SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०० [कर्णिकासमन्विता उपदेशमाला । गाथा-२०-२३] किमेतदिति पृष्टेऽथ भूपेनाऽभाषत प्रभुः । प्रसन्नचन्द्रः शुद्धेन ध्यानेनाऽजनि केवली ॥१६२॥ अमी ते दुन्दुभिध्वानाहूतभूतसमुच्चयाः । महिमानं धुधामानः सानन्दास्तस्य तन्वते ॥१६३।। एवं निशम्य सम्यक्त्वगृहं राजगृहाधिपः । दध्यौ नास्ति विना ध्यानं किञ्चिन्मुक्तिकरं क्वचित् ॥१६४॥ अनधीनाधियोक्षाणां सम्यग् लिङ्गं न तासु च । ध्यानज्ञानं क्व तत्किन्तु लिङ्गमेव तु पूजयेत् ॥१६५॥ 5 खारतर्यं क्वचित् बाह्यं शैथिल्यं वाऽथ लिङ्गिनाम् । न प्रमाणं बुधः कुर्याल्लिङ्गमेव तु पूजयेत् ॥१६६॥ इति प्रसन्नचन्द्रकथानकम् ॥ [आदितो ग्रन्थः २४१५] अथ न केवलं भरतस्य शृङ्गारभुवनप्रवेशादिरूपं प्रसन्नचन्द्रस्यातापनादिरूपं च बाह्यजनरञ्जनापरमकुशलकुशलस्वरूपमप्रमाणं यावता जनज्ञापनोपायभूतो वेषोऽप्येवमेवेत्याह वेसो वि अप्पमाणो, असंजमपएसु वट्टमाणस्स । किं परियत्तियवेसं, विसं न मारेइ खज्जंतं ? ॥२१॥ वेषोऽपि शिरस्तुण्डमुण्डनरजोहरणधारणादिरूपोऽप्रमाणोऽविद्यमानयुक्तिरयुक्तो न स्वार्थसाधक इति भावः । कस्येत्याह-असंयमपदेषु विहिताऽकरण-प्रतिषिद्धाचरणरूपेषु वर्तमानस्य सतः पुंसः ? यतः किं परिवर्तितवेषमिति कर्मविशेषणं किं कृतगरुडादिनेपथ्यान्तरं सन्तं पुरुषमिति गम्यं विषं कर्तृ न मारयति खाद्यमानम् ? अपि तु मारयत्येव, ततो यथा खाद्यमानाद्विषाद्वेषेण न कापि प्रतिक्रिया तथा संयम15 जीवितान्तकरादसंयमपदादपीति भावः ॥२१॥ तर्हि मनःशुद्धिरेवास्तु परस्तावदास्तां वेषः [इति चेत्] न, निश्चयनय एष व्यवहारतस्तु वेषः प्रमाणमेव मन:शुद्धरपि प्रायस्तदालम्बनत्वादित्याह धम्मं रक्खइ वेसो, संकइ वेसेण दिक्खिओ मि अहं । उम्मग्गेण पडतं, रक्खइ राया जणवउ व्व ॥२२॥ 20 धर्म रक्षति वेषो, गृहीतदीक्षावेषस्य हि सत्पुरुषस्याऽकृत्यप्रवृत्त्यदर्शनात् तथा प्रवर्तितुकामोऽपि हि स शङ्कते-यथा वेषेणोपलक्षितो दीक्षितोऽस्मि भवाम्यहम् एवं चोन्मार्गेणाऽकृत्याचरणलक्षणेन, पतन्तं विवेकगिरिशिखरात् भ्रश्यन्तं यथा पुमांसं इति गम्यम् । रक्षति मर्यादया स्थापयति, राजा दुष्टनिग्रहशिष्टपरिपालनेन रञ्जनाद्यथार्थो दण्डधार:जनपदो वा धिक्कारपङ्क्तिबाह्यत्वादिभिः प्रकारैर्यथा रक्षति, तथा वेषोऽपीति व्यवहाराभिप्रायाद् वेषः सर्वैरपि प्रमाणमेव कार्यः ॥२२॥ निश्चयतस्तु __ अप्पा जाणइ अप्पा, जहट्ठिओ अप्पसक्खिओ धम्मो । अप्पा करेइ तं तह, जह अप्पसुहावहं होइ ॥२३॥ आत्मा शुभपरिणामोऽशुभपरिणामो वा यथास्थितस्तदात्मैव जानाति नापरः परचेतोवृत्तेरतीन्द्रिय 25 १. वन्द्यो नास्ति विना ध्यानं किञ्चित्किञ्चित् क्वचित्क्वचित्-C किञ्चित्किञ्चित्करं क्वचित्-P, KH | टि. 1. अतिखरं खरतरं अतिकठोरं, तस्य भावः खारतर्यम् ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy