________________
१०२
[कर्णिकासमन्विता उपदेशमाला । गाथा-२८] थेवेण वि सप्पुरिसा, सणंकुमारो व्व केइ बुझंति ।
देहे खणपरिहाणी, जं किर देवेहिं से कहियं ॥२८॥ स्तोकेनापि हेतुनेति, शेषः, सत्पुरुषाः सनत्कुमारवत् केऽपि बुध्यन्ते, न सर्वेऽप्येवं लघुकर्मका इति भावः । देहे क्षणेन स्वल्पकालेन परिहाणी रूपहासः क्षणपरिहाणिरिति यत्किल देवाभ्यां, 'से' तस्य 5 सनत्कुमारस्य कथितं तावतैव स महात्मा प्रतिबुद्ध इति समासार्थः ॥२८॥ व्यासार्थः कथानकादवसेयः । तच्चेदम्
[सनत्कुमारचक्रिकथानकम् ॥] धुसदामप्यनासाद्यमस्त्यल्पश्रेयसामिव । उर्वी कुर्वदतिश्रीकां श्रीकाञ्चनपुरं पुरम् ॥१॥ श्रीविक्रमयशाः प्रौढश्रीविक्रमयशा नृपः । तत्राऽभवद् भुवो भाग्यैदिवः शक्र इवागतः ॥२॥ चन्द्रस्येव रुचस्तस्य कान्ताः पञ्चशतीमिताः । स्पर्शामृतमुचोऽभूवन् भूषिताखिलभूतलाः ॥३॥ नागदत्ताख्यया ख्यातः सार्थवाहोऽत्र पत्तने । अभवद्विभवैः स्वर्णशैलस्येवाधिदैवतम् ॥४॥ उत्थितेव सुधाम्भोधेर्नयनानन्दकौमुदी । नवेव प्रभुविष्णुश्रीविष्णुश्रीस्तत्प्रियाऽजनि ॥५॥ जगत्रितयसाम्राज्यभाजनादप्यसौ जनात् । आत्मानमुत्तरं मेने माद्यन् दयितया तया ॥६॥ कदापि प्राप भूपस्य दृक्पथं सा कथञ्चन । हृद्विमर्शविहीनस्य तमसश्चन्द्रमूर्तिवत् ॥७॥ मन एव तया तस्य हृतं तेनाऽखिलैव सा । उपकारापकारेषु मानिनो ह्यधिकक्रियाः ॥८॥ अन्तरन्तःपुरं न्यस्य तामयं रमयन् मुदा । महानन्दधिया ब्रह्मचर्यस्थान् योगिनोऽहसत् ॥९॥ चेतनामिव तां भूपपिशाचे हृतवत्यसौ । उन्मत्त इव बभ्राम सार्थवाहः प्रमोहवान् ॥१०॥ कालो जगाम लक्ष्म्येव तया युक्तवियुक्तयोः । सुखदुःखमयावेशः क्षितिभृत्सार्थवाहयोः ॥११॥ सेाः प्रियापहारिण्यामथ प्राणापहारकम् । कार्मणं निर्ममुस्तस्यां विष्णुश्रियि नृपस्त्रियः ॥१२॥ कार्मणेन क्षीयमाणा ययौ साऽऽलेख्यशेषताम् । क्रमेण श्यामपक्षेण हिमधामतनूरिख ॥१३॥ नृपस्तन्मृत्युनोन्मत्तः स प्रेमकलहा मयि । धृतमौनेयमित्यग्नौ क्षेप्तुं नाऽदित तद्वपुः ॥१४॥ वञ्चयित्वा विचारज्ञा महीशमथ मन्त्रिणः । वने वनेचरबलिं व्यधुर्विष्णुश्रियो वपुः ॥१५॥ तामप्रेक्ष्य प्रिये ! क्वाऽगा नर्मणा किं तिरोभव । न हास्यमपि तत्कार्यं वश्यो येनातितप्यते ॥१६॥
प्रियाऽसि त्वद्वियोगाग्निरप्ययं प्रिय एव मे । त्वदाश्रयं तु हृदयं दहतीत्यहमाकुलः ॥१७॥ 25 किमगाः केलये क्वापि केलिः का तत्र मां विना । इत्यादि प्रलपन् भूपोऽभ्राम्यल्लीलावनादिषु ॥१८॥ इति त्यक्त्वान्नपानस्य भूपतेर्मृत्युशङ्कया । अदीत तृतीयेऽह्नि मन्त्रिभिस्तत्कलेवरम् ॥१९॥
१. प्रमोदवान्-C । २. भृतमौ...P, D। मृतमौ...B | टि. 1. राहोः इत्यर्थः ।
20