________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
भूत्वाऽथ शबर: क्रूरः पक्षिपञ्जरकव्रजम् । स बबन्ध श्रुतिस्कन्धभुजोरुषु जगद्गुरोः ॥८८०॥ बभौ पक्षिनखत्रोटिवोटितच्छिद्रितं विभोः । वपुस्तप:श्रीलीलौक इव जालकजालभृत् ॥८८१॥ खरवातं रवातङ्कवित्रसत्रिदशं ततः । प्रचलत्पर्वतं पुण्यश्रीसंहारश्चकार सः ॥८८२॥ उत्पाट्योत्पाट्य तैर्वातैः स्फालितस्य शिलातले । नैर्मल्यमद्भुतं जज्ञे ध्यानामृतभृतः प्रभोः ॥८८३।। अप्यद्रीन् खाऽर्णवाऽऽवत इव भ्रमयितुं क्षमः । तेने तेनाधमेनाऽथ द्राक् कलंकलिकानिलः ॥८८४॥ 5 भवकूपोद्धृतं तेन भ्रम्यमाणं स्वमीशिता । मेने सर्वाङ्गनिर्गच्छत्कृत्स्नकर्मावलीजलम् ॥८८५॥ वज्रसारं मनोऽस्यैष न विक्षुभ्येत् कथञ्चन । कथं च नयनाध्वानं भग्नागूर्यामि नाकिनाम् ॥८८६॥ नासुनाशं विना शक्यः सैष मोचयितुं खलु । ध्यानं गाढग्रहोदनः कृपणो द्रविणं यथा ॥८८७॥ अमुं हत्वाऽपि याम्यद्य प्रतिज्ञापारमित्यथ । ध्यात्वा विबुधचण्डालः कालचक्रं चकार सः ॥८८८॥ उच्चैः शब्दगुणेनाऽनुमेयं व्योमेव मूर्तिमत् । लोहभारसहस्रेण कृतमावर्त्तवद् भ्रमत् ॥८८९॥
10 तत्कालचक्रमुद्यम्य स चिक्षेपोपरि प्रभोः । मांसासृक्पङ्क एषोऽभूदिति चापश्यदुत्सुकः ॥८९०॥ जिनस्त्वमज्जदाजानु क्षितौ तद्धातपाततः । दुर्गतिस्थानिवोद्धर्तुं प्रस्थानप्रथितोद्यमः ॥८९१॥ कष्टानन्त्यं भवानन्त्यात् तस्मिन् पश्यन् ददौ तदा । याः कृपाः दृशः स्वामी ता नमामि जयन्ति ताः ॥८९२॥ क्षमामग्ने तदाजानुवपुषि त्रिजगत्पतेः । मनः क्षमान्तन्निशेष ममज्ज स्पर्द्धयाऽधिकम् ॥८९३॥ प्रतिकूलैः किमप्यस्य नोपसर्गर्भृशं भवेत् । अनुकूलैर्यदि क्षुभ्येदिति ध्यात्वाऽथ सोऽधमः ॥८९४॥ 15 विमानस्थः पुरः स्थित्वा निजगाद जगद्गुरुम् । मुने ! तुष्टोऽस्मि सत्त्वेन सर्वाङ्गीणेन तेऽमुना ॥८९५॥ ततस्त्यज तप:क्लेशं त्वां लोकेशं करोमि किम् । नयेऽङ्गेनाऽमुना किं द्यां हृद्यां मुक्तिं ददामि किम् ॥८९६॥ अप्राप्तप्रतिवागेभिरपि लोभवचोभरैः । उपायमीशक्षोभाय सोऽध्यायत्काममायया ॥८९७॥ षट् चकार ऋतूनेष पुष्पषाड्गुण्यचिन्तकान् । त्रिलोकीजयकामस्य कामस्य सचिवानिव ॥८९८॥ भाग्यं भूषणभूतीनां पुण्यं नैपुण्यसम्पदाम् । धर्मो नर्मश्रियां तेने तेनेह धुवधूगणः ॥८९९॥ अथ सारीकृतासारसंसारं ताः पुरः प्रभोः । असारीकृतसारौघं नार्यस्तूर्यत्रिकं व्यधुः ॥९००॥ मौक्तिकानीव शृङ्गाररसाकूपारजान्यथ । गीतामृतोर्मिलुलितान् दशनान् काप्यदीदृशन् ॥९०१॥ मृदङ्गवादनोत्तुङ्गहृदुत्सङ्गघनोन्नतौ । शृङ्गारद्वारकलसौ कुचौ काचिददर्शयत् ॥९०२॥ दरवक्रीकृतग्रीवा वीणारणनकेलिषु । कर्णपूरीभवत्कान्ति कपोलं काप्यलोलयत् ॥९०३॥
20
टि. 1. त्रोटिः (स्त्री) चञ्चः । 2. यथा यो हि कूपात् उद्धृतः, तस्य शरीरगतजलं निष्काशनाय स भ्राम्यते, तथा प्रभुरपि सर्वाङ्गनिर्गच्छत्कृत्स्नकर्मावलीजलं निष्काशनाय भ्रम्यमाणं स्वं मेने । 3. भग्ना आगूः प्रतिज्ञा यस्य स भग्नागूः । 4. सङ्गमदेवे । 5. क्षमा-पृथ्वी । 6. क्षमा-समता । 7. कर्णपूरः (पुं) कर्णाभूषणम् ।