________________
5
10
दध्ना लिप्त्वा प्रभुं केऽपि कौतुकेन शुनोऽमुचन् । प्रकोप्य मत्तवृषभान् केऽप्यन्तः प्रभुमक्षिपन् ॥७१४॥ या याः किलार्यदेशस्य चण्डालैरपि दुष्कराः । तास्ता विडम्बनाश्चक्रुः प्रभौ तद्विषयोत्तराः ॥७१५ ॥ तान् पुंसः स्वभवच्छेदहेतून् पीडाकृतः स्तुवन् । स्वं तेषां भवहेतुं च निन्दन् सेहे विभुर्व्यथाः ॥७१६॥ गेहे गेहे व्रजन् सेहे देहेन विविधा व्यथाः । जनेन जनिता मोऽप्यलवर्क इव कर्कशाः ॥७१७॥ तद्देशपुरुषक्रौर्यच्छिन्नोच्चैःकर्मबन्धनः । स्वैरी करीव प्राचालीदार्यदेशं प्रति प्रभुः ॥७१८॥
पूर्णकलशग्रामोपान्ते दुःशकुनभ्रमात् । लाढायां तौ प्रभुं चौरौ प्रेक्ष्याग्रे हन्तुमुद्यतौ ॥७१९॥ नाथोऽद्य कथमस्तीतिध्यानस्तावदसी तदा । प्रेक्ष्याधिपाय धावन्तौ वज्रेण प्राहरद्धरिः ॥७२०॥ गत्वाऽथ भद्रिलपुरे पञ्चम्यां प्रावृषि प्रभुः । चतुर्मासीमुपावासी (त्सी) द् विविधप्रतिमास्थितिः ॥७२१॥ 15 संसारतारणः क्वापि बहिर्विहितपारणः । ग्रामं क्रमेण कदलीसमागममथाऽऽगमत् ॥७२२॥ विलोक्याऽऽस्तारिकाभक्तं दीयमानमिहार्थिनाम् । भोजनाय जिनाधीशं गोशालस्तूर्णमाह्वयत् ॥७२३॥ सिद्धार्थोऽभ्यधितास्माभिरद्योपावासि वासरम् । अथैकोऽपि स गत्वा द्रागभुङ्क्तातिबुभुक्षितः ॥७२४॥ पिशाचमिव भुञ्जानमतृप्यन्तं निरूप्य तम् । मुहुर्ग्राम्याः समग्रान्नपरिवेषैरतोषयन् ॥७२५ ॥ संतृप्तेनामुना भोक्तुमशक्तेनाऽन्नपूरितम् । त्यक्तं पात्रं तदस्यैव मूर्ध्नि ग्राम्याः क्रुधा न्यधुः ॥७२६|| जम्बूखण्डमथ ग्रामं गते नाथे पुरेव सः । आस्तारिकान्नदानेषु लेभे भोजनभर्त्सने ॥७२७॥ क्रमाद् गत्वाथ तत्त्वाकग्रामं कामविरामकृत् । बहिः प्रतिमया तस्थौ मो भिक्षाकृते गतः ॥७२८॥ मुनिचन्द्रवदारब्धक्रियान् श्रीपार्श्वदीक्षितान् । निरीक्ष्य नन्दिषेणाख्यसूरीनुच्चैर्जहास सः ॥७२९ ॥ चतुष्के प्रतिमाभाजो नन्दिषेणमहर्षयः । नक्तं चौरधिया पौररक्षानिघ्नेन जघ्निरे ॥७३०॥ तेषामलोलध्यानानां द्यां गतानां सुरैः कृतम् । महिं प्रेक्ष्य स मङ्खस्तच्छिष्यान् गत्वा व्यभर्त्सयत् ॥७३१॥ समङ्खः कूपिकाग्रामगामी स्वामी धृतस्ततः । कदर्थितस्तदारक्षैरदक्षैः स्पशशङ्कया ॥७३२||
20
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३] तपोऽस्ति मद्गुरोश्चेत्ज्ज्वलत्वेतज्जनाश्रयः । इति शप्तेऽमुना जैनैर्दग्धस्तन्मण्डपोऽमरैः ॥७०८|| व्रजन् कलम्बुग्रामेऽथ नाथः कोऽसीति भाषितः । सेनान्या पथि चौरानुधाविना कालहस्तिना ॥ ७०९॥ मुनिं मौनेन शाठ्येन मङ्खं चानुदितोत्तरौ । स ज्येष्ठबन्धोर्मेघस्य बद्ध्वा चौरधियार्पयत् ॥७१०॥ मेघः कलम्बुकग्रामपतिः सिद्धार्थसेवकः । उपलक्ष्य प्रभुं नत्वा क्षमयित्वा च मुक्तवान् ॥७११॥ कर्मरोगमहावैद्यैः पूरितं क्रूरपुरुषैः । अथाऽनार्यं ययौ देशमत्यर्थक्लेशधीः प्रभुः ॥७१२|| ताडितो मुण्ड इत्येकैः स्पश इत्यपरैर्धृतः । प्रबद्धश्चौर इत्यन्यै राढादेशचरैर्गुरुः ॥७१३॥
25
६२
१. ध्यातस्ता.... A, K
टि. 1. अलर्कः=मत्तश्वानः । 2. इति ध्यानं अस्य इतिध्यानः हरेर्विशेषणम् । 3. ऊर्ध्वकृतः असिः याभ्यां तौ उदसी इति समासविग्रहः कार्यः । 4. भोजनञ्च भर्त्सना च इति विग्रहः । 5. पौरजनस्य रक्षायै निर्योजितेन इत्यर्थः । 6. महिः (स्त्री)- महिमा ।