________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ११-२० ]
८९
महिलानां सुबहूनामपि मध्यादिह जनेऽपीति सम्बन्धः, समस्तगृहसारः सर्वद्रव्यसञ्चयादिः राजपुरुषैरमात्यादिभिर्नीयते राजकुले प्राप्यते यस्मिन् गृहे पुरुषो नास्ति निःस्वामिकत्वादिति ॥१९॥
धर्मस्य पुरुषप्रधानत्वं लौकिकनीत्या स्थापितम् । तद्वत् किं सुकृतमपि लोकपङ्क्तिमात्रफलमित्याशङ्काव्यपोहाय प्राह
किं परजणबहुजाणावणाहिं वरमप्पसक्खियं सुकयं । इय भरहचक्कवट्टी, पसन्नचंदो य दिट्टंता ॥२०॥
किं परजनानां बहुभिर्ज्ञापनाभिः प्रकटनाप्रकारैर्वरं प्रधानमात्मसाक्षिकमेव सुकृतम्, इतीत्यवधारणे, तेनैवमेवैतन्नान्यथा 'इह' अस्मिन्नर्थे भरतचक्रवर्ती प्रसन्नचन्द्रश्च दृष्टान्तावित्यक्षरार्थः ॥२०॥
भरतकेवलज्ञानकथा चैवम् -
[ भरतकेवलज्ञानकथानकम् ॥] अष्टापदाद्रौ नाभेयप्रभोर्मोक्षक्षणे पुरा । सम्मोहान्मूच्छितश्चक्री भरतः क्ष्मातलेऽलुठत् ॥१॥ शोकग्रन्थिविभेदाय रुदितं शिक्षयन् हरिः । तस्य कण्ठमथाऽऽलम्ब्य पूत्कारं तारमातनोत् ॥२॥ लब्धसञ्ज्ञोऽथ राजापि रुदन्नुच्चैः स्वरं पुरः । विह्वलः शोकपूरेण विललापेति बालवत् ॥३॥ नाथ ! त्यक्तः कुतो दोषादनाथोऽयं त्वया जनः । युष्मद्विना कथं भावी भवारण्येऽशरण्यकः ॥४॥ वियोग: सह्यते भानोः पुनरुद्गमनाशया । अनावृत्तिपदस्थस्य भवतस्तु सुदुस्सहः ॥५॥ मूलतोऽसि न यैर्दृष्टस्तेऽप्यस्मत्तः प्रभो ! वरम् । अदृष्टेऽर्थे न तद्दुःखं दृष्टनष्टे तु यद्भवेत् ॥६॥ बन्धवोऽप्यनुगन्तारस्त्वाममी मम सर्वथा । एक एवाहमत्राऽस्मि त्वया पङ्क्तिबहिष्कृतः ॥७॥ भूत्वा तस्य सुतः श्रीमन्निति शोकवशंवदः । अपि मुक्तिपदं प्राप्तं किं व्रीडयसि तं प्रभुम् ॥८॥ नृपः प्रलापान् कुर्वाणो गीर्वाणपतिना स्वयम् । इत्थं प्रबोधितः शोकशङ्कं किञ्चित् मुमोच सः ॥९॥ अथादिष्टाः सुरेन्द्रेण चन्दनैर्नन्दनाहृतैः । पूर्वस्यां दिशि याम्यायां प्रतीच्यामपि च क्रमात् ॥१०॥ वृत्तां प्रभोः कृते त्र्यस्रामिक्ष्वाकुकुलजन्मनाम् । चतुरस्रां परेषां तु चितां चक्रुर्दिवौकसः ॥११॥ युग्मम् ॥ ततो मुक्तशरीराणि निवेश्य शिबिकान्तरा । चितासमीपमानिन्युस्ते महेन महीयसा ॥१२॥ अथो यथोचितं तेषु निहितेषु चितान्तरे । वह्नि विचक्रुर्वायुं च वह्निवायुकुमारकाः ॥ १३॥ तं च व्यधापयद् वह्निमह्नायाऽब्दकुमारकाः । सुगन्धिभिरुपानीतैः क्षीरवारिधिवारिभिः ॥१४॥ ततः सर्वेऽपि देवेन्द्रा देवाश्च जगृहुर्मुदा । दंष्ट्रादन्तादिकान्यस्थिशकलानि यथोचितम् ॥१५॥ याचमानाश्च देवेभ्यो लब्धकुण्डत्रयाग्नयः । श्रावकास्तत्प्रभृत्येवमभूवन्नग्निहोत्रिणः ॥१६॥ भस्मभूषणतां प्रापुः परे तद्भस्मवन्दकाः । ततश्चितात्रयस्थाने रत्नस्तूपान्यधुः सुराः ||१७|| १. व्यपोहायाथाह - A । २. लुठन् KH, D, CI
5
10
15
20
25