________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २८ ]
मांसादैर्दारितं स्पष्टमलमूत्रादिभृत् स्फुटम् । शीर्णोपरित्वगुत्कीर्णदृष्टिदृष्टान्त्रकीकशम् ॥२०॥
तद् विक्रमयशा विष्णु श्रीवपुर्वीक्ष्य लज्जितः । अचिन्तयदहो ! मोहो यदनेनाऽप्यहं जितः ॥ २१॥ युग्मम् ॥ स्त्रीणां स्मरस्य शस्त्रीणां यदि वेद्मीत्यसारताम् । इयत्काले न भग्नः स्यात् तत्तदेकभटो भवः ॥२३॥ भवमित्थमुदीक्ष्याऽसौ दीक्षासौरभभासुरः । सुव्रताचार्यपादान्ते दान्तेन्द्रियचयोऽभवत् ॥२४॥ तपोभिर्दुस्तपैः सोऽङ्गं संसारमिव शोषयन् । सनत्कुमारकल्पेऽभूत् कालेन प्रवरः सुरः ||२५|| च्युत्वा ततः पुरे रत्नपुरे सम्यक्त्वरत्नभाक् । जिनधर्माभिधः सोऽभूद् धर्म्मभूषामणिर्वणिक् ॥२६॥ आर्त्तध्यानान्मृतो नागदत्तोऽपि विरहातुरः । तिर्यग्भवेषु भ्रान्त्वाऽभूत् पुरे सिंहपुरे द्विजः ||२७|| षट्कर्मा सोऽग्निशर्माऽऽख्यः कालेनाऽऽप्य त्रिदण्डिताम् । द्विमासादितपोयत्नः पुरं रत्नपुरं ययौ ॥२८॥ हरिवाहननाम्ना तत्पुरेन्द्रेण निमन्त्रितः । स पारणादिनेऽपश्यज्जिनधर्मं नृपौकसि ॥ २९ ॥ ततः प्राग्जन्मवैरेण स त्रिदण्डी नृपं जगौ । न्यस्तेऽस्य श्रेष्ठिनः पृष्ठे स्थालं भुञ्जेऽन्यथा न तु ॥३०॥ गुर्वाज्ञा न विलङ्घ्येति राज्ञा भागवतेन सः । दिष्टः श्रेष्ठी ददौ पृष्ठं भाजनाय त्रिदण्डिनः ॥३१॥ तप्तपायसपात्रेण पृष्ठिचर्म्म च कर्म च । प्रादाहि जिनधर्मस्य न मनस्तु मनागपि ||३२|| भुक्ते तत्रोते पात्रे निस्त्वक् तस्य तनुर्बभौ । धीरस्य नश्यता क्लृप्तपश्चाद्वारेण कर्मणा ||३३|| गत्वाऽयमोकः स्वं लोकमथाऽऽहूय यथाविधि । कृत्वा चैत्याऽर्चनं भेजे जिनधर्मो जिनव्रतम् ॥३४॥ आरुह्य शैलशृङ्गाग्रमुत्तुङ्गपदलिप्सया । कायोत्सर्गं वितेनेऽसौ सर्वतोऽप्यनिवर्त्तकम् ॥३५॥ गृध्राद्यैश्चञ्चभिश्चर्व्यमाणोऽप्यविचलद्वपुः । नमस्काररतिर्मृत्वा स सौधर्माऽधिभूरभूत् ॥३६॥ त्रिदण्डी सोsपि मृत्वेन्द्रयुग्यमैरावणोऽभवत् । ततश्च्युत्वा भवे भ्रान्त्वा सिताक्षोऽजनि गुह्यकः ||३७|| इतश्च जम्बूद्वीपश्रीनेत्रे क्षेत्रेऽस्ति भारते । कुरुजाङ्गलदेशान्तः पत्तनं हस्तिनापुरम् ॥३८॥ अश्वसेनाभिधस्तत्राऽजनि राजन्यशेखरः । कलानां च गुणानां च यस्तीर्थं प्रियमेलकम् ॥३९॥ बभूव सहदेवीति महादेवी महाद्युतिः । तस्य भूपस्य रूपेण प्राप्ता देवीव काचन ॥४०॥ स जीवो जिनधर्मस्य काले सौधर्मकल्पतः । तत्कुक्षिमासदद्भानोर्भानूपलमिवानलः ॥४१॥ चतुर्दशमहास्वप्नसूचितं सर्वलक्षणम् । रम्यं रत्नावनी रत्नमिव सूनुमसूदसौ ॥४२॥ महीयसा महेनाऽथ महीनाथो महीमुदे । सनत्कुमार इत्यस्य कुमारस्याभिधां व्यधात् ॥४३॥ जगन्नयनपीयूषकलशैरनिशं भृशम् । सिच्यमानः क्रमेणाऽयं ववृधे कल्पवृक्षवत् ॥४४॥ स शस्त्रशास्त्रयुग्यादिकलासु सकलास्वपि । क्रमाद् ज्ञानविशेषेण गुरूणामप्यभूद् गुरुः ॥४५॥
१०३
१. देकभये-P देकाभये-KH देकपटये L देकभवो - H | २. सम्यक्त्वतत्त्व - C, L, B, A, KH सम्यक्तत्त्व - D, K | टि. 1. षट्कर्मा- 'यजनयाजनो ध्ययनाध्यापनदानप्रतिग्रहं इत्यादिषु षट्सु कर्मसु रतो ब्राह्मणः षट्कर्मा उच्यते । 2. अधिभूः
- प्रभुः ।
5
10
15
20
25