SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 5 [ कणिकासमन्विता उपदेशमाला । गाथा - ११] नियमास्तेषु स्वयं ग्रहीतुं परान् ग्राहयितुं मतिर्मनः परिणामो यस्य सोऽभिग्रहमतिक इत्याचारसम्पत्सम्पन्नतामाह । अविकत्थनो नात्मश्लाघको बहुभाषी वा । अचपलः स्थिरस्वभावः । प्रशान्तहृदयः कषायाग्न्युपशमेन शीतचित्तः । एतेनार्थतश्चतुर्द्धापि विनयोपग्रह इति एवं गुणसम्पन्नो गुरुस्तृतीयपरमेष्ठी भवतीति । अनेन गाथाद्वयेन सूचितानां षट्त्रिंशतः सूरिगुणानां सङ्ग्रहगाथेयं ८४ "कायप्पयोगसुयवयमेइवायण 1 इय संपयऽट्ट विणओ चउह त्ति गुणा इमे गणिणो " ॥ [] अस्य व्याख्या–काय त्ति प्रथमा शरीरसम्पच्चतुर्द्धा - आरोहपरिणाहयुक्तता प्रमाणोपेतत्वं, अनवत्राप्यता अलज्जनीयता सुघटाङ्गत्वेन, परिपूर्णेन्द्रियत्वं, स्थिरसंहननता अशक्तित्यागेन । प्रयोग इति सूचनात् प्रयोगमतिसम्पद्वादजयार्थं प्रमाणोपन्यासव्यापारकौशलरूपा द्वितीया, सापि चतुर्धा10 'आत्मज्ञानं पुरुषज्ञानं च स्वपरयोः सामर्थ्यविमर्शः, क्षेत्रज्ञानं प्रतिकूलानुकूलादिबाहुल्यविमर्शः,वस्तुतत्त्वज्ञानमायतिहिताहितादिविमर्श इति । तृतीया श्रुतसम्पदपि चतुर्द्धा बहुश्रुतता परिचितसूत्रता अविस्मरणतया, विचित्रसूत्रता - आदेरन्तं यावत् अन्तादादिं यावच्च विविधाधिगमरूपा, घोषविशुद्धिकरणता उदात्तादिस्वरशुद्धिविधायकत्वमिति । चतुर्थी वचनसम्पदपि चतुर्द्धा आदेयता सुप्रतिष्ठवाक्यत्वं, माधुर्यं परुषाप्रियत्यागेन अनिश्रितत्वं 15 समताभावेनेति, असन्दिग्धत्वमिति । पञ्चमी मतिसम्पदपि सम्यगर्वग्रहेहापायधारणाभेदाच्चतुर्द्धा । षष्ठी वाचनासम्पदपि चतुर्द्धा - विदित्वोद्देशनं शिष्ययोग्यतानुसारेण विदित्वा समुद्देशनं च, परिनिर्वाप्य वाचना पूर्वप्रदत्तालापकानन्तरमुत्तरालापकदानरूपा, अर्थनिर्यापना अर्थस्य पूर्वापरसाङ्गत्येन निर्वाहनमिति । सप्तमी सङ्ग्रह इति सूचनात् सङ्ग्रहपरिज्ञाख्या सम्पच्चतुर्द्धा निर्वाहयोग्यक्षेत्रस्वीकारः, पीठफल20 कोपादानं, यथासमयं स्वाध्यायप्रत्युपेक्षणाभिक्षाटनोपधिसमुत्पादनानि यथायोग्यं वैनयिकाचारविधापनं चेति । अष्टमी आचारसम्पदपि चतुर्द्धा संयमध्रुवयोगयुक्तता चारित्रसमाधानोपेतत्वं सूत्रार्थसततोपयुक्ततेति यावत्, असम्प्रग्रहो जात्यादिभिरनुत्सेक: अनियतवृत्तिरप्रतिबद्धविहारशीलता, मनसि वपुषि च निर्विकारत्वमिति । तथा नवमो विनयोऽपि चतुर्द्धा तत्र प्रथम आचारविनयः संयमे तपसि गणे एकाकिविहारे च सामाचारीरूपश्चतुर्द्धा, द्वितीयः श्रुतविनयोऽपि सूत्र १ अर्थ २ हित ३ निःशेषवाचनारूपश्चतुर्द्धा, तृतीयो 25 विक्षेपणाविनयोऽपि मिथ्यादृष्टि सम्यक्त्वं ग्राहयति, सम्यग्दृष्टि प्रव्राजयति, रैत्नत्रयाद् भ्रष्टं तत्रैव प्रत्यानयति, स्वयं चारित्रधर्ममभिवर्द्धयति देशनायुक्तिभिर्विक्षिप्येति चतुर्द्धा । चतुर्थो दोषनिर्घातनाविनयोऽपि क्रोधात् १, कषायविषयभेदात् २, भक्त - पान - परसमयाद्या - काङ्क्षायाश्चोपदेशादिभिर्निर्विवर्त्तनं ३, स्वयं च क्रोधादिदोषाकाङ्क्षामुक्तस्य प्रवर्त्तनमिति ४ चतुर्द्धा । तदेवं नवचतुष्काः सर्वेऽपि षट्त्रिंशद् गुणा इमे व्याख्यातरूपा गर्भवन्तीति । १. परिव्राज...A । २. निःसृतत्वं - K, D निःसूतत्वं - C |
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy