________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३]
पापैरिहान्तरे तान्तरेखारूपः स पापधीः । पपाताऽमन्दमन्दाक्षः मन्दाक्षः शक्रदृक्पथे ॥९२८॥
७१
ततः शक्रो भृशं क्रोधपरः स्थित्वा पराङ्मुखः । उवाच भो भो ! मद्वाचमाकर्णयत नाकिनः ! ॥ ९२९ ॥ अधर्मोऽयं सुधर्मायां न स्थाप्यः पापपङ्किलः । अङ्ग ! सङ्गच्छते तेन य: सोपि मलिनः खलु ॥ ९३०॥ दृष्टेऽस्मिन् कर्मचण्डाले दृष्टेर्यत्पातकं भवेत् । द्रष्टव्यस्तद्व्ययाय द्राग् जिनेश्वरदिनेश्वरः ॥ ९३१॥ न तपः परसाहाय्यात् तप्यन्तेऽर्हन्त इत्यसौ । नोपसर्गक्षणेऽशिक्षि शिक्षणीयोऽधुना पुनः ॥ ९३२॥ इत्युक्त्वा वज्रिणा वज्रेणेव वामांहिणा हतः । सोऽद्रिशृङ्गवदभ्रश्यदभ्रश्यद्दुर्यशोधनः ॥९३३॥ सहर्षैरात्तसंहर्षैः स शचीशचमूचरैः । हतो नानास्त्रदण्डाग्रैरग्रे केन्दुकवद् ययौ ॥९३४॥ द्युस्त्रीभिर्मोटितरणत्कराङ्गुलिभिरीक्षितः । क्षिप्तः सामानिकस्तोमैर्यानकाख्यविमानतः ॥९३५॥ सुरो मेरोर्ययौ चूलां स शिष्टैकाब्धिजीवितः । इन्द्रेणानुमता दीनास्तन्महिष्योऽन्वगुश्च तम् ॥९३६॥ नाथोऽन्येद्युर्विवेशाऽथो भिक्षायै तत्र गोकुले । वत्सपालकवृद्धायाः कस्याश्चिद् भाग्यतो गृहम् ॥९३७॥ पायसेनोषितेनेयं भक्त्या प्रभुमपारयत् । पञ्च दिव्यान्यधुस्तत्र विशेषाऽऽनन्दिनः सुराः ॥९३८॥ पुरीं मालवतीं गत्वा प्रतिमास्थमथेश्वरम् । एत्य विद्युत्कुमारेन्द्रो हरिर्नत्वेदमब्रवीत् ॥९३९॥ सोढास्त्वयोपसर्गास्ते येषामाकर्णनाद् गुरो ! दीर्यमाणं हृदस्माकममरत्वेन रक्षितम् ॥९४०॥ अल्पेनाप्युपसर्गेण घातिकर्माभिघातिनः । तव भाव्यचिरादेव देवदेवेश ! केवलम् ॥९४१ ॥ इत्युक्त्वास्मिन् गते गत्वा विश्वेशं श्वेतवीं स्थितम् । विद्युदिन्द्रो हरिसहो नत्वोक्त्वा हरिवद्ययौ ॥९४२॥ श्रावस्तीं प्रभुरासाद्य प्रतिमामाश्रितस्ततः । प्रारेभे तत्र च स्कन्दरथयात्रोत्सवो जनैः ॥९४३॥ पूँजापटलिकाभाजः प्रभुमुल्लङ्घय पूर्जनाः । स्कन्दं ययुस्तमर्चित्वा रथे नेतुमसज्जयन् ॥९४४॥ क्व स्वामीति तदा ध्यायन् मघवा स्वामिलङ्घिनम् । स्कन्दगामिनमालोक्य लोकं मुग्धमगर्हत ॥ ९४५ ॥ प्रभुप्रभावनोक्तेन शक्रेणाधिष्ठिता ततः । सा स्कन्दप्रतिमा पद्भ्यामेत्य रीत्याऽनमज्जिनम् ॥९४६॥ पूज्योऽयमस्य पूज्यस्याप्यत्यक्रामि पुरा जडैः । ध्यात्वेति विस्मितैः पौरैर्महिमा विदधे विभोः ॥९४७॥ कौशाम्ब्यां पुरि गत्वाऽथ गृहीतप्रतिमः प्रभुः । समेत्य सेविनयाभ्यामर्केन्दुभ्यामवन्त ॥ ९४८॥ वाराणसीं गतोऽभ्येत्य शक्रेण प्रणतः प्रभुः । ईशानस्वामिना राजगृहे च विहृतो नतः ॥ ९४९ ॥ मिथिलायामथ गतः प्रभुर्जनकभूभुजा । नमस्कृतः सुकृतिना धरणेन्द्रेण चेयुषा ॥ ९५०॥ वैशाल्याः सगरोद्याने बलौकसि गतस्ततः । उपोषित: स्थितः प्रावृट्कालमेकादशं विभुः ॥ ९५९ ॥
१. अधमोऽयं - C, K । २. कंदुकं ययौ - D, P, K, C, कंदुकवन्... KH | ३. यानिका K । ४. पूजापाट B ५. सविमानाभ्याम... B, KH, C, L, A, H, K, DI
टि. 1. तान्तः - ग्लानिं प्राप्तः । तान्तरेखारूपः - अत्यन्तग्लानः । 2. अमन्दमन्दाक्ष:- अमन्दं = अत्यन्तं मन्दे अक्षिणी नेत्रे यस्य स । 3. मन्दाक्षः - मन्दः = अज्ञानः अक्षः = आत्मा इत्यर्थः । 4. अङ्ग (अव्य० ) - सम्बोधनार्थः अव्ययः । 5. आत्तसंहर्ष:प्राप्तः संहर्षः = स्पर्धा यैः, ते । 6. प्रभोः प्रभावना उक्ता येन स तेन इति विग्रहः ।
5
10
15
20