________________
80
द्वितीयसमये तु स्वं, स्थानं प्राप्याहरेत्ततः । समय: स्यादनाहार, एकवक्रागतावपि ॥ १०७१ ॥ अन्यस्यां द्वावनाहारौ, तृतीयस्यां त्रयस्तथा । चतुर्थ्यामपि चत्वारः, साहारोऽन्त्योऽखिलासु यत् ॥ १०७२ ॥ ततश्च व्यवहारेणोत्कर्षतः समयास्त्रयः । निश्चयेन तु चत्वारो, निराहाराः प्रकीर्तिताः ॥ १०७३ ॥ सामान्यात् सर्वत: स्तोका, निराहाराः शरीरिणः । आहारका असंख्येयगुणास्तेभ्यः प्रकीर्तिताः ॥ १०७४ ॥ त्रिविधश्च स आहार, ओज आहार आदिमः । लोमाहारो द्वितीयश्च, प्रक्षेपाख्यस्तृतीयकः ॥ १०७५ ॥ तत्राद्यं देहमुत्सृज्य, ऋज्व्या कुटिलयाथवा । गत्वोत्पत्तिस्थानमाप्य, प्रथमे समयेऽसुमान् ॥ १०७६ ॥ तैजसकार्मणयोगेनाहारयति पुद्गलान् । औदारिकाद्यागयोग्यान्, द्वितीयादिक्षणेष्वथ ॥ १०७७ ॥
औदारिकादिमिश्रेणारब्धत्वाद्धपुषस्ततः । यावच्छरीरनिष्पत्तिरन्तर्मुहूर्त्तकालिकी ॥ १०७८ ॥ यदाहु :-'तेएण कम्मएणं, आहारेइ अणंतरं जीवो । तेण परं मीसेणं, जाव सरीरस्स निप्फत्ती' ॥ स सर्वोऽप्योजआहार, ओजो देहार्हपुद्गलाः । ओजो वा तैजसः कायस्तद्रूपस्तेन वा कृतः ॥ १०७९ ॥ शरीरोपष्टम्भकानां, पुद्गलानां समाहृतिः । त्वगिन्दियादिस्पर्शन, लोमाहार: स उच्यते ॥ १०८० ॥ मुखे कवलनिक्षेपादसौ कावलिकाभिध: । एकेन्द्रियाणां देवानां, नारकाणां च न ह्यसौ ॥ १०८१ ॥ जीवाः सर्वेऽप्यपर्याप्ता, ओज आहारिणो मता: । देहपर्याप्तिपर्याप्ता, लोमाहाराः समेऽङ्गिनः ॥ १०८२ ॥ ओजसोऽनाभोग एव लोमस्त्वाभोगजोऽपि च । एकेन्द्रियाणां लोमोऽपि, स्यादनाभोग एव हि ॥ १०८३ ॥ ___ तथोक्तं संग्रहणीवृत्तौ–'एकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धीनामाभोगमान्यात् वस्तुतोऽनाभोगनिवर्तित एव' ॥ यदागम:-'एगेदियाणां नो आभोग: निब्बत्तिए, अणाभोगनिवत्तिए ।
इति ॥ दिक्षणोनो भवः क्षुल्लो, जघन्या कायसंस्थितिः । आहारित्वे गरिष्ठा च, कालचक्राण्यसंख्यशः ॥ १०८४ ॥ इत्याहारः ॥ २९ ॥ गुणा नाम गुणस्थानान्यमूनि च चतुर्दश । वच्मि स्वरूपमेतेषामन्वर्थ व्यक्तिपूर्वकम् ॥ १०८५ ॥ तथाहुः-कर्मग्रन्थादौ [कर्मग्रन्थ-२ गाथा-२] मिच्छे सासण मीसे, अविरय देसे पमत्त अपमत्ते । नियट्टी अनियट्टी, सुहुमुवसम खीण सजोगि अजोगि गुणा ॥ गुणा ज्ञानदयस्तेषां, स्थानं नाम स्वरूपभित् । शुद्धयशुद्धिप्रकर्षापकर्षोत्थाऽत्र प्रकीर्त्यते ॥ १०६६ ॥ तत्र मिथ्या विपर्यस्ता, जिनप्रणीतवस्तुषु । दृष्टिर्यस्य प्रतिपत्तिः, स मिथ्यादृष्टिरुच्यते ॥ १०८७ ॥ यत्तु तस्य गुणस्थानं, सम्यग्दृष्टिमबिभ्रतः । मिथ्यादृष्टिगुणस्थानं, तदुक्तं पूर्वसूरिभिः ॥ १०८८ ॥ ननु मिथ्यादृशां दृष्टेविपर्यासात्कुतो भवेत् । ज्ञानादिगुणसद्भावो यद्गुणस्थानतोच्यते ॥ १०८९ ॥ अत्र बूम:-भवेद्यद्यपि मिथ्यात्ववतामसुमतामिह । प्रतिपत्तिर्विपर्यस्ता, जिनप्रणीतवस्तुषु ॥ १०९० ॥