________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] भ्रान्त्वा भूरीन् भवान्मल्भूय बालं तपोऽकरोत् । मृत्वेयं व्यन्तरी जज्ञे वनेऽस्मिन् कटपूतना ॥७५८॥ तदासौ तापसीभूय पापशीला हिमैर्जलैः । स्वं सिक्त्वा पूर्ववैरेण श्रीवीरस्योपरि स्थिता ॥७५९॥ विकृत्य वायुं सा कायं शललीवाऽधुनोद् घनम् । पत्यु: पेतुस्तनौ तीव्राः शलवज्जलबिन्दवः ॥७६०॥ मरुत्प्रदीप्तध्यानाग्निर्जलशाम्यद्भवानलः । सेहे स्वाम्युपसर्गं तं सामान्यस्यासुनाशनम् ॥७६१॥ श्रुताख्यमवधिश्चास्य सर्वलोकावलोकनम् । प्रभोस्तत्सहनाज्जज्ञे ज्ञानं पूर्वभवाधिकम् ॥७६२॥ शान्ता निशान्तावसरे सापि सानुशया स्वयम् । तिरोभूद् व्यन्तरी भक्तिप्राग्भाराभ्यर्चितप्रभुः ॥७६३॥ गत्वाऽथ भद्रिकापुर्यां विविधाभिग्रही प्रभुः । चकार प्रावृषं षष्ठीमनेकप्रतिमागतिः ॥७६४॥ षष्ठात्तत्राऽमिलन्मासाद् गोशालोऽस्थाच्च पूर्ववत् । अर्हन्निह बहिश्चक्रे चतुर्मास्यन्तपारणम् ॥७६५॥
मासान्निरुपसर्गोऽष्टौ विहत्य मगधक्षितौ । प्रभुरालभिकापुर्यां सप्तमी प्रावृषं स्थितः ॥७६६।। 10 पारयित्वा बहिस्तत्र कुण्डाकं सन्निवेशनम् । गत्वा प्रतिमया तस्थौ विष्णोरायतने विभुः ॥७६७॥
तत्र स्थितोऽग्रतोऽवज्ञां तन्वन् गोशालको हरेः । ग्रामटैः कुट्टितोऽमोचि वृद्धैर्ग्रहिल इत्ययम् ॥७६८॥ गत्वाऽथ मर्दनग्रामं रामधाम्नि प्रभुः स्थितः । ग्राम्यैः प्राग्वत् कुचेष्टाकृद् गोशालोऽत्रापि तापितः ॥७६९।। बहुशालं प्रभौ ग्रामं गते शालवनस्थिते । उपसर्गान् निसर्गोग्रान् शालार्या व्यन्तरी व्यधात् ॥७७०॥
व्यन्तर्या श्रान्तिमत्याऽथ नाथः शालार्ययाऽर्चितः । जितशत्रुनृपत्रातं यातो लोहार्गलं पुरम् ॥७७१॥ 15 पुरे परभयव्यग्रे प्रभुः प्रश्नेष्वनुत्तर: । जितशत्रोश्चरैस्तत्रोपाढौकि स्पशशङ्कया ॥७७२॥
तत्रेयुषाऽस्थिकग्रामादुत्पलेनाऽर्चितः प्रभुः । ततो विज्ञाय राज्ञाऽपि पूजितो जितशत्रुणा ॥७७३॥ पुरे पुरिमतालाख्ये गत्वाऽथ प्रतिमां श्रितम् । आगत्याऽनमदीशानमीशानसुरनायकः ॥७७४॥ उष्णाकसन्निवेशेऽथ गच्छतः सन्मुखौ विभोः । सद्योविवाहौ सर्वाङ्गविरूपौ दम्पती इतौ ॥७७५॥ उद्घोष्योद्घोष्य वैरूप्यं साट्टहासस्तयोः पुरः । मयूरबन्धैराबद्धो मङ्खस्तत्पुरुषै रुषा ॥७७६॥ गोशालः स्माह मां बद्धं कृपाब्धे ! किमुपेक्षसे । सिद्धार्थोऽभिदधे जातं तव दुश्चरितोचितम् ॥७७७॥ गत्वा नाथोऽप्यदूरेऽस्थात् तत्प्रतीक्षणतत्परः । तपोऽब्धेरयमस्येति गोशालममुचंश्च ते ॥७७८॥ समं तेन ततः स्वामी गोभूमिमगमत् क्रमात् । गोशालः स्माह गोपान् भो ! म्लेच्छा ! मार्गः क्व यात्ययम् ॥७७९॥ तेऽप्यूचुर्नासि नः शालः किमाक्रोशसि भो ! मुधा । स ऊचे किं मयाऽऽक्रुष्टं म्लेच्छत्वं सहजं हि वः ॥७८०॥ क्रुद्धैर्बद्ध्वाऽथ संकुट्ट्य क्षिप्तस्तैर्वेणुगह्वरे । कैरप्यमोचि गोशालः कृपाशालिभिरध्वगैः ॥७८१॥
२०
१. प्रश्नेप्यनुत्तर: P।
टि. 1. शलली इति कण्टकाकीर्णपृष्ठः 'साहुडी' इत्याख्यः चतुष्पादः लघुजीवः तस्य पृष्ठकण्टका 'शल' इत्युच्यते । 2. प्रभोः लोकावधिज्ञानं समुत्पेदे इत्यर्थः । 3. पश्चात्तापेन सह वर्त्तते । 4. प्रभुम् । 5. शाल:-नृपविशेषः । त्वं शाल: न असि, मुधा नः किं आक्रोशसि ? इत्यन्वयः ।