________________
९४
[कर्णिकासमन्विता उपदेशमाला । गाथा-२०] तं धात्र्यपि दिनान् कांश्चित्पालयामास बालकम् । उत्कण्ठितेव तामेव धारिणीमन्वगादथ ॥२२॥ तमपीप्यन्महीस्तन्यं महीपतिमुनिः सुतम् । यानासीनः शयानोऽङ्के स्वयमेव दधार च ॥२३॥ धान्यैरन्यैश्च तैर्वन्यैः पोष्यमाणः फलैः क्रमात् । स शैशवोत्तरं भेजे वयो गर्भस्थतापसः ॥२४॥ राशेरव्यवहार्यस्य जीवानां कोपि सोऽस्तु वा । स्वकोऽथवाऽस्तु सिद्धानामार्जवेनाऽतिभूयसा ॥२५॥ श्रुत्वा प्रसन्नचन्द्रस्तं सोदरं पितुरन्तिके । अमंस्त शून्यमात्मानमसहायतया तदा ॥२६॥ सोत्कण्ठश्चित्रकैश्चित्रे तमानीतं दृशा पिबन् । पितरं वा स्वमेवाथ पुनर्नवममंस्त तम् ॥२७॥ तं वनेचरनेपथ्यं नृपतिः सोदरं स्मरन् । स्वं निर्दीडं खलं धृष्टं कुक्षिभरिममस्त च ॥२८॥ मायोपनिषदां शास्त्रं क्षेत्रं वैशिकवीरुधाम् । नृपो गाणिक्यमाणिक्यं पणस्त्रीगणमादिशत् ॥२९॥
सिंहपोतवदानेतुं याति नातिहठादसौ । तस्मादुपप्रलोभ्यस्तु तथाभ्येति यथा स्वयम् ॥३०॥ 10 भूत्वा समानशीलाभिः स विश्वास्यः कथञ्चन । नान्यं तातर्षिपादेभ्यो व्यवहारं हि वेद सः ॥३१॥
द्रष्टव्यश्च स युष्माभिस्ताताद्दूरतरे चरन् । सोऽन्यथा धक्ष्यति क्रुद्धः शापेनाऽपेशलाशयः ॥३२॥ इत्यादिष्टा नरेन्द्रेण ऋषिवेषाः पणाङ्गनाः । सितोपलाफलालीभिरात्ताभिर्जग्मुराश्रमम् ॥३३॥ तं जन्मजटिलं तत्र क्षत्रियब्रह्मचारिणम् । वेश्या ददृशुरायान्तं बिल्वामलकभारिणम् ॥३४॥
आद्याश्रमं श्रितः किन्तु भवभीतो मनोभवः । दधौ वल्कलचीरित्वमिति दध्युनिरीक्ष्य ताः ॥३५॥ 15 सोऽपि मत्वा मुनीनेतानूचे ताताऽभिवादये । के यूयं क्वाश्रमो वा वः पृच्छन्नित्याभिरौच्यत ॥३६॥
वयं परपुमर्थानुरक्ता दयितभूतयः । मुनयो वीतरागाः स्मः साम्यतः पोतनाश्रमे ॥३७॥ इहातिथ्यविवेकं ते विलोकितुमुपागताः । सपर्ययाऽतिथीनां हि तपोवृद्धिस्तपस्विनाम् ॥३८॥ सोप्युवाच फलान्येतान्यानीतानि वनान्मया । गृह्णीत स्वेच्छया भूयोप्यानेष्येऽहं बहून्यपि ॥३९॥
ताः प्रोचुर्नेदृशेष्विच्छा नीरसेषु फलेषु नः । पोतनाश्रमजातानां फलानां पश्य वर्णिकाम् ॥४०॥ 20 इत्युक्त्वा क्वचिदासित्वाऽऽनायित्वा द्रुतले च तम् । सितोपलाफलान्येनं प्राशयामासुराशु ताः ॥४१॥
सोऽथ बिल्वादिषूद्विग्नोऽभूत्तदास्वादसादरः । तासामासाद्य चाङ्गेन सङ्गं स्पर्शहृतोऽब्रवीत् ॥४२॥
१. 'यावनैति'...c । २. 'गत्वा' A, H | ३. शयित्वा P |
टि. 1. धात्री मृता इत्यर्थः । 2. मही-गौः, तस्याः स्तन्यं दुग्धम् । 3. यान्-गच्छन्, आसीन उपविष्टो वा शयानश्चाङ्के पार्वे दधार तं सुतम् इत्यर्थः । 4. अतिभूयसा आर्जवेन स अव्यवहारस्य राशेः जीवानां कोऽपि अस्तु वा सिद्धानां स्वकः अस्तु अथवा इत्यन्वयः । 5. चित्रकारैश्चित्रे आलेखयित्वाऽऽनीतं तम् इत्यर्थः । 6. सितोपला-र्शकरा । 7. भव: महादेवः, तस्माद्भीतः इति भवभीत: मनोभवः = कामदेवः। 8. वेश्यापक्षे-परपुरुषे धने चानुरक्ताः, दयिता-वल्लभा धनादिभूतिर्यासां ताः, साम्यतः-पुरुषमात्रे समानभावाद् विगतः पुरुषविशेषे रागो याभ्यस्ताः । मुनिपक्षे तु परपुमर्थे परमपुरुषार्थे मोक्षपुरुषार्थेऽनुरक्ताः, दयिता वल्लभा मलादि भस्म वा भूतिर्येषां ते।