________________
83
क्षणे द्वितीये जघन्यमेवमन्त्यक्षणावधि । मिथः षट्स्थानपतितान्येकक्षणभवानि तु ॥ ११३७ ॥ समकालं प्रपन्नानां, गुणस्थानमिदं खलु । बहूनां भव्यजीवानां वर्त्तते यत्परस्परम् ।। ११३८ ।। उक्तरूपाध्यवसायस्थानव्यावृत्तिलक्षणा । निवृत्तिस्तन्निवृत्त्याख्यमप्येतत्कीर्त्यते बुधैः ॥ ११३९ ॥ इत्यष्टमम् ॥ तथा
परस्पराध्यवसायस्थानव्यावृत्तिलक्षणा । निवृत्तिर्यस्य नास्त्येषोऽनिवृत्ताख्योऽसुमान् भवेत् ।। ११४० ।। तथा किट्टीकृतसूक्ष्मसम्परायव्यपेक्षया । स्थूलो यस्यास्त्यसौ स स्याद्बादरसंपरायकः ।। ११४१ ।। ततः पदद्वयस्यास्य, विहिते कर्मधारये । स्यात्सोऽनिवृत्तिबादरसंपरायाभिधस्ततः ।। ११४२ ।। तस्यानिवृत्तिबादरसम्परायस्य कीर्तितम् । गुणस्थानमनिवृत्तिबादरसम्परायकम् ॥ ११४३॥ अन्तर्मुहूर्त्तमानस्य, यावन्तोऽस्य क्षणा: खलु । तावन्त्येवाध्यवसायस्थानान्याहुर्जिनेश्वराः ।। ११४४ ॥ अस्मिन् यदेकसमये, प्राप्तानां भूयसामपि । एकमेवाध्यवसायस्थानकं कीर्त्तितं जिनैः ।। ११४५ ॥ अनन्तगुणशुद्धं च, प्रतिक्षणं यथोत्तरम् । स्थानमध्यवसायस्य, गुणस्थानेऽत्र कीर्त्तितम् ॥ ११४६ ॥ क्षपकश्चोपशमकश्चेत्यसौ भवति द्विधा । क्षपयेद्वोपशमयेद्वाऽसौ यन्मोहनीयकम् ॥ ११४७ ॥ इति नवमम् ॥
I
सूक्ष्मः कीट्टीकृतो लोभकषायोदयलक्षणः । संपरायो यस्य सूक्ष्मसंपरायः स उच्यते ।। ११४८ ।। क्षपकश्चोपशमकश्चेति स्यात्सोऽपि हि द्विधा । गुणस्थानं तस्य सूक्ष्मसंपरायाभिधं स्मृतम् ।। ११४९ ॥ इति दशमम् ॥
येनोपशमिता विद्यमाना अपि कषायकाः ॥ नीता विपाकप्रदेशोदयादीनामयोग्यताम् ।। ११५० ॥ उपशान्तकषायस्य, वीतरागस्य तस्य यत् । छद्मस्थस्य गुणस्थानं, तदाख्यातं तदाख्यया ।। ११५१ ।। असौ ह्युपशमश्रेण्यारम्भेऽनन्तानुबन्धिनः । कषायान् द्रागविरतो, देशेन विरतोऽथवा ।। ११५२ ।। प्रमत्तो वाऽप्रमत्तः सन्, शमयित्वा ततः परम् । दर्शनमोहत्रितयं, शमयेदथ शुद्धधीः ।। ११५३ ।। कर्मग्रन्थावचूरौ त्विहोपशमश्रेणिकृदप्रमत्तयतिरेव । केचिदाचार्या अविरतदेशविरतप्रमत्ताप्रमत्तयतीनामन्यतम इत्याहुरिति दृश्यते ॥
श्रयन्त्युपशमश्रेणिमाद्यं संहननत्रयम् । दधाना नार्धनाराचादिकं संहननत्रयम् ।। ११५४ ।। तथोक्तम् । ‘उपशमश्रेणिस्तु प्रथमसंहननत्रयेण आरुह्यते' । इति कर्मस्तववृत्तौ ॥
परिवृत्तिशतान् कृत्वाऽसौ प्रमत्ताप्रमत्तयोः । गत्वा चापूर्वकरणगुणस्थानं ततः परम् ।। ११५५ ।। क्लीबस्त्रीवेदौ हास्यादिषट्कं पुंवेदमप्यथ । क्रमात् प्रत्याख्यानाप्रत्याख्यानसंज्वलनाः क्रुधः ।। ११५६ ।। तथैव त्रिविधं मानं, मायां च त्रिविधां तथा । द्वितीयतृतीयौ लोभौ, विंशतिः प्रकृतीरिमाः ।। ११५७ ।।