________________
81
तथापि काचित् मनुजपश्चादिवस्तुगोचरा । तेषामप्यविपर्यस्ता, प्रतिपत्तिर्भवेद् ध्रुवम् ॥ १०९१ ॥ आस्तामन्ये मनुष्याद्या, निगोददेहिनामपि । अस्त्यव्यक्तस्पर्शमात्रप्रतिपत्तियथास्थिता ॥ १०९२ ॥ यथा घनघनच्छन्नेऽऽपि स्यात्कापि तत्प्रभा । अनावृत्ता न चेद्रात्रिदिनाभेदः प्रसज्यते ॥ १०९३ ॥ इति प्रथमगुणस्थानम् ॥ आयमौपशमिकाख्यं, सम्यक्त्वस्यात्र सादयेत् । योऽनन्तानुबन्धिकषायोदय: साऽऽयसादनः ॥ १०९४ ॥ उत्कर्षादावलीषट्कात्, सम्यक्त्वमपगच्छति । अनन्तानुबन्ध्युदये, जघन्यात्समयेन यत् ॥ १०९५ ॥ पृषोदरादित्वाल्लोपे, यकारस्य भवेत्पदम् । आसादनमित्यनन्तानुबन्ध्युदयवाचकम् ॥ १०९६ ॥ ततश्चआसादनेन युक्तो यः, स सासादन उच्यते । स चासौ सम्यग्दृष्टिस्तद्, गुणस्थानं द्वितीयकम् ॥ १०९७ ॥ तच्चैवम्- प्रागुक्तस्यौपशमिकसम्यक्त्वस्य जघन्यतः । शेषे क्षणे षट्सु शेषासूत्कर्षादावलीष्षथ ॥ १०९८ ॥ महाबिभीषिकोत्थानकल्प: केनापि हेतुना । कस्याप्यनन्तानुबन्धिकषायाभ्युदयो भवेत् ॥ १०९९ ॥ अथैतस्मिन्ननन्तानुबन्धिनामुदये सति । सासादनसम्यग्दृष्टिगुणस्थानं स्पृशत्यसौ ॥ ११०० ॥ यदिवोपशमश्रेण्या:, स्यादिदं पततोङ्गिनः । सम्यक्त्वस्यौपशमिकस्यान्ते कस्यापि पूर्ववत् ॥ ११०१ ॥ तत ऊर्ध्वं च मिथ्यात्वमवश्यमेष गच्छति । पतन् द्वितीयसोपानादाद्यमेव हि गच्छति ॥ ११०२ ॥ नाम्ना सास्वादनसम्यग्दृग्गुणस्थानमप्यदः । उच्यते तत्र चान्वों, मतिमद्भिरयं स्मृतः ॥ ११०३ ॥ उद्घम्यमानसम्यक्त्वास्वादनेन सहास्ति यः । स हि सास्वादनसम्यग्दृष्टिरित्यभिधीयते ॥ ११०४ ॥ यथाहि भुक्तं क्षीरान्नमुद्रमन्मक्षिकादिना । किञ्चिदास्वादयत्येव, तद्रसं व्यग्रमानसः ॥ ११०५ ॥ तथाऽयमपि मिथ्यात्वाभिमुखो भ्रान्तमानस: । सम्यक्त्वमुद्रमन्नास्वादयेत्किञ्चन तद्रसम् ॥ ११०६ ॥ इति द्वितीयम् ॥ पूर्वोक्तपुञ्जत्रितये, स यद्यर्धविशुद्धकः । समुदेति तदा तस्योदयेन स्याच्छरीरिणः ॥ ११०७ ॥ श्रद्धा जिनोक्ततत्त्वेऽर्धविशुद्धाऽसौ तदोच्यते । सम्यग्मिथ्यादृष्टिरिति, गुणस्थानं च तस्य तत् ॥ ११०८ ॥ अन्तर्मुहूर्तं कालोऽस्य, तत ऊर्ध्वं स देहभृत् । अवश्यं याति मिथ्यात्वं, सम्यक्त्वमथवाऽऽप्नुयात् ॥ ११०९ ॥ इति तृतीयम् ॥ सावद्ययोगाविरतो, य: स्यात्सम्यक्त्ववानपि । गुणस्थानमविरतसम्यग्दृष्ट्याख्यमस्य तत् ॥ १११० ॥ पूर्वोक्तमौपशमिकं, शुद्धपुञ्जोदयेन वा । क्षायोपशमिकाभिख्यं, सम्यक्त्वं प्राप्तवानपि ॥ ११११ ॥ सम्यक्त्वं क्षायिकं वाऽऽप्तो, क्षीणदर्शनसप्तकः । कलयन्नपि सावद्यविरतिं मुक्तिदायिनीम् ॥ १११२ ॥ नैवाप्रत्याख्याननामकषायोदयविज्जतः । स देशतोऽपि विरतिं, कर्तुं पालयितुं क्षमः ॥ १११३ ॥