________________
5
10
15
20
25
६८
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३] ततः प्रतेनिरे तेन विकृतेन घृतेलिकाः । ता मग्नास्यास्तनौ रोमस्तोमा इव बभुः प्रभोः ||८५५ ॥ यत्र यत्र व्यधुच्छिद्रं प्रभोरङ्गे घृतेलिकाः । तत्र तत्र सवीकाशो जज्ञे ध्यानामृतार्णवः ॥८५६॥ सुवक्रकण्टकाकृष्टैर्बद्धैरिव ज॑नासुभिः । सग्रन्थिपुच्छानकरोदतुच्छान् सोऽथ वृश्चिकान् ॥८५७॥ तत्कण्टकप्ररोहोत्थैर्विषैः कर्मविषक्षये । ध्यानौषधस्य साहाय्यमतन्यत जगत्पतौ ॥८५८॥ नकुलानकुलीनात्मा तैतानथ ततान सः । तेऽत्रोटयन् प्रभोरङ्गात् पिशितं निशितै रदैः ॥८५९॥ कोणे कोणे क्वचिल्लीनान् ध्यानदीपोज्ज्वले प्रभौ । दर्शं दर्शं निजघ्नुस्ते कर्माहीन् नकुलाः किल ॥८६०॥ सजीवयमदण्डाभैश्चण्डैस्तेन कृतैस्ततः । आमौलिपदमावेष्ट्य दष्टो दुष्टाहिभिः प्रभुः ||८६१ || सर्पैर्मुहुः प्रहारेण फूत्कारेण च तैः प्रभोः । अज्वालीवाधिकं ध्यानवह्निः कर्मेन्धनं दहन् ॥८६२॥ सोऽथ वज्ररदान् दुःखजनकान् खनकान् व्यधात् । स्वाम्यङ्गे तेऽक्षिपन्मूत्रं क्षारं नखमुखक्षते ॥८६३॥ स्वामी तत्कर्म दुष्कर्ममहागुल्ममहौषधम् । अपुनर्भूतये क्षारक्षेपरूपममन्यत ॥८६४॥ हस्तीभूयाऽथ हस्तेन सदूरमुदलालयत् । मुहुर्दन्तैरहन् भूमिपतितं च जगत्पतिम् ॥८६५॥ तद्दन्तघातैरुत्तस्थुः स्फुलिङ्गा अङ्गतः प्रभोः । चूर्ण्यमानस्य दुष्कर्माङ्गारराशेः कणा इव ॥८६६ ॥ भूयः करेणुकाभूयमनुभूय सुरो गुरोः । गात्रे तुण्डकराघातैश्चक्रे मूत्रेण च व्यथाम् ॥८६७॥ दुष्टदुर्दान्तकर्माष्टदैन्तावलमृगाधिपे । जिनाधिपे जगज्जैत्रे सा करेणुः करोतु किम् ||८६८।। भूत्वाऽथ भैरवाकारः स पिशाचो निशाचरः । अधावद् भर्त्तरीर्ष्यालुः कर्त्तिकां नर्त्तयन् करे ||८६९ ॥ नक्तंचरस्य तस्याऽस्तु क्व प्रभावः प्रभावति । महामोहनिशाभानुध्यानदीप्तात्मनि प्रभौ ॥८७०॥ कृतव्याघ्राकृतिः पुच्छाच्छोटैः क्ष्मां त्रोटयन्निव । दारयन्निव बूत्कारैर्धां सोऽथ प्रभुमापतत् ॥८७१॥ दाढाभिर्वज्रगाढाभिस्तप्तशूलसखैर्नखैः । ईशं संक्लेशयन् ध्यानवह्निं वीक्ष्येव विद्रुतः ||८७२॥ सिद्धार्थरूपत्रिशलारूपभागथ स प्रभुम् । बभाषे भवतस्तात ! कतरोऽयमभिग्रहः ||८७३ || मतिस्तेऽभूत् परिव्रज्या न पित्रोर्जीवतोरिति । तिष्ठावो यावदावां तत्तावदावासमाश्रय ॥ ८७४॥ त्यज व्रतं भज प्रीतिं पाहि नौ वत्स ! वत्सलौ । करोषि नेदं चेत्तन्नौ सखेदं हृद् द्विधा भवेत् ॥८७५॥ जिनेशं प्रति वाक्यानि स्निग्धस्निग्धानि तान्यपि । ध्यानाग्नेर्दीप्तिदैर्घ्याय प्रत्युताऽऽहुतयोऽभवन् ॥८७६॥ आवासितं स मोहान्धः स्कन्धावारं विधाय तत् । न क्वापि दृषदस्तीह सूदीभूतोऽवदन्नदः ||८७७॥ अत्युत्सुकोऽन्नपाकाय पाकारिनतियोग्ययोः । जिनेन्दुपदयोः स्थालीं न्यस्याधोऽग्निमजिज्वलत् ॥८७८॥ युग्मम् ॥ प्रिया मे मुक्तिरेवेति दिव्यं कर्तुरिव प्रभोः । न तेन तापलेशोऽपि वह्निनाऽकारि पादयोः ॥८७९॥
१. जनांशुभिः B । जनाश्रुभिः A । २. प्रभाविति - B, H, A
टि. 1. ततः=व्याप्तः, तान्, 'नकुलान्' इति अस्य विशेषणम् । 2. दन्तावलः (पुं) हस्ती । 3. पाकारिः इन्द्रः, तस्य नतिः नमनं तस्याः योग्यौ, तयोः ।