________________
शमयित्वा गुणस्थाने, नवमे दशमे ततः । शमी संज्वलनं लोभ, शमयत्यतिदुर्जयम् ॥ ११५८ ॥ एक क्षणं जघन्येनोत्कर्षणान्तर्मुहूर्त्तकम् । उपशान्तकषाय: स्यादूर्ध्वं च नियमात्ततः ॥ ११५९ ॥ श्रद्धाक्षयात् भवान्ताद्धा, पतत्यद्धाक्षयात्पुनः । पतन्पश्चानुपूर्व्याऽसौ, याति यावत्प्रमत्तकम् ॥ ११६० ॥ गुणस्थानद्वयं याति, कश्चित्ततोऽप्यधस्तनम् । कश्चित्सासादनभावं, प्राप्य मिथ्यात्वमप्यहो ॥ ११६१ ॥ पतितश्च भवे नास्मिन्, सिद्ध्येदुत्कर्षतो वसेत् । देशोनपुद्गलपरावर्तार्धं कोऽपि संसृतौ ॥ ११६२ ॥ तथोक्तं महाभाष्ये- [विशेषावश्यक श्लो. १३१६] 'जड़ उवसंतकसाओ, लहइ अणंतं पुणोवि पडिवायम् । न हु भे वीससियव्वं, थोवे वि कसायसेसंमि' ॥ भवक्षयाद्यः पतति, आद्य एव क्षणे स तु । सर्वाण्यपि बन्धनादिकरणानि प्रवर्तयेत् ॥ ११६३ ॥ बद्धायुरायुःक्षयतो, म्रियते श्रेणिगो यदि । अनुत्तरसुरेष्वेष, नियमेन तदोद्भवेत् ॥ ११६४ ॥
तथोक्तं भाष्यवृत्तौ–'यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानवर्ती वा उपशान्तमोहो वा भूत्वा कालं करोति तदा नियमेन अनुत्तरसुरेष्वेवोत्पद्यते ॥ इति ॥ [विशेषावश्यक
श्लो. १३११] गुणस्थानस्यास्य प्रोक्ता, स्थितिरेक क्षणं लघुः । अनुत्तरेषु व्रजतः, सा ज्ञेया जीवितक्षयात् ॥ ११६५ ॥ कुर्यादुपशमश्रेणिमुत्कर्षादेकजन्मनि । द्वौ वारौ चतुरो वारांश्चाङ्गी संसारमावसन् ॥ ११६६ ॥ श्रेणिरेकैवैकभवे, भवेत् सिद्धान्तिनां मते । क्षपकोपशमश्रेण्योः, कर्मग्रन्थमते पुन: ॥ ११६७ ॥
कृतैकोपशमश्रेणिः, क्षपकश्रेणिमाश्रयेत् । भवे तत्र दिःकृतोपशमश्रेणिस्तु नैव ताम् ॥ इति
कर्मग्रन्थलघुवृत्तौ ॥ इत्येकादशम् ॥ क्षीणा: कषाया यस्य स्युः, स स्यात्क्षीणकषायकः । वीतराग: छद्मस्थश्च, गुणस्थानं यदस्य तत् ॥ ११६८ ॥ क्षीणकषायच्छद्मस्थवीतरागाह्वयं भवेत् । गुणस्थानं केवलित्वद्राधिगमगोपुरम् ॥ ११६९ ॥ तत्र च-श्रेष्ठसंहननो वर्षाष्टकाधिकवयो नरः । सद्ध्यानः क्षपकश्रेणिमप्रमादः प्रपद्यते ॥ ११७० ॥
तथोक्तं कर्मग्रन्थलघुवृत्तौ-"क्षपकश्रेणिप्रतिपन्नः मनुष्यः वर्षाष्टकोपरिवर्त्यविरतादीनामन्यतमोऽत्यन्तशुद्धपरिणाम उत्तमसंहननः, तत्र पूर्वविदप्रमतः शुक्लध्यानोपगतोऽपि, केचन धर्मध्यानोपगत, इत्याहुः ॥ विशेषावश्यकवृत्तौ च, पूर्वधररप्रमत्तः शुक्लध्यानोपगतोऽप्येतां
प्रतिपद्यते, शेषास्तत्वविरतादयो धर्मध्यानोपगता इति निर्णय: ॥ तत्क्रमश्चायम्स तुर्यादिगुणस्थानचतुष्कान्यतरेऽन्तयेत् । अन्तर्मुहूर्तायुगपत्, प्रागनन्तानुबन्धिनः ॥ ११७१ ॥ ततः क्रमेण मिथ्यात्वं, मिश्रं सम्यक्त्वमन्तयेत् । उच्यते कृतकरणः, क्षीणेऽस्मिन् सप्तके च सः ॥ ११७२ ॥ बद्धायुः क्षपकश्रेण्यारम्भकश्चेन्निवर्त्तते । अनन्तानुबन्धिनाशानन्तरं जीवितक्षयात् ॥ ११७३ ॥ तदा मिथ्यात्वोदयेन, भूयोऽनन्तानुबन्धिनः । बजाति मिथ्यात्वरूपतद्धीजस्याविनाशतः ॥ ११७४ ॥ क्षीणे मिथ्यात्वबीजे तु, भूयोऽनन्तानुबन्धिनाम् । न बन्धोऽस्ति क्षितिरुहो, बीजे दग्धे हि नाङ्करः ॥ ११७५ ॥