________________
76
तत्र स्युः सर्वतः स्तोका, मन: पर्यायपर्यवाः । मनोद्रव्यैकविषयमिदं ज्ञानं भवेद्यतः ।। ९९८ ।। एभ्योऽनन्तगुणाः किं च विभङ्गज्ञानपर्यवा: । मनोज्ञानापेक्षया यद्विभङ्गविषयो महान् ।। ९९९ ।। आरभ्य नवमग्रैवेयकादासप्तमक्षितिम् । ऊर्ध्वाध: क्षेत्रके तिर्यक्, चासंख्यद्वीपवार्धिके ।। १००० ।। रूपिद्रव्याणि कतिचित्तत्पर्यायांश्च वेत्ति सः । अनन्तघ्नास्ते च मनोज्ञानज्ञेयव्यपेक्षया ।। १००१ ।। समस्तरूपिद्रव्याणि प्रतिद्रव्यमसंख्यकान् । भावान् वेत्तीत्यनन्तघ्ना, विभङ्गापेक्षयाऽवधौ ।। १००२ । अनन्तगुणितास्तेभ्यः, श्रुताज्ञानं इदं यतः । सर्वमूर्त्तामूर्त्तद्रव्यसर्वपर्यायगोचरम् ॥ १००३ ॥ श्रुताज्ञानाविषयाणां, केषाञ्चित् विषयत्वतः । स्पष्टत्वाच्च श्रुतज्ञाने, तेभ्यो विशेषतोऽधिकाः ॥ १००४ ॥ अभिलाप्यानभिलाप्यविषयेऽनन्तसंगुणाः । मत्यज्ञाने श्रुतज्ञानादभिलाप्यैकगोचरात् ॥ १००५ ।। मतिज्ञानपर्यवाश्च, ततो विशेषतोऽधिकाः । मत्यज्ञानाविषयाणां, विषयत्वात् स्फुटत्वतः ।। १००६ ॥ तेभ्योऽप्यनन्तगुणिताः, केवलज्ञानपर्यवाः । सर्वाद्धाभाविनिखिलद्रव्यपर्यायभासनात् ॥ १००७ ॥ इति ज्ञानम् ।। २६ ।। अथ दर्शनम् ।
द्विरूपं हि भवेद्वस्तु, सामान्यतो विशेषतः । तत्र सामान्यबोधो यस्तद्दर्शनमिहोदितम् ॥ १००८ ॥ यथा प्रथमतो दृष्टो घटोऽयमिति बुध्यते । तद्दर्शनं तद्विशेषबोधो ज्ञानं भवेत्त्वतः ।। १००९ ।। उपचारनयेनेदं, दर्शनं परिकीर्तितम् । विशुद्धनयतस्तच्चानाकारज्ञानलक्षणम् ॥ १०१० ।। इदं साकारबोधात्प्रागवश्यमभ्युपेयते । अन्यथेदं किञ्चिदिति, स्यात्कुतोऽव्यक्तबोधनम् ।। १०११ ।। अनेन च विनापि स्यात्, बोधो साकार एव चेत् । तदैकसमयेनैव, स्याद्घटादिविशेषवित् ।। १०१२ । तथोक्तं तत्त्वार्थवृत्तौ — “ औपचारिकनयश्च ज्ञानप्रकारमेव दर्शनमिच्छति । शुद्धनयः पुनरनाकारमेव संगिरते दर्शनम् । आकारवच्च विज्ञानम् । आकारश्च विशेषनिर्देशो भावस्य पर्यायतः प्रोक्तः स च दर्शनसमनन्तरमेव संपद्यते, अन्तर्मुहूर्त्तकालभावित्वात् । आकारपरिज्ञानाच्च प्रागालोचनमवश्यमभ्युपेयम् । अन्यथा प्रथमत एव पश्यतः किमपि इदमिति कुतोऽव्यक्तबोधनं स्यात् ? यदि चालोचनमन्तरेणाकारपरिज्ञानोत्पाद एव पुंसः स्यात् तथासत्येकसमयमात्रेण स्तम्भकुम्भादीन् विशेषान् गृह्णीयात्” इति ॥ सामान्येनावबोधो यश्चक्षुषा जायतेऽङ्गिनाम् । तच्चक्षुदर्शनं प्राहुस्तत्स्यादाचतुरिन्द्रियात् ॥ १०१३ ॥ यः सामान्यावबोधः स्याच्चक्षुर्वर्जापरेन्द्रियैः । अचक्षुर्दर्शनं तत्स्यात्, सर्वेषामपि देहिनाम् ॥ १०१४ ॥ तथोक्तं तत्त्वार्थवृत्तौ — “ चक्षुर्दर्शनमित्यादि । चक्षुषा दर्शनं उपलब्धिः सामान्यार्थग्रहणम् । स्कन्धावारोपयोगवत् तदहर्जातबालदारकनयनोपलब्धिवत् वा व्युत्पन्नस्यापि । अचक्षुर्दर्शनं - शेषेन्द्रियैः श्रोत्रादिभिः सामान्यार्थग्रहणम् ॥ इति ॥
येनावधेरुपयोगे, सामान्यमवबुध्यते । अवधिज्ञानिनामेव, तत्स्यादवधिदर्शनम् ।। १०१५ ।
-