________________
९७
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-२०]
सहितः संहिताभिश्च वशाभिर्नवयौवनः । गजेन्द्र इव राजेन्द्रप्रीतयेऽवरजोऽजनि ॥१०॥ इतश्च सोमचन्द्रर्षिः कुमारमनवेक्ष्य तम् । जटावल्किनमात्मानमत्रैर्दुममसिञ्चत ॥११॥ राज्ञा प्रसन्नचन्द्रेण तवृत्तं सोऽथ बोधितः । चेतसा निर्वृतोप्यासीद्विदृष्टिरतिरोदनात् ॥१२॥ अश्रुवर्षी स वर्षीयान् सदा सब्रह्मचारिभिः । तपोऽन्ते तापसोऽकारि पारणं वनजैः फलैः ॥१३॥ इतः प्रसन्नचन्द्रोऽपि समं वल्कलचीरिणा । इन्द्रः कालमुपेन्द्रेण न यान्तमपि वेद सः ॥९४॥ अथ द्वादशवर्षान्ते हर्षाद्भूभतुरकदा । अङ्कादुत्तीर्य पुत्रोऽगादकं वल्कलचीरिणः ॥९५।। ललन्तं बालमालोक्य तं च वल्कलचीर्यपि । स्वस्यैव शैशवस्याऽथ सस्मार पितुरन्तिके ॥१६॥ विपुण्यस्य विपन्नायां जातमात्रस्य मातरि । कुमारभृत्यां मातेव निर्माति स्म स मे पिता ॥९७॥ वने वेश्माश्रमस्तुर्यो यजमाना महीरुहः । वार्द्धके तत्तपः सोऽहं तत्र तातेन लालितः ॥९८॥ लोकद्वितयदातॄणां पातॄणां सकलापदाम् । निष्कृत्रिमोपकतॄणां पितॄणां केऽनृणा नराः ॥१९॥ शैशवान्मुद्रिते तत्रोन्मुद्रिते येन मे दृशौ । दृशौ मुद्रयता तस्य तातस्याऽपकृतं मया ॥१००॥ धिग् धिग् ममाकृतज्ञत्वमजितेन्द्रियतां च धिक् । विस्मार्य यदहं तातमपि तिष्ठामि निष्ठुरः ॥१०१॥ चित्ते चिरं विचिन्त्येति तातं द्रष्टुमथोत्सुकः । प्रसन्नचन्द्रमाप्रष्टमूचे वल्कलचीर्यदः ॥१०२॥ भ्रातः ! प्रातरहं तातप्रणिपातमपातकम् । कृत्वैव भोक्ष्ये तत्तत्र प्रेषणेन प्रसीद मे ॥१०॥ नृपस्तेनेति विज्ञप्तः स्वयमप्यनुजन्मना । सममुत्कण्ठितोऽयासीत्तन्मुनेः पावनं वनम् ॥१०॥ विमुच्य यानं राजानमन्तराश्रमयायिनम् । जगौ हर्षाश्रुभिधौतकल्कं वल्कलचीर्यदः ॥१०५।। सारण्यः पाद्यपाथोभिः प्रसूनाधैर्महीरुहः । सूक्तगानैर्द्विजाश्चात्र तवातिथ्यं वितन्वते ॥१६॥ मृगभेदा गलत्खेदा वेदान्तोद्गारिणः शुकाः । कुर्वन्ति कौतुकं चात्र विनीताः कपयोऽप्यमी ॥१०॥ धात्र्यो मम महिष्योऽमूभृगाः क्रीडासखाश्च मे । अहो महीरुहोऽप्येते मया बाल्येऽत्र रोपिताः ॥१०८॥ तत्तत्समुत्समुद्भूतप्रीतिः प्रेक्ष्याश्रमान्तरे । सोऽन्वभूत्परमानन्दसम्पदामिव वर्णिकाम् ॥१०९॥ गत्वोटजमथो दृष्ट्वा नत्वा तातपदाम्बुजम् । प्रसन्नचन्द्रराजेन्द्रः स चातिमुमुदेतमाम् ॥११०॥ सोमचन्द्रमुनिस्त्वेनमङ्कमारोप्य पूर्ववत् । अजिघ्रन्मूनि पस्पर्श सर्वाङ्गं किञ्च पाणिना ॥१११॥ तदा कवोष्णैः सोमर्दशोरानन्दवारिभिः । प्रक्षालितः क्षणादान्ध्यपङ्कस्तद्विरहप्रसूः ॥११२॥ तावथ स्वयमालोक्य मुदा विशदचक्षुषः । सन्तोषिणोऽपि सन्तोषविशेषः कोऽप्यभूत्पुनः ॥११३॥ गोपितान् पर्णशालान्तस्तापसोपस्करानसौ । प्रत्युपेक्षितुमभ्यागाद्वेगाद् वल्कलचीर्यथ ॥११४॥
15
20
25
१. तत्तत्संमुखमुद्भूतप्रीति: C ।
टि. 1. सम्यग् हितकारिणी सहिता, ताभिः वशाभिः, स्त्री हस्तिनी च । 2. अप्रैः-अश्रुभिः । 3. अतिवृद्धः । 4. कुमाररक्षणोपाये।