________________
10
८८
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५-१८] अभिगमनवन्दननमस्करणेन तथा विनयेनासनदानादिना, छन्दोवशाद् व्यस्तनिर्देशः, स पूज्य इति ॥१५॥ कस्मादेवमित्याह
धम्मो पुरिसप्पभवो, पुरिसवरदेसिओ पुरिसजिट्ठो ।
लोए वि पहू पुरिसो, किं पुण लोगुत्तमे धम्मे ॥१६॥ दुर्गतिप्रपतत्प्राणिधारणाद्धर्मः श्रुतचारित्ररूप: पुरुषप्रभवः पुरुषेभ्यः शेषजनापेक्षया प्रधाननरेभ्यो गणधरेभ्यः प्रभवस्तत्रोत्पत्तिर्यस्य स तथा पुरुषवरैस्तीर्थकृभिर्देशितोऽर्थतः कथितः, पुरुषज्येष्ठः पुरुषस्वामिकत्वात् पुरुषप्रधानः लोकेपि तुच्छमतावपि जने प्रभुः पुरुषः, किं पुनर्लोकोत्तमे तत्त्वज्ञजनाभ्यच्चिते धर्म इति ॥१६॥ सोदाहरणं लोकेषु पुरुषप्राधान्यं गाथाद्वयेनाह
संवाहणस्स रन्नो, तईया वाणारसीए नयरीए। ... कण्णासहस्समहियं, आसी किर रूववंतीणं ॥१७॥ तह वि हु सा रायसिरी, उलटन्ती न ताईया ताहि ।
उयरट्ठिएण एक्केण, ताईया अंगवीरेण ॥१८॥ संवाहननाम्नो राज्ञस्तदा तत्परलोकगमनान्तरं वाराणस्यां नगर्यां किलेति परोक्षाप्तागमवादसंसूचकः, रूपवतीनामन्तःपुरसुन्दरीणां सम्बन्धिजातं कन्यासहस्रमधिकमासीत् यद्वा राज्ञः किल रूपवत् सुरूपं स्त्रैण15 मित्यन्तःपुरस्त्रीनिकुरम्बं कन्यासहस्रेण महितं पूजितमासीत् अथवा कन्यासहस्रमधिकमासीत् किल रूप
वतीनामिति रूपवतीषु सुन्दरीषु मध्ये सौन्दर्यातिशयेन नमीश्वरमिवेत्यर्थः ॥१७॥ तथापि च सा राजश्रीरुल्लटन्ती पर्यसेरिति उपलक्षणत्वादुत्पूर्वादपि असेर्लोट्टादेशः । उदस्यन्ती भ्रश्यन्ती न तायता न त्राता ताभिरन्तःपुरस्त्रीभिस्तासां कन्याभिश्च उदरस्थितेनैकेन तायिताऽङ्गवीरेणेत्यक्षरार्थः ॥१८॥ भावार्थः कथानकादवसेयः । तच्चेदम्
[संवाहनकथानकम् ॥] पुरा पुरि नरेन्द्रोऽभूत् काश्यां संवाहनाभिधः । बढ्योऽन्तःपुरिकास्तस्य तासां पुत्र्यश्च भूरिशः ॥१॥ दैवादपुत्रे त्रिदिवं गते तत्र पुरे नृपाः । विरोधिनः पुरीरोधं चक्रुर्विक्रमिणो बलैः ॥२॥ राज्ञी च गुर्विणीमेकां मन्त्री निश्चित्यलक्षणैः । भाविपुत्रामिमामेवाऽभ्यषिञ्चत् कुशलाभिधः ॥३॥
राजाऽयमङ्गवीरोऽभूदिति ख्याति विधाप्य च । विजिग्ये विद्विषः सर्वानुत्साहप्रतिभानवान् ॥४॥ 25 स्त्री: सकन्याः पुरं राज्यं त्रायते स्म तदापि यः । अङ्गवीरः स वीरोऽभूत् पश्चादपि नृपाधिपः ॥५॥
इति संवाहनकथानकम् ॥ अन्यच्च
महिलाण सुबहुयाण वि मज्झाओ इह समत्तघरसारो ।
रायपुरिसेहिं निज्जइ जणे वि पुरिसो जहिं नत्थि ॥१९॥ टि. 1. पर्यसेरिति-परि+अस् धातोः 'लट्ट' आदेशः इति वचनात् उद्+अस् धातोरपि बोद्धव्यः ।