________________
5
७४
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] यत्र देवर्षिपूज्यानां क्रियतेऽतिक्रमः क्वचित् । तच्च संसहते राजा घोरं तत्र भयं भवेत् ॥१००२॥ विभावभक्तः शक्रेण यत्सङ्गमजनङ्गमः । चिरं सोढः स उत्पातभयहेतुर्दिवोऽभवत् ॥१००३।। इति गीर्वाणवृद्धेभ्यः श्रुत्वा वृद्धश्रवाः स्वयम् । शान्ति सानुशयश्चक्रे सिद्धायतनपूजया ॥१००४।। स्व:प्राप्तधुपतौ भक्तिभासुस्चमरासुरः । नत्वा जिनं जगौ स्वामिन् ! मम मोहो महोपकृत् ॥१००५।। मोहेनैवाऽसमानेन्द्रविग्रहं दिशता मम । स्वनाशमप्युरीकृत्य दर्शितस्त्वं प्रभुः प्रभो ! ॥१००६॥ सौधर्मादिसदो दूरेऽनुत्तरद्युसदोप्यहम् । नैव स्वतोऽधिकान् मन्ये भवद्भक्तिभवन्मदः ॥१००७॥ धर्मसर्वस्वहा गर्वः सर्वथान्यत्र दूषणम् । त्वां नु स्वामिनमासाद्य माद्यतो मेऽस्तु भूषणम् ॥१००८।। इत्युक्त्वा स्वपुरीं गत्वा ख्यात्वा पौरेषु सोऽखिलम् । तांश्चानीय पुरो भर्तुर्भक्त्या सङ्गीतकं व्यधात् ॥१००९॥ प्रभुः प्रभाते संहृत्य प्रतिमा विहरन्नथ । क्रमतो ममतोन्मुक्तः पुरं भोगपुरं ययौ ॥१०१०॥ हन्तुं जिनेन्द्रं माहेन्द्रक्षत्रियस्तत्र दुर्मतिः । अदूरीभूय खजूरीयष्टिमूरीचकार हा ॥१०११॥ प्राप्तः सनत्कुमारेन्द्रश्चिरोत्कण्ठावशस्तदा । तं निर्भय॑ प्रभुं नत्वा सुखं पृष्ट्वाऽगमद्दिवम् ॥१०१२।। विहरन् पितृमित्रेण नन्दिग्रामेऽथ नन्दिना । आनन्दिना वन्दितोऽगान्मेढाकग्राममीशिता ॥१०१३।। तत्प्रहाराय गोपालमात्तोद्यद्वालरज्जुकम् । द्रुतागतो निवार्येन्द्रस्तीर्थेन्द्रमनमन्मुदा ॥१०१४॥ ततः पवित्रयामास कौशाम्बी त्रिशलासुतः । यत्राभूद् द्विट्शतानीकः शतानीकमहीपतिः ॥१०१५।।
चेटकल्पारिचक्रस्य चेटकस्य महीपतेः । सुता मृगावती नाम तत्प्रियार्हन्मतप्रियाः ॥१०१६॥ तस्य मन्त्री धरित्रीन्दोः सुगुप्तो नाम तत्प्रिया । नन्दाख्या जिनभक्तेति मृगावत्या महासखी ॥१०१७।। तच्चरित्रपवित्रायां तत्पुर्यामित्यभिग्रहम् । अग्रहीद् दुर्ग्रहं पौषशितिप्रतिपदि प्रभुः ॥१०१८॥ मुण्डिता प्रेष्यतां प्राप्ता षष्ठान्ते राज्यकन्यका । अयोनिगडबद्धांह्रिर्मन्युतो रुदती सती ॥१०१९॥
सुदेहा देहलीमध्यबहि:स्थितपदद्वया । निकेतनान्निवृत्तेषु सर्वतः सर्वभिक्षुषु ॥१०२०।। 20 सूर्पकोणेन कुल्माषान् भक्त्या दास्यति मे यदि । तदाहं पारयिष्यामि चिरादपि हि नान्यथा ॥१०२१॥
इत्यात्तजगदज्ञाताभिग्रहोऽनुगृहं प्रभुः । बभ्रामाऽनुदिनं काले न तादृक् भैक्षमैक्षत ॥१०२२।। [कलापकम्] अनात्तभिक्षो वैलक्ष्यदुःखात्तैर्वीक्षितो जनैः । नाथोऽत्यगाद् भ्रमन्नित्यं चतुर्मासी चतुर्थवत् ॥१०२३॥ सुगुप्तमन्त्रिणो वेश्म प्रविवेशैकदा प्रभुः । अभ्युत्तस्थौ च सानन्दा नन्दा विभुनिभालनात् ॥१०२४॥
धन्याऽहं मद्गृहं प्राप्तश्चरमोऽद्य जिनः स्वयम् । इति ब्रुवाणा शुद्धानि तज्ज्ञा साऽन्नान्यढौकयत् ॥१०२५।। 25 अथ साभिग्रहे भिक्षामगृहीत्वा गते विभौ । चिरान्नन्दा निरानन्दा निनिन्दात्मानमेककम् ॥१०२६॥
१. संहरते - C। २. विभावसक्त:-K, D| ३. चेटकाद्वैरि...K, D। ४. सिद्धानि AI
टि. 1. जनङ्गमः (पुं)-चाण्डालः । 2. वृद्धश्रवस् (पुं) - वृद्धेषु श्रवो यशो यस्य इति वृद्धश्रवाः। 3. धर्मसर्वस्वं हन्ति इति क्विप् धर्मसर्वस्वहा गर्वः । 4. द्रुतं शीघ्रं आगतः द्रुतागतः । 5. विट्शतानीक: वैरिकेशरी - B पार्वे टी० । 6. चेटः दासः तत्तुल्य: रिपुसमूहः यस्य सः ।