________________
आह च-ननु जह ते परपज्जाया, न तस्स अह तस्स न परपज्जाया । आचार्य: प्राहजं तंमि असंबद्धा तो परपज्जायववदेसो ॥ चायसपज्जायविसेसणाइणा तस्स जमुवजुज्जन्ति । सधणमिवासंबद्धं हवन्ति तो पज्जवा तस्स ॥ [विशेषावश्यक श्लो. ४८२, ४८३]
'चाय'त्ति त्यागेन स्वपर्यायविशेषणादिना च परपर्याया घटादिपर्याया येन कारणेन तस्य ज्ञानस्य उपयुज्यन्ते-उपयोगं यान्ति । यतः घटादिसकलवस्तुपर्यायपरित्यागे एव ज्ञानादिरर्थः सुज्ञातो भवतीति सर्वे पर पर्यायाः परित्यागमुख्नेन उपयुज्यन्ते । तथा परपर्यायसद्भावे एवैते
स्वपर्यायेति विशेषयितुं शक्या इति । स्वपर्यायविशेषणेन परपर्याया उपयुज्यन्त इति तात्पर्यम् ॥ श्रुतेऽप्यनन्ता: पर्यायाः, प्रोक्ताः स्वपरभेदतः । स्वीयास्तत्र च निर्दिष्टास्तेऽक्षरानक्षरादयः ॥ ९८३ ॥ क्षयोपशमवैचित्र्याद्विषयानन्त्यतश्च ते । श्रुतानुसारिबोधानामानन्त्यात्स्युरनन्तकाः ॥ ९८४ ॥ अविभागपरिच्छेदैरनन्ता वा भवन्ति ते । अनन्ता: परपर्याया, अप्यस्मिस्ते तु पूर्ववत् ॥ ९८५ ॥ अथवा स्यात् श्रुतज्ञानं, श्रुतग्रन्थानुसारतः । श्रुतग्रन्थश्चाक्षरात्मा, तान्यकारादिकानि च ॥ ९८६ ॥ तच्चैकै कमुदात्तानुदात्तस्वरितभेदतः । अल्पानल्पप्रयत्नानुनासिकान्यविशेषतः ॥ ९८७ ।। संयुक्तासंयुक्तयोगद्व्यादिसंयोगभेदतः । आनन्त्याच्चाभिधेयानां, भिद्यमानमनन्तधा ॥ ९८८ ॥ केवलो लभतेऽकारः, शेषवर्णयुतश्च यान् । ते सर्वेऽस्य स्वपर्यायास्तदन्ये परपर्यवाः ॥ ९८९ ॥ एवं च-अनन्तस्वान्यपर्यायमेकैकमक्षरं श्रुते । पर्यायास्तेऽखिलद्रव्यपर्यायराशिसम्मिताः ॥ ९९० ॥
आह च- 'एक्केकमक्खरं पुण, सपरपज्जायभेयओ भिन्नम् । तं सबदब्बपज्जायरासिमाणं मुणेयबम् ॥ जे लहइ केवलो से सवण्णसहिओ अ पज्जवेऽगारो । ते तस्स पज्जाया सेसा परपज्जवा तस्स' ॥ [विशेषावश्यक श्लो. ४८०, ४८१] ___ अयं भावः-यान् पर्यायान् केवल: अकार: शेषवर्णसहितश्च लभते ते तस्य स्वपर्यायाः ।
शेषाः शेषवर्णसम्बन्धिनो घटाद्यपरपदार्थसम्बन्धिनश्च परपर्याया: तस्य अकारस्य इति ॥ एवंविधानेकवर्णपर्यायौघैः समन्वितम् । ततश्चानन्तपर्यायं, श्रुतज्ञानं श्रुतं श्रुते ॥ ९९१ ॥ अथावधेः स्वपर्याया, विविधा या भिदोऽवधेः । क्षायोपशमिकभवप्रत्ययादिविभेदतः ॥ ९९२ ॥ तिर्यग्नै रयिक स्वर्गिनरादिस्वामिभेदतः । अनन्तभित्स्वविषयद्रव्यपर्यायभेदतः ॥ ९९३ ।। असंख्यभित्स्वविषयक्षेत्राद्धाभेदतोऽपि च । निर्विभागैर्विभागैश्च ते चैवं स्युरनन्तकाः ॥ ९९४ ॥ एवं मन:पर्यवस्य केवलस्य च पर्यवा: । निर्विभागैर्विभागैः स्वैः स्वाम्यादिभेदतोऽपि च ॥ ९९५ ॥ अनन्तद्रव्यपर्यायज्ञानाच्च स्युरनन्तकाः । अज्ञानत्रितयेऽप्येवं, ज्ञेया अनन्तपर्यवाः ॥ ९९६ ॥ परपर्यवास्तु सर्वत्र प्राग्वत् ॥ अष्टाप्येतानि तुल्यानि, व्यपेक्ष्य स्वान्यपर्यवान् । यद्वक्ष्येऽल्पबहुत्वं तदपेक्ष्य स्वीयपर्यवान् ॥ ९९७ ॥