________________
७३
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] विषमः समरस्योक्तः प्रपञ्चश्चेत् कथञ्चन । जीयेऽहं तेन तत्कस्य चरणः शरणं मम ॥९७७॥ इतिदत्तोपयोगः स योगभाजं जगद्गुरुम् । सुंसुमारपुरे प्रेक्ष्य श्रयणीयं श्रितो मुदम् ॥९७८॥ गत्वोत्तालोऽस्त्रशालायां घोरं परिघमग्रहीत् । उद्दण्डं चण्डदोर्दण्ड आखण्डलचिखण्डिषुः ॥९७९॥ उच्चैरुल्लासितं नीचैालितं दिक्षु चालितम् । परिघं परिघट्यांसे यत्रेशस्तत्र सोऽगमत् ॥९८०॥ मुक्त्वाऽसौ परिघं भक्त्या जिनं नत्वा व्यजिज्ञपत् । यामि धुस्वामिनं जेतुं त्वत्प्रभावात् प्रभो ! दिवम् ॥९८१॥ 5 इत्युक्त्वाऽस्त्रं करे धृत्वा कृत्वाङ्गं लक्षयोजनम् । स भीमोऽभूज्जगज्जालक्षयकाल इवाङ्गवान् ॥९८२॥ मा भून्मद्भारभुग्ना भूर्मत्पुरभ्रंशभाजनम् । द्रागितीवाऽयमुत्पत्य थुपतेरासदत् सदः ॥९८३॥ ज्वालाजिह्वालवक्त्रोऽयं कालाङ्गो भैरवाऽऽरवः । द्यां प्लावयितुमुभ्रान्तः सवाडव इवार्णवः ॥९८४॥ त्रस्ताऽर्वाचीनगीर्वाणः पुरः प्राचीनबर्हिषः । आरोपयत् पदद्वन्द्वं पद्मवेदीसुधर्मयोः ? ॥९८५॥ चलिता: स्खलिताः केचित्रस्ताः श्र(स्र)स्ताऽऽयुधाः परे। व्रीडां क्रीडां च शक्रस्य जनयन्ति स्म नाकिनः ॥९८६॥ 10 रौद्राख्यश्चमरेन्द्रेण नाकिभिश्च भयानकः । अङ्गीचक्रे रसस्तत्र तिरस्कृतरसान्तरः ॥९८७॥ कोपकम्प्रकपोलास्यः सलास्याऽधरपल्लवः । मल्लवच्चरणाऽऽघातैः कम्प्रोत्पिष्टत्रिविष्टपः ॥९८८॥ हत्वा त्रिः परिघेणेन्द्रकीलं भ्रकुटिभीषणः । प्राहेति हेतिवत्तीवाः स दुर्वाक्यपरम्पराः ॥९८९॥ युग्मम् ॥ एवंविधैर्भयाधीनहीनदीननिलीनकैः । वृतः कस्य बलेन त्वं हरे ! मदुपरि स्थितः ॥९९०॥ करात् क्षिप्त्वेदमस्त्रं त्वां पातयाम्यधुनाप्यहम् । दुःखदं वायसमिव स्वाऽऽवासशिरसि स्थितम् ॥९९१॥ 15 चमरेन्द्रमवेत्यामुममरेन्द्रस्ततोऽमुचत् । स्वं मूर्त्तमिव कोपाग्नि स्फुलिङ्गितरविं पविम् ॥९९२॥ द्रष्टुमप्यक्षमो घूक इव तीव्रच्छवि पविम् । सोऽथ द्रागसुरोऽनेशज्जिनेशशरणेच्छया ॥९९३॥ द्राग् लघूकृतदेहं तं हन्त गेहं तदा भियाम् । अंशनैरशनिः सर्पमिव तायोऽन्वधावत ॥९९४॥ शक्रोऽथ दध्यौ दैत्यस्य शक्तिरस्य कुतोऽभवत् । आगन्तुं मत्सभां पङ्गोरिव शृङ्गोन्नतं गिरिम् ॥९९५॥ प्रभुप्रभावादायातं प्रभौ यान्तं च तं तदा । मत्वेन्द्रो हा धिगित्युक्त्वा वजं रोद्धमधावत ॥९९६॥
20 कथञ्चित् प्राप सम्प्राप्तप्रायवज्रस्तु सोऽसुरः । शरणं शरणमिति ब्रुवन् वीरपदान्तरम् ॥९९७॥ चतुर्भिरङ्गलैः स्वामिपादेभ्योऽन्तरितं हरिः । द्रुतमन्वेत्य जग्राह वजं स्वास्थ्यमुवाह च ॥९९८॥ त्वद्भक्तेऽनुपयुक्तेनापराद्धमिह यन्मया । तन्मे क्षन्तव्यमित्युक्त्वा ननाम स्वामिनं हरिः ॥९९९॥ ईशान्यां कोपनाशाय त्रिः प्रहृत्यांहिणा भुवम् । स्वामिभक्तो विमुक्तोऽसीत्यूचेऽथ चमरं धुराट् ॥१०००॥ गते नाकमथो नाकनाथे नाकसदो बधाः । अवोचत विचार्येति धर्मनीत्यर्थवेदिनः ॥१००१॥
१. चरणा: L, K । २. लालितं - A, B, KH, L । ३. घट्याशे - A, B, L । ४. 'स्वमूर्ति...' P । ५. देवेशं हंत...DI
टि. 1. भुज-धातुः कौटिल्ये मम भारेण भुवः कौटिल्यं मा भूत् इत्यर्थः । 2. न शनैः इति अशनैः शीघ्र इत्यर्थः ।
25