्ता पप्रच्छ भूपजात् ॥७८॥ ततो नृपसुतादेशाद् विद्याधरवधूजनैः । सोऽयं संस्नप्य सम्भोज्य सम्भूष्याऽऽनीयताऽग्रतः ॥७९॥ पुनः पृच्छति मित्रेऽस्मिन् न कथ्या स्वकथा स्वयम् । इति ध्यात्वा नृपसुतः प्रियां प्रोवाच पार्श्वगाम् ॥८०॥ 10 विद्यया विदितं वेद्यं विद्याधरसुते ! तव । तदस्मै मद्वयस्याय मवृत्तं देवि ! दिश्यताम् ॥८१॥ इदं निर्दिश्य निद्रालुरसौ रतिगृहेऽविशत् । विद्याधरी सा च कुलवती नाम्नाऽवदच्च तम् ॥८२॥ तदा प्रतीपशिष्येण जहेऽश्वेन सुहृत्तव । तेन वल्गासमाकर्षोत्कर्षद्विगुणरंहसा ॥८३॥ कुञ्चितोप्युच्चलन्मूर्ख इवैष प्रतिषिद्धकृत् । मृत्युं दिनद्वयेनाऽऽप महाटव्यामटन् हयः ॥८४॥ पित्सोस्तुरङ्गमात्तूर्णमुत्तीर्णोऽयं सुहृत्तव । दर्शयन् लाघवं हस्तिहतात् पक्षीव वृक्षतः ॥८५।। क्वाऽऽप्यनाप्य पयःपूरं दूरं तृष्णाकुलश्चलन् । एष पृथ्वीशभूः पृथ्व्या धृतोऽङ्के मूच्छितः पतन् ॥८६॥ ततो यक्षः कृपादक्षः कोपि तद्वनदैवतम् । सिषेचाऽमुं जलैर्लानं यथेन्दुः कैरवं करैः ॥८७॥ प्राग्जन्मबन्धुनाऽनेन धुनानेन तनुक्लमम् । अमूझे मूर्तिमत्पुण्यमिवायं पायितः पयः ॥८८॥ तमुत्तस्थे सखाऽपृच्छत् कस्त्वं निष्कारणः सुहृत् । कुतश्चेदं पयः स्वादु मुधाकृतसुधारसम् ॥८९॥ आचचक्षे स यक्षोऽहं वीक्ष्य त्वां मोहमागतम् । आनयं मानसादम्भो दम्भो यस्य सुधारसः ॥९०॥ 20 आर्यपुत्रो जगादाऽथ तत्पाथः प्रविशामि चेत् । तन्मे श्रमार्कतापोत्थो दाहो देहस्य नश्यति ॥११॥ श्रुत्वेति मञ्जु यक्षेण क्षिप्त्वा कदलिसम्पुटे । सुधाकुण्डमिवोद्भूतं नीतोऽसौ मानसं सरः ॥१२॥ यक्षेण गुरुणेवाऽयं सर: श्रेय इवार्पितः । संसारजमिवाऽमुञ्चत् तापं कान्तारचारजम् ॥१३॥ म्लानस्तपनतापेन शीतले तज्जले ललन् । नागवल्लीदलमिवाऽभवदेष पुनर्नवः ॥९४॥ असिताक्षस्तदा यक्षो विपक्षः पूर्वजन्मनः । हन्तुं हन्त भवन्मित्रं मेत्त्य॑मृत्युरिवाऽऽपतत् ॥१५॥ 25
१. सुकथा-P । २. मृत्य-P, L, KH मत्यु-A मृत्यु-K मृत्युः D मृत्यु-C । टि. 1. वल्गा-अश्वनियन्त्रणोपयोगिरज्जुविशेषः, 'लगाम' इति भाषायाम् । 2. धू धातोः (आ०) कर्तरिवर्तमानकृदन्तः, तृतीया
एकवचनरूपः ।