________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
७५ नन्दाया दुःखदायादीत्यवादीद्दासिका तदा । नित्यमित्ययमायाति याति चाऽनात्तकिञ्चनः ॥१०२७॥ नन्दाऽथ दध्यौ नाथेऽस्ति विशिष्टः कोऽप्यभिग्रहः । पारणं कारयिष्यन्त्या बोद्धव्यः स कथं मया ॥१०२८॥ इत्यात्तचिन्ता पत्याऽसौ पृष्टा चिन्तानिबन्धनम् । सर्वमाख्याय दुःखौघभागिनं तमपि व्यधात् ॥१०२९॥ मृगावत्यपि तां बुद्ध्वा तद्वा" वेत्रिणीमुखात् । स्वयं वोढुमशक्तेव वामधुर्यं नृपं व्यधात् ॥१०३०॥ प्रभोरभिग्रहं ज्ञातुं भूपेनाऽऽलोच्य मन्त्रिणा । धर्मोपाध्याय आपृष्टः सत्यवादीदमभ्यधात् ॥१०३१॥ द्रव्यक्षेत्रकालभावैर्भूरिशः स्युरभिग्रहाः । विना विशेषज्ञानेन क्व ज्ञेयः स्वाम्यभिग्रहः ॥१०३२॥ अघोषयदघोच्छेदी खेदी भूपः पुरेऽथ यत् । विविधाग्रे विधातव्या भिक्षाऽभिग्राहिणः प्रभोः ॥१०३३॥ श्रद्धाद्वितीयया लोकस्तच्चक्रे राज्ञ आज्ञया । न तु क्वचित् प्रभुर्भिक्षामपूर्णाभिग्रहोऽग्रहीत् ॥१०३४॥ वीक्षितो नागरैर्लज्जोज्जागरैः खेदसागरैः । ध्यानसुस्थस्तथाप्यस्थादम्लानाङ्गप्रभः प्रभुः ॥१०३५॥ इतश्च प्राक् शतानीको नावनीकैर्निशैकया । चम्पायामपतत् सम्पाझम्पासंपातजित्वरः ॥१०३६॥ 10 विदधे तदधिष्ठाता दधिवाहनभूपतिः । पलायनं छलाक्रान्तः क्व करोतु बलायनम् ॥१०३७॥ अघोषि तोषिणाऽनीके शतानीकेन यद्ग्रहः । चम्पा कम्पाऽऽकुलाऽलुण्टि तद्भटैरुद्भटैस्ततः ॥१०३८॥ वसुमत्या समं पुत्र्या दधिवाहनभूपतेः । दधार धारणी राज्ञी तदानीं कश्चिदौष्ट्रिकः ॥१०३९॥ ययावथ शतानीकः स्मितानीकः पुरीं निजाम् । व्रजन् पथि जनानुच्चैरिदमूचे स औष्ट्रिकः ॥१०४०॥ सेयं रूपवती प्रौढा रचनीया मया प्रिया । एतद्भोगार्थमर्थार्थी विक्रेष्ये कन्यकां पुनः ॥१०४१॥ 15 धारणी सत्कुलोत्पन्ना परिणीताऽथ सत्कुले । इति तद्वाक्यवज्रेण सद्यः स्फुटितहृन्मृता ॥१०४२॥ तां मृतां वीक्ष्य स क्षीणस्पृहोऽचिन्तयदौष्ट्रिकः । हहा महासती सेयं दुर्वाचैवाऽजनि व्यसुः ॥१०४३॥ तप्ता पितृवियोगेन प्रतप्ता मातृमृत्युना । कन्यकापीयमल्पेऽपि दुर्वाक्तापे मरिष्यति ॥१०४४॥ ध्यात्वेति मृदुवाचैव कन्यकां सान्त्वयन् मुहुः । स कोशाम्ब्यां गतो दधे तां विक्रेतुं चतुष्पथे ॥१०४५॥ तां कन्यां तत्पुरश्रेष्ठी धनाधीशो धनावहः । श्रीणामालिभिरक्रीणादप्रीणाच्च सुताधिया ॥१०४६॥ 20 त्वं पुत्रि ! कस्य पुत्रीति सा पृष्टा श्रेष्ठिना ततः । न किञ्चिदूचे स्वकुलमाहात्म्याख्यानलज्जया ॥१०४७॥ मूलाह्वयां प्रियां प्रोचे ततः श्रेष्ठी कृतादरः । सुतेयमावयोः कान्ते ! पाल्या यत्नेन रत्नवत् ॥१०४८॥ तस्या विनयवाक्शीलैः सलीलैः स वणिग्वरः । सानन्दश्चन्दननिभैश्चन्दनेत्यभिधामधात् ॥१०४९।। रूपस्य तनुभूषाया लावण्यं नाम भूषणम् । यौवनेन नवीनेन भूषयामास सा क्रमात् ॥१०५०॥
१. कन्यांत:पुरः श्रेष्ठी...P ।
टि. 1. दुःखदायादी-नन्दाया विभजनीयं दुःखमादत्ते इति दुःखदायादः स्त्रीलिङ्गे दुःखदायादी, दास्या विशेषणम् । 2. सम्पा०विद्युत् इत्यर्थः सम्यक् अतकितं पतति श.र.म.भा.३/पृ. ३००७ । 3. विगताः असवः यस्या सा व्यसुः-मृता इत्यर्थः । 4. तनोभूषा रूपः, तस्य भूषणं लावण्यं, तं नवीनेन यौवनेन सा क्रमाद् भूषयामास इत्यन्वयः ।