________________
इति चतुर्थम् ॥ स्थूलसावद्यविरमाद्यो देशविरतिं श्रयेत् । स देशविरतस्तस्य, गुणस्थानं तदुच्यते ॥ १११४ ॥ सर्वसावद्यविरतिं, जानतोऽप्यस्य मुक्तिदाम् । तदादृतौ प्रत्याख्यानावरणा यान्ति विजताम् ॥ १११५ ॥ इति पंचमम् ॥ संयतस्सर्वसावद्ययोगेभ्यो विरतोऽपि यः । कषायनिद्राविकथादिप्रमादैः प्रमाद्यति ॥ १११६ ॥ स प्रमत्तः संयतोऽस्य, प्रमत्तसंयताभिधम् । गुणस्थानं प्राक्तनेभ्यः, स्यादिशुद्धिप्रकर्षभृत् ॥ १११७ ॥ वक्ष्यमाणेभ्यश्च तेभ्यः, स्यादिशुद्धयपकर्षभृत् । शुद्धिप्रकर्षापकर्षावेवं भाव्यौ परेष्वपि ॥ १११८ ॥ इति षष्ठम् ॥ यश्च निद्राकषायादिप्रमादरहितो यतिः । गुणस्थानं भवेत्तस्याप्रमत्तसंयताभिधम् ॥ १११९ ॥ इति सप्तमम् ॥ स्थितिघातो रसघातो, गुणश्रेणिस्तथा परा । गुणानां संक्रमश्चैव बन्धो भवति पञ्चमः ॥ ११२० ॥ एषां पञ्चानामपूर्वं करणं प्रागपेक्षया । भवेद्यस्यासावपूर्वकरणो नाम कीर्तितः ॥ ११२१ ॥ गरीयस्याः स्थितेानावरणीयादिकर्मणाम् । योऽपवर्तनया घात:, स्थितिघातः स उच्यते ॥ ११२२ ॥ कर्मद्रव्यस्थकटुकत्वादिकस्य रसस्य हि । योऽपवर्तनया घातो, रसघात: स कीर्त्यते ॥ ११२३ ॥ एतौ पूर्वगुणस्थानेष्वल्पावेव करोति सः । विशुद्धयल्पतयाऽस्मिंस्तु, महान्तौ शुद्धिवृद्धितः ॥ ११२४ ॥ यत्प्रागाश्रित्य दलिकरचनां तां लघीयसीम् । चकार कालतो द्राधीयसी शुद्ध्यपकर्षतः ॥ ११२५ ॥ अस्मिंस्त्वाश्रित्य दलिकरचनां तां प्रथीयसीम् । करोति कालतोऽल्पां तदपूर्वां प्रागपेक्षया ॥ ११२६ ॥ तथा बध्यमानशुभप्रकृतिष्वशुभात्मनाम् । तासामबध्यमानानां, दलिकस्य प्रतिक्षणे ॥ ११२७ ॥ असंख्यगुणवृद्ध्या यः, क्षेपः स गुणसंक्रमः । तमप्यपूर्वं कुर्वीत, सोऽत्र शुद्धिप्रकर्षतः ॥ ११२८ ॥ स्थितिं द्राघीयसी पूर्वगुणस्थानेषु बद्धवान् । अशुद्धत्वादिह पुनस्तामपूर्वां विशुद्धितः ॥ ११२९ ॥ पल्यासंख्येयभागेन, हीनहीनतरां सृजेत् । तद् गुणस्थानमस्य स्यादपूर्वकरणाभिधम् ॥ ११३० ॥ क्षपकश्चोपशमकश्चेत्यसौ भवति द्विधा । क्षपणोपशमार्हत्वादेवायं प्रोच्यते तथा ॥ ११३१ ॥ न यद्यपि क्षपयति, न चोपशमयत्ययम् ॥ तथाप्युक्तस्तथा राज्याहः कुमारो यथा नृपः ॥ ११३२ ॥ अन्तर्मुहूर्त्तमानाया, अपूर्वकरणस्थितेः । आद्य एव क्षण एतद्गुणस्थानं प्रपन्नकान् ॥ ११३३ ॥ त्रैकालिकाङ्गिनोऽपेक्ष्य, जघन्यादीन्यसंख्यशः । स्थानान्यध्यवसायस्योत्कृष्टान्तानि भवन्ति हि ॥ ११३४ ॥ असंख्यलोकाकाशांशमितानि स्युरमूनि च । ततोऽधिकाधिकानि स्युर्द्धितीयादिक्षणेषु तु ॥ ११३५ ॥ आये क्षणे यज्जघन्यं, ततोऽनन्तगुणोज्जलम् । भवेदायक्षणोत्कृष्टं, ततोऽनन्तगुणाधिकम् ॥ ११३६ ॥