SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - ३ ] नृमांसभोजने ख्याते सिद्धार्थेन जगाम सः । न यत्र मांसगन्धोऽपि भोज्यं तत्रेति निश्चयात् ॥६८३॥ इतश्चापि नृदत्तस्य श्रावस्त्यां गृहिणः प्रिया । श्रीभद्रा निन्दुरापृच्छन्नैमित्तं शिवदत्तकम् ॥६८४॥ जीवेत् कथं ममापत्यमित्याकर्ण्याथ सोऽब्रवीत् । शिशुं जातमृतं पिष्ट्वा सर्वाङ्गं पायसं सृजेः ॥६८५॥ तदुद्धूलितपादाय समध्वाज्यं सुभिक्षवे । भोज्यं देयास्ततोऽपत्यं जीविताऽवश्यमेव ते ॥ ६८६ ॥ भिक्षौ भुक्त्वा गते तस्मिन् द्वारं कार्यं गृहेऽन्यतः । स ज्ञातभोज्यवृत्तान्तः क्रुद्धो धक्ष्यति वा जवात् ॥६८७॥ 5 श्रीभद्रयाऽथ भद्रायाः सूनुः सद्म तदागतः । भक्त्या मृतात्मभूकायपायसेन स भोजितः ||६८८॥ भुक्त्वा गतः प्रभूपान्ते भ्रान्तोऽसीति जगाद सः । सिद्धार्थोऽपि तथाजातमाख्यन्मङ्खाय पायसम् ॥६८९॥ तदुद्वम्याङ्गुलिक्षेपान्नखादिलववीक्षणात् । क्रुद्धो गतः स नाऽबोधि द्वारान्यत्वेन तद्गृहम् ॥६९०॥ अथाह मड्डो यद्यस्ति तपस्तेजश्च मद्गुरोः । तज्ज्वलत्वेष देशोऽथ तज्जैना व्यन्तरा व्यधुः ॥६९१॥ गत्वा हरिद्रुकग्रामे हरिद्रुद्रुतले ततः । स्वामी प्रतिमया तस्थौ तपोहुतभुजः शमी ॥६९२॥ तत्र नक्तं स्थितेनाग्निः सार्थेन हिमभीरुणा । प्रज्वालितः प्रमादेन शमितो न यता प्रगे ॥ ६९३ ॥ मुखस्थिततृणं क्षोणिलुठनैरेत्य स ज्वलन् । ध्यानाग्निना जित इव प्रभोः पादद्वयेऽलगत् ॥ ६९४ ॥ युग्मम् ॥ प्राप्तोऽग्निर्नाथ ! नश्याव इत्युक्त्वा मङ्खकोऽनशत् । तोयं कर्माग्नितापेषु मत्वाग्नि तु स्थितः प्रभुः ॥६९५॥ शान्तेऽग्नौ हा कथं तूर्णं शान्तोऽयं कर्मशान्तिकृत् । इति दुःखादिव श्यामौ किञ्चिज्जातौ प्रभोः क्रम ॥६९६॥ गत्वाथ लाङ्गलग्रामे तस्थौ नाथोऽच्युतौकसि । गोशालो बालकांस्तत्राऽभीषयद् विकृताकृतिः ॥६९७॥ एत्य तत्पितृभिः क्रुद्धैस्ततोऽकुट्टि स कूटधीः । देवार्यस्यास्य दासोऽयमिति वृद्धैश्च मोचितः ॥६९८॥ स्वत्राणार्थमुपालब्धे नाथे तेनाऽथ नाथगः । सिद्धार्थः स्माह दौष्ट्येऽस्मिन् जीवसीति न सुष्ठु किम् ॥६९९॥ गत्वाऽथ प्रभुरावर्त्तग्रामे रामौकसि स्थितः । तत्राप्यभापयड्डिम्भान् भद्रासूनुरभद्रकः ॥७००|| कुपिताः पितरस्तेषामेत्योत्कुट्य च तं गताः । पुनः सोऽभापयड्डिम्भान् प्रकृतिः खलु दुस्त्यजा ॥७०१ ॥ पुनस्तत् पितरोऽभ्येत्य चण्डा दण्डायुधाः क्रुधा । दण्ड्यो भृत्यागसि स्वामीत्यधावन्त प्रभुं प्रति ॥ ७०२ || 20 तान् राममूर्त्तिरुत्सीरमुशला मूर्त्तरामवत् । तत्रस्थाऽऽर्हतयक्षाधिष्ठिता हन्तुमथोत्थिता ॥७०३ ॥ भयविस्मयसंपातकातरस्मेरमानसैः । नत्वा स्वामी तदामीभिर्ग्रामीणैः क्षमितो मुहुः ||७०४|| ततो विहृत्य चोराकग्रामे प्रतिमया स्थितः । मङ्खेनाऽभाषि भिक्षायै गन्तुमन्तस्तदा जिनः ॥७०५ ॥ सिद्धार्थेनेदमाचख्ये प्रत्याचख्येऽद्य भोजनम् । ततो गतोऽथ क्षुधितो ग्रामं गोशालको रयात् ॥७०६॥ क्वाऽप्यन्ने राध्यमानेऽसौ भिक्षाकालप्रतीक्षया । बहिःस्थो हेरयंश्चौरधिया ग्राम्यैरकुट्यत ॥७०७|| ६१ टि. 1. स=सह मधु आज्यं इति सन्धिविच्छेदः । 2. भद्रायाः सूनुः - गोशालः । 3. ० आत्मभूकाय:- स्वापत्यशरीरम् तेन मिश्रितं पायसं तेन । 4. शमी-वृक्षविशेषः, यस्मिन् हुतभुक् = अग्निरुत्पद्यते । 5. 'इ' धातोः वर्त० कृदन्त - तृ० एकवचनम् सार्थस्य विशेषणम् । 6. हेरयन् = इतस्ततो निरीक्षमाण इत्यर्थे देश्योऽयम् 'हेर' धातोः वर्तमानकृदन्तप्रयोगः | सम्पा० । 10 15 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy