________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३-४]
८१
श्रावकाणां लक्षमेकं चैकषष्टिसहस्रयुक् । त्रिलक्षी श्राविकाणां च साऽष्टादशसहस्रिका ॥ ११७५॥ विशेषकम् ।। मुक्तिं नवसु यातेषु गणभृत्सु ततः प्रभुः । सगौतमसुधर्मोऽगादपापां त्रिदशैर्वृतः ॥११७६॥ त्रिप्राकारं सदश्चक्रुर्द्युसदस्तत्र च प्रभुः । आयुरन्तं विदित्वाऽन्त्यदेशनार्थमुपाविशत् ॥११७७॥ गोपाले हस्तिपाले च ततोऽपापापुरीपतौ । नत्वा स्तुत्वा विरतयोर्विदधे देशनां विभुः ॥ ११७८॥ पुण्यपालाख्यराजन्यपृष्टाष्टस्वप्निकाफलम् । विभुर्दुःसमयाद्धर्मशैथिल्यं भाव्यथादिशत् ॥११७९॥ भङ्क्त्वा सन्देहसन्दोहं ततः सन्देहिदेहिनाम् । आतृतीयारपर्यन्तं भाव्यादिश्येन्द्रभूतये ॥ ११८०॥ मत्वा तद्दिनयामिन्यामात्मानो मुक्तिसङ्गमम् । हस्तिपालमहीपालशुल्कशालामगात् प्रभुः ||११८१ ॥ युग्मम् ॥ अस्मासु भासुरः स्नेहः केवलज्ञानविघ्नकृत् । गौतमस्याऽद्य विच्छेद्य इति ध्यात्वाऽथ तीर्थकृत् ॥११८२॥ परस्मिन् देवशर्माऽस्ति ग्रामे विप्रः स च त्वया । प्रबोधं प्राप्स्यतीत्युक्त्वा तत्र प्रायुङ्क्त गौतमम् ॥११८३॥ युग्मम् ॥ अथेशः कार्त्तिके दर्शक्षणदापश्चिमक्षणे । षष्ठेन स्वातिनक्षत्रे समसज्जत मुक्तये ॥११८४॥ पीठकम्पात् ततः सर्वे सुपर्वेशा इहाऽऽययुः । व्यजिज्ञपत् सुधर्मेशस्तीर्थेशं सास्त्रलेशदृग् ॥११८५॥ हस्तोत्तराख्यं त्वज्जन्मनक्षत्रं भस्मकग्रहः । क्रामन्नस्त्यधुना नाथ ! तन्मुहूर्त्तं प्रतीक्ष्यताम् ॥११८६॥ चेत् तत्सङ्क्रमणे वः स्यान्निर्वाणं दुर्ग्रहः स तत् । भवद्गोत्रमुभे वर्षसहस्रे पीडयिष्यति ॥ ११८७॥ अथाभ्यधात् प्रभुः कोऽपि नायुः सन्धातुमीश्वरः । विदन्नपीदं किं मोहाद्वदसि सदांवर ! ॥११८८॥ इति प्रबोध्य पर्जन्यं पर्यङ्कासनभाक् प्रभुः । तृतीयशुक्लध्यानादियोगात् सोऽगात्परं पदम् ॥११८९॥ इत्थं निष्ठुरदुष्करे तपसि वा सृष्टेषु दुष्टैर्जनैः ।
दुर्वृत्तेषु तितिक्षयाऽथ भगवान् वीरोऽतिधीरो यथा ॥
किं चात्युग्रमहोपसर्गपवनास्कन्दैरकम्प्राशयः ।
प्राज्ञैस्तद्वदिहापरैरपि सदा भाव्यं महासाधुभिः ॥ ११९०॥ [ शार्दूल० ] [ आदितो ग्रन्थाग्रम्-१९६०] इति श्रीमहावीरचरितम् ॥
अथ भगवद्दृष्टान्तेनैव आचार्यः क्षमामुपदर्शयति—
5
१. गोपालहस्तिभूपाले ततो KH । २. दृष्टा B, L, A । ३. अहं अथ L । ४. लोकविदि... P | टि. 1. गो (पुं.) स्वर्गः तं पालयति इति गोपालः इन्द्रः । 2. पर्जन्यः (पुं.) इन्द्रः तम् ।
10
15
20
जड़ ता तिलोयनाहो वि, सहइ बहुआई असरिसजणस्स ।
इय जीयंतकराई, एस खमा सव्वसाहूणं ॥४॥
यदि तावत् त्रिलोकनाथः प्रकमान्महावीरोऽपि सहते तितिक्षते बहूनि नानाविधानि असदृशजनस्य नीचलोकस्य इतीति भुवनविदितानि जीवान्तकराणि सोपक्रमायुर्जीवापेक्षया प्राणविच्छेदकारीणि दुश्चेष्टितानीति 25 गम्यते । एषा अनन्तरोदिता क्षमा क्षान्तिरपराधिनमप्युद्दिश्य माध्यस्थ्यलक्षणा सर्वसाधूनां समस्तयतीनां उपदेशाधिकारात् कर्तुमुचितेत्युपनीयते ॥४॥