________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा- २३-२७]
१०१
त्वादिङ्गितादितल्लिङ्गानां कपटतोऽपि सम्भवेनाऽनवधारणीयप्रतिबन्धत्वात् । अत आत्मा स्वयमेव साक्षी प्रत्यायनीयो यस्य स आत्मसाक्षिको धर्मः । ततश्चात्मा विवेकवान् जीवः करोति तत् सदनुष्ठानादिकं तथा यथा आत्मसुखावहं स्वहितनिरतं भवति ||२३|| इदमेव व्यापकमाह—
जं जं समयं जीवो, आविसइ जेण जेण भावेण । सो तंमि तंमि समए, सुहासुहं बंधए कम्मं ॥२४॥
यं यमिति वीप्साया व्यापकत्वात् सर्वं समयमपि क्षणमात्रमपि जीव आविशति आस्कन्दति, येन येन सदसद्रूपेण भावेनाऽध्यवसायेन । स जीवस्तस्मिन् तस्मिन् समये शुभाशुभं तत्तद्रूपभावानुरूपं बध्नाति, आत्मसम्बद्धं करोति कर्म पुण्यपापरूपम् ॥२४॥ अथाहङ्कारस्य विशेषदुर्जयत्वात् तत्परिहारमुपदिशतिधम्मो मण हुतो, तो न वि सीउण्हवायविज्झडिओ | संवच्छरमणसिओ, बाहुबली तह किलिस्संतो ॥२५॥
'यदि' इत्यध्याहारात्, यदि धर्मो मदेनाभविष्यत् ततः सम्भाव्यते । एतत् नापि शीतोष्णवातैः प्राकृते शदेर्झडादेशे 'विज्झडिओ' त्ति विशन्नः संवत्सरमभिव्याप्यानशितो निर्भोजनो, बाहुबलिः सुनन्दा - नन्दस्तथाप्रसिद्धप्रकारेणाऽक्लेशिष्यत् क्लेशमन्वभविष्यदिति गाथार्थः ॥ २५॥
7
कथा चेयं "जह बाहुबलिस्स भरहवई" इत्यत्र बोद्धव्येति । समदश्च गुरूपदेशनिरपेक्षो न स्वार्थसाधको भवति इत्येतदेवाहनियगमविगप्पिय- चिंतिएण सच्छंदबुद्धिरइएण । कत्तो पारत्त हियं, कीरइ गुरुअणुवएसेणं ॥२६॥
निजकमतिविकल्पितचिन्तितेन स्वकीयाभिमतसङ्कल्पावधारितेन स्वच्छन्दबुद्धिरचितेनोपदेशबाह्यस्वमनीषिकानिर्मितेन । कुतः परत्र हितं क्रियते उपायाभावान्न कुतोऽपीति । केन ? आह-गुर्वनुपदेश्येन मदावलिप्तत्वाद् गुरूपदेशानर्हेण शिष्येणेति शेषः ॥ २६ ॥ किञ्च -
थद्धो निरोवयारी, अविणीओ गव्विओ निरवणामो । साहुजणस्स गरहिओ, जणे वि वयणिज्जयं लहइ ॥२७॥
अथ दुर्विनयव्यपनयनाय किमिति बहूपदिष्टम् ? उच्यते - गुरुकर्मप्राणिनां बहुत्वात्, दिष्टेऽपि न बुध्यन्ते, एतदेव व्यतिकरेण काक्वा प्रथममाह
5
ते चासकृदुप
10
15
स्तब्धोऽनीचैर्वृत्तिर्वपुषापि दर्शितमानविकारः । निरुपकारी कृतघ्नः । अविनीतोऽभ्युत्थानाऽऽसनदानाऽञ्जलिकरणादिविनयरहितः । गर्वित उत्सेकादात्मबहुमानी । निरवनामः पूज्येष्वपि न प्रणतिमान् । साधुजनस्याऽदोषदृष्टिलोकस्य गर्हितो निन्दितः सन् जनेऽपि तदपेक्षया नीचलोकेपि, वचनीयतां 'दुष्टशील' 25 इत्यश्लाघां लभत इति ॥२७॥
20