________________
78
ज्ञानपञ्चकज्ञानत्रयं साकारका अमी । उक्ताः शेषास्त्वनाकाराश्चतुर्दर्शनलक्षणाः ॥ १०३३ ॥ इत्युपयोगाः ॥ २८ ॥ आहारकाः स्युः छद्मस्थाः, सर्व वक्रगतिं विना । त्रिचतुः समयान्ता स्यात्तत्रानाहारितापि च ॥ १०३४ ॥ गतिर्दिधा हि जन्तूनां, प्रस्थितानां परं भवम् । सरला कुटिला चापि, तत्रैकसमयाऽऽदिमा ॥ १०३५ ॥ उत्पत्तिदेशो यत्र स्यात्समश्रेणिव्यवस्थितः । तत्रैकसमयेनैव, ऋजुगत्याऽसुमान् व्रजेत् ॥ १०३६ ॥ परजन्मायुराहारौ, क्षणेऽस्मिन्नेव सोऽश्नुते । तुल्यमेतदृजुगतौ, निश्चयव्यवहारयोः ॥ १०३७ ॥ द्वितीयसमयेऽनृज्ज्या, व्यवहारनयाश्रयात् । उदेति परजन्मायुरिदं तात्पर्यमत्र च ॥ १०३८ ॥ प्राग्भवान्त्यक्षणो वक्रपरिणामाभिमुख्यतः । कैश्चिद्धक्रादिसमयो, गण्यते व्यवहारतः ॥ १०३९ ।। ततश्च भवान्तराद्यसमये, गतेस्त्वस्मिन् द्वितीयके । समये परजन्मायुरुदेति खलु तन्मते ॥ १०४० ॥
___ यदाहुः– 'उज्जुगइ पढमसमए परभवियं आउअं तहाहारो । वक्काइ बीअसमए परभविआउं
उदयमेइ ॥ [बृहत्संग्रहणी गाथा-३३०] निश्चयनयाश्रयाच्चसंमुखोऽङ्गी गतेर्यद्यप्यन्त्यक्षणे तथापि हि । सत्त्वात्प्राग्भवसम्बन्धिसंघातपरिशाटयोः ॥ १०४१ ॥ समयः प्राग्भव'स्यैष, सम्भवेन्न पुनर्गतेः । प्राच्याङ्गसर्वशाटोऽग्यभवाद्यक्षण एव यत् ॥ १०४२ ॥ 'परभवपढमे साडो'त्ति आगमवचनात् ॥ उदेति समयेऽत्रैव, गतिः सह तदायुषा । ततोऽन्यजन्मायुर्वक्रगतावप्यादिमक्षणे ॥ १०४३ ॥ तत्र संघातपरिशाटस्वरूपं चैवमागमेसंघात: परिशाटश्च, तौ द्वौ समुदिताविति । औदारिकादिदेहानां, प्रज्ञप्तं करणत्रयम् ॥ १०४४ ॥ सर्वात्मना पुद्गलानामाघे हि ग्रहणं क्षणे । चरमे सर्वथा त्यागो, द्वितीयादिषु चोभयम् ॥ १०४५ ॥ यथा तप्ततापिकायां, सस्नेहायामपूपकः । गृह्णाति प्रथम स्नेहं, सर्वात्मना न तु त्यजेत् ॥ १०४६ ॥ ततश्च किञ्चिद् गृह्णाति, स्नेहं किञ्चित्पुनस्त्यजेत् । संघातभेदरूपत्वात्पुद्गलानां स्वभावतः ॥ १०४७ ॥ तथैव प्रथमोत्पन्नः, प्राणभृत् प्रथमक्षणे । सर्वात्मनोत्पत्तिदेशस्थितान् गृह्णाति पुद्गलान् ॥ १०४८ ॥ ततश्चाभवपर्यन्त, द्वितीयादिक्षणेषु तु । गृह्मस्त्यजंश्च तान् कुर्यात्, संघातपरिशाटनम् ॥ १०४९ ॥ तत आयु:समाप्तौ च, भाव्यायुःप्रथमक्षणे । स्यात् शाट एव प्राग्देहपुद्गलानां तु न ग्रहः ॥ १०५० ॥ औदारिकवैक्रियाहारकेषु स्युस्त्रयोऽप्यमी । संघातपरिशाटः स्यात्तैजसे कार्मणे सदा ॥ १०५१ ॥ अनादित्वात् भवेन्नैव, संघातः केवलोऽनयोः । केवल: परिशाटश्च, सम्भवेन्मुक्तियायिनाम् ॥ १०५२ ॥
१. सयैव-सयैव इति पाठः ।