SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६० [कर्णिकासमन्विता उपदेशमाला । गाथा-३] सिद्धार्थोऽपि जगौ पार्श्वशिष्यास्ते तदुपाश्रयः । न पविः पावकेनेव दह्यते त्वादृशां गिरा ॥६५८॥ वीक्ष्य नक्तं वियद्दीप्तं गोशालोऽथाभ्यधात् प्रभुम् । दह्यते मम शापेनाश्रयस्त्वन्निन्दिनामयम् ॥६५९॥ इत्थमूचे च सिद्धार्थ इह प्रतिमया स्थिताः । उपाश्रयाद्वहिर्भूय मुनिचन्द्राख्यसूरयः ॥६६०॥ मत्तः कूपनयो वीक्ष्य कुलालस्तस्करभ्रमात् । तानग्रहीद् गले गाढं ते विपद्य दिवं ययुः ॥६६१॥ युग्मम् ॥ __तत्तनौ तन्वतां मूढ ! महिमानमिहाद्भुतम् । पश्यसि धुसदां देहातीर्नेदं प्रदीपनम् ॥६६२॥ तत्कौतुकादगात् तत्र गोशालोऽन्तर्दधुः सुराः । सोऽपश्यत् पुष्पगन्धाम्बुवृष्टिस्पृष्टं मृतं मुनिम् ॥६६३॥ तच्छिष्यानाश्रये सुप्तान् स गत्वेत्युच्चकैर्जगौ । भो ! भुक्तशायिनो ! मुण्डा ! जानीथ न मृतं गुरुम् ॥६६४॥ पिशाचस्येव कस्येयमुक्तिरित्युत्थिताश्च ते । दृष्ट्वाचार्यं तथात्मानमनिन्दन् मान्द्यमन्दिरम् ॥६६५॥ चोराकसन्निवेशेऽथ गत्वा प्रतिमया स्थितः । इतस्ततः परिभ्राम्यद्गोशालानुसृतः प्रभुः ॥६६६॥ 10 भाषितानुत्तरस्तत्र प्रतिचक्रभयाकुले । अधारि हेरिकधियाऽऽरक्षैः स्वामी समङ्खकः ॥६६७॥ उदञ्च्यमानकाणं स्वं जानन् कूपके प्रभुः । घटीवत् कारितो बद्ध्वा न्यञ्चनोदञ्चनानि तैः ॥६६८॥ सोमा-जयन्तिके पार्श्वशिष्ये उत्पलसोदरे । साध्वीवर्यौ परिव्राजौ ग्रामभाजौ जनात् तदा ॥६६९॥ तादृग्नृक्लेशमाकर्ण्य किन्नु ? स्याच्चरमो जिनः । इत्याऽऽगत्याऽशु वीक्ष्येशं रक्षकानिदमूचतुः ॥६७०॥ युग्मम् ॥ मूढा ! न किमिमं वित्थ सिद्धार्थनृपनन्दनम् । श्रुत्वेति ते भयान्मुक्त्वा नत्वा चाक्षमयन् प्रभुम् ॥६७१॥ 15 स्थितोऽथ प्रावृषं तुर्यां पृष्ठचम्पागतः प्रभुः । नानात्मप्रतिमाधारी चतुर्मासोपवासभृत् ॥६७२॥ चतुर्मासीमतीत्येह बहिः कृत्वा च पारणम् । नगरं जगतां स्वामी जगाम कृतमङ्गलम् ॥६७३॥ दरिद्रस्थविराख्यानां सारम्भाणां कुटुम्बिनाम् । पाखण्डिनां पाटके तत्कुलदेवकुलं गतः ॥६७४॥ स्थितः प्रतिमया स्वामी नक्तं पाखण्डिभिश्च तैः । चक्रे देवकुले तत्र मदमत्तैर्महोत्सवः ॥६७५॥ तान्वीक्ष्योच्चैर्जगौ मङ्खः केऽमी पाखण्डिनो बत । कलत्रपुत्रिणः पानमत्ता नृत्तादिकारिणः ॥६७६॥ श्रुत्वेति तैर्गले धृत्वा क्षिप्तोऽसावाश्रयाद् बहिः । कालं प्रति प्रकोपीव शीतातॊऽवादयद् रदान् ॥६७७॥ तैर्मध्यं दयया नीतः कृष्टोऽसौ विब्रुवन् पुनः । इति त्रिवारं तस्याऽभूदेहिरेयाहिरा क्रिया ॥६७८॥ विब्रुवाणे पुनस्तस्मिन् क्रुद्धान् वृद्धा जगुर्जनान् । देवार्यस्य तपोराशेः शिष्योयमिति सह्यताम् ॥६७९॥ अक्षमाः श्रोतुमस्योक्तिं वाद्यं वादयतोच्चकैः । तथेतिकारिणस्तेऽथ शर्वरीं निरवाहयन् ॥६८०॥ स्वामी गतोऽथ श्रावस्ती कायोत्सर्गी बहि: स्थितः । मध्याह्नेऽभाषि भिक्षायै गन्तुं मङ्खलिसूनुना ॥६८१॥ 25 सिद्धार्थोऽवददस्माभिः प्रत्याचख्येऽद्य भोजनम् । मङ्खः पप्रच्छ किं भावी भोज्यं मेऽद्य निवेद्यताम् ॥६८२॥ १. ताहाभृक्लेश B, L । २. वेत्थ - C, L, P, A | ३. राशेरस्यायमिति - C, A, BI टि. 1. 'कूपनयः' इति कुलालस्य नाम । 2. भाषितोऽपि य उत्तरं न ददाति इति भाषितानुत्तरः स्वामिनः विशेषणम् । 3. काल:-शीतकालः तं प्रति । 4. इत्यस्य 'वृद्धा जगुः' इत्यनेन पुनः अन्वयः कार्यः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy