________________
८२
[कर्णिकासमन्विता उपदेशमाला । गाथा-५-८] अथोपसर्गेषु निष्प्रकम्पतां परमेश्वरस्तुतिद्वारेणोपदिशति
न चइज्जइ चालेलं, महइ महावद्धमाणजिणचंदो ।
उवसग्गसहस्सेहि वि, मेरु जहा वायगुंजाहिं ॥५॥
न चइज्जइ त्ति न शक्यते शुभध्यानात् चालयितुं कम्पयितुं महदतिमहान् महतामपि सर्वजनपूजनीयानां 5 शक्रादीनामप्यतिशयेन तीर्थकरलक्ष्मीप्रणयलक्षणेन महान् पूज्यः, स तथा वर्द्धमानश्चासौ जिनचन्द्रश्चेति पूर्ववत् ।
स तथा कैः ? इत्याह-उपसृज्यते सन्मार्गात् प्रेर्यते जन्तुरेभित्युपसर्गाः कदर्थनानि तेषां सहस्त्रैरपि । अत्रौपम्यमाह मेरुः शैलराजो यथा वायुगुञ्जाभिः सशब्दप्रबलवातोत्कलिकाभिः कम्पयितुं न शक्यते, तथा भगवानपीत्यर्थः ॥५॥ अथ धर्मस्य विनयमूलत्वात् गणधरोद्देशेन विनयमुपदिशति
भद्दो विणीयविणओ, पढमगणहरो समत्तसुयनाणी ।
जाणतो वि तमत्थं, विम्हियहियओ सुणइ सव्वं ॥६॥ भद्रः कारणे कार्योपचारात् कल्याणः सुखश्च, विनीतविनयः सदनुष्ठितभक्तिः, प्रथमगणधरः एतत्तीर्थापेक्षया भगवानिन्द्रभूतिः । समाप्तं सम्पूर्ण श्रुतज्ञानं यस्येति 'सर्वादेरिन्' [सि.हे.श. ७-२-५९] इति आकृतिगणत्वादिनि समाप्तश्रुतज्ञानी, अत्र चतुर्दशपूर्वधराणामपि मिथः षट्स्थानपतितत्वात् समाप्तेति विशेषणस्य नानर्थक्यं जानन्नपि तं भगवदभिधेयमर्थं सर्वं निशेषं विस्मितहृदयोऽपूर्वमिव बहिः प्रत्यक्षरोमा15 ञ्चोत्फुल्ललोचनतामुखप्रसादादिकार्यलिङ्गानुमितकौतुकाक्षिप्तचित्तः शृणोति आकर्णयति, एवमन्यैर्विद्वद्भिरपि गुरुवचः श्रोतव्यमिति भावः ॥६॥ इदमेव लौकिकदृष्टान्तेन स्पष्टयति
जं आणवेइ राया, पगईओ तं सिरेण इच्छंति ।
इय गुरुजणमुहभणियं, कयंजलिउडेहि सोअव्वं ॥७॥ यदाज्ञापयति आदिशति राजा प्रभुः, प्रकृतयः पौरजानपदास्तदादिष्टं शिरसा उत्तमाङ्गेन इच्छन्ति साभिलाषं गृह्णन्ति । दाान्तिकयोजनामाह-इत्येवमनेनैव क्रमेण गुरुजनमुखेन शास्तृलोकद्वारेण अन्येनापि भणितमुक्तं गुरुजनभणितं तत्कृताञ्जलिपुटैर्विनयावर्जितकरकोरकैः श्रोतव्यमाकर्णनीयम् । अत्र गुरुजनादेशोऽयमिति येन तेन सन्दिष्टेऽप्येष विधिर्यत्पुनः स्वयमेवादिशन्ति गुरवस्तद्विशेषतः श्रोतव्यमिति भावः ॥७॥
गुरोरेव गौरवं विशेषतः प्राह25
जह सुरगणाण इंदो, गहगणतारागणाण जह चंदो ।
जह य पयाण नरिंदो, गणस्स वि गुरू तहाणंदो ॥८॥ यथा इत्यौपम्यार्थे सुरगणानां देवसमूहानाम् इन्द्रः शक्रस्तथा । ग्रहाणामष्टाशीतिसङ्ख्यानां मङ्गलादीनां; 'गण्यन्ते' ज्योतिषव्यवहारे शेषताराचक्रादष्टाविंशतिसङ्ख्यया पृथक् स्थाप्यन्ते इति व्युत्पत्त्या 'युवर्ण...' [सि.हे.श.
१. 'कंपितुं' B । २. अत्रोपमामाह । ३. विणीअ० B । ४. इति शब्दस्य इयाऽऽदेशः प्राकृतलक्षणात् । ५. शास्त्रलोकनद्वारेण LI
20