________________
77
यथैवमवधिज्ञाने, भवत्यवधिदर्शनम् । एवं विभङ्गेऽप्यवधिदर्शनं कथितं श्रुते ॥ १०१६ ॥ अयं भाव:सम्यग्दृगवधिज्ञाने, सामान्यावगमात्मकम् । यथैतत्स्यात्तथा मिथ्यादृग्विभङ्गेऽपि तद् भवेत् ॥ १०१७ ॥ नाम्ना च कथितं प्रास्तदप्यवधिदर्शनम् । अनाकारत्वाविशेषाद्विभङ्गदर्शनं न तत् ॥ १०१८ ॥ अयं सूत्राभिप्रायः ॥ आहुः कार्मग्रन्थिकास्तु, यद्यपि स्तः पृथक्पृथक् । साकारेतरभेदेन, विभङ्गावधिदर्शने ॥ १०१९ ॥ तथापि मिथ्यारूपत्वान्न सम्यग्वस्तुनिश्चयः । विभङ्गान्नाप्यनाकारत्वेनास्यावधिदर्शनात् ॥ १०२० ॥ ततोऽनेन दर्शनेन, पृथग्विवक्षितेन किम् । तत्कार्मग्रन्थिकै स्य, पृथगेतद्विवक्षितम् ॥ १०२१ ।।
तथोक्तम्- 'सुत्ते अ विभंगस्स य, परुवियं ओहिदंसणं बहुसो । कीस पुणो पडिसिद्धं, कम्मपगडीपगरणमि ॥ __ इत्याद्यधिकं विशेषणवत्याः प्रज्ञापनाष्टादशपदवृत्तितश्चावसेयम् ॥ तत्त्वार्थवृत्तिकृताऽपि विभङ्गज्ञानेऽवधिदर्शनं नाङ्गीकृतम् । तथा च तद्ग्रन्थ:-“अवधिदृगावरणक्षयोपशमात्
विशेषग्रहणविमुखोऽवधिदर्शनमित्युच्यते । नियमतस्तु तत्सम्यग्दृष्टिस्वामिकम्” । इति ॥ सर्वं भूतभवद्भाविवस्तु सामान्यभावतः । बुध्यते केवलज्ञानादनु केवलदर्शनात् ॥ १०२२ ॥ आदौ दर्शनमन्येषां, ज्ञानं तदनु जायते । केवलज्ञानिनामादौ, ज्ञानं तदनु दर्शनम् ॥ १०२३ ॥ अत एव ‘सम्वन्नूणं सब्बदरिसीणं' इति पठ्यते ॥ [शक्रस्तव] प्रज्ञप्ताः सर्वत: स्तोका, जन्तवोऽवधिदर्शनाः । असंख्यगुणितास्तेभ्यश्चक्षुर्दर्शनिनो मताः ॥ १०२४ ॥ अनन्तगुणितास्तेभ्यो, मता: केवलदर्शनाः । अचक्षुर्दर्शनास्तेभ्योऽप्यनन्तगुणिताधिकाः ॥ १०२५ ॥ कालश्चक्षुर्दर्शनस्य, जघन्योऽन्तर्मुहूर्त्तकम् । सातिरेकं पयोराशिसहस्रं परमः पुनः ॥ १०२६ ॥ अचक्षुर्दर्शनस्यासावभव्यापेक्षया भवेत् । अनाद्यन्तोऽनादिसान्तो, भव्यानां सिद्धियायिनाम् ॥ १०२७ ॥ जघन्येनैकसमय:, स्यात्कालोऽवधिदर्शने । उत्कर्षतो दिःषट्षष्टिवर्धियः साधिका मताः ॥ १०२८ ॥ ज्येष्ठो नन्ववधिज्ञानकाल: षट्षष्टिवार्धयः । अवधेर्दर्शने तर्हि यथोक्तो घटते कथम् ॥ १०२९ ॥ अत्रोच्यतेअवधौ च विभङ्गे चावधिदर्शनमास्थितम् । ततो द्वाभ्यां सहभावाद्युक्तः सोऽवधिदर्शने ॥ १०३० ॥
अत्र बहु वक्तव्यम्, तत्तु प्रज्ञापनाष्टादशपदवृत्तितोऽवसेयम् ॥ काल: सादिरनन्तश्च, भवेत्केवलदर्शने । एषु कस्याप्यनादित्वं, नाचक्षुर्दर्शनं विना ॥ १०३१ ॥ इति दर्शनम् ॥ २७ ॥ चतुष्टयी दर्शनानां, त्र्यज्ञानी ज्ञानपञ्चकम् । अमी द्वादश निर्दिष्टा, उपयोगा बहुश्रुतैः ॥ १०३२ ॥