SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जन्तोभ्रष्टस्य सम्यक्त्वात्, पुनरन्तर्मुहूर्त्ततः । सम्यक्त्वलब्धौ लघ्वी स्यादज्ञानद्वितयस्थितिः ॥ ९६० ॥ अनन्तकालचक्राणि, कालत: परमा स्थितिः । देशोनं पुद्गलपरावर्द्धि, क्षेत्रतस्तु सा ॥ ९६१ ॥ भावना - सम्यक्त्वत: परिभ्रश्य, वनस्पत्यादिषु भ्रमन् । सम्यक्त्वं लभतेऽवश्यं, कालेनैतावता पुनः ॥ ९६२ ॥ जघन्या त्वेकसमयं, विभङ्गस्य स्थितिः किल । उत्पद्य समयं स्थित्वा, भ्रश्यत: सा पुनर्भवेत् ॥ ९६३ ॥ त्रयस्त्रिंशत्सागराणि, विभङ्गस्य स्थितिर्गुरुः । देशोनया पूर्वकोट्याऽधिकानि तत्र भावना ॥ ९६४ ॥ देशोनपूर्वकोट्यायुः, कश्चिदङ्गी विभङ्गवान् । ज्येष्ठायुरप्रतिष्ठाने, तिष्ठेत् विभङ्गसंयुतः ॥ ९६५ ॥ इति ज्ञानस्थितिः ॥ अथान्तरम्मत्यादिज्ञानतो भ्रष्टः, पुन: कालेन यावता । ज्ञानमाप्नोति मत्यादिज्ञानानामन्तरं हि तत् ॥ ९६६ ॥ अनन्तकालचक्राणि, कालत: स्यान्मतिश्रुते । देशोनं पुद्गलपरावर्द्धि क्षेत्रतोऽन्तरम् ॥ ९६७ ॥ एवमेवावधिमनःपर्यायज्ञानयोः परम् । अन्तर्मुहूर्त्तमानं च सर्वेष्वेष्वन्तरं लघु ॥ ९६८ ॥ केवलस्यान्तरं नास्ति, साधनन्ता हि तत्स्थितिः । अनाद्यन्तानादिसान्तेऽज्ञानदयेऽपि नान्तरम् ॥ ९६९ ॥ सादिसान्ते पुनस्तत्राधिकः षट्षष्टिसागराः । इयमुत्कृष्टसम्यक्त्वस्थितिरेव तदन्तरम् ॥ ९७० ॥ अन्तरं स्यादिभङ्गस्य, ज्येष्ठं कालो वनस्पतेः । अन्तमुहूर्तमेतेषु, त्रिषु ज्ञेयं जघन्यतः ॥ ९७१ ॥ स्तोका मनोज्ञा अवधिमन्तोऽसंख्यगुणास्ततः । मतिश्रुतज्ञानवन्तो, मिथस्तुल्यास्ततोऽधिकाः ॥ ९७२ ॥ असंख्येयगुणास्तेभ्यो, विभङ्गज्ञानशालिनः । केवलज्ञानिनोऽनन्तगुणास्तेभ्यः प्रकीर्तिताः ॥ ९७३॥ तदनन्तगुणास्तुल्या मिथो व्यज्ञानवर्तिनः । अप्यष्टस्वेषु पर्याया, अनन्ता: कीर्तिता जिनैः ॥ ९७४ ॥ सर्वेषां पर्यवा द्वेधा, स्वकीयापरभेदतः । स्वधर्मरूपास्तत्र स्वे, परधर्मात्मका: परे ॥९७५ ॥ क्षयोपशमवैचित्र्यान्मतेरवग्रहादयः । अनन्तभेदाः षट्स्थानपतितत्वाद् भवन्ति हि ॥ ९७६॥ षट् स्थानानि चैवम्संख्येयासंख्येयानन्तभागैर्वृद्धिर्यथाक्रमम् । संख्येयासंख्येयानन्तगुणैर्वृद्धिरितीह षट् ॥ ९७७ ॥ अनन्तासंख्यसंख्यानामनन्तासंख्यसंख्यकाः । भेदाः स्युरित्यनन्तास्ते, मतिज्ञानस्य पर्यवाः ॥ ९७८ ॥ प्रतिज्ञेयं मतिज्ञानं, विभिद्येत यतोऽथवा । ज्ञेयानन्त्यात्ततोऽनन्ता, मतिज्ञानस्य पर्यवाः ॥ ९७९ ॥ स्वेभ्योऽनन्तगुणा ये च, सन्त्यर्थान्तरर्पयवाः । यतस्तेऽत्रोपयुज्यन्ते, ततस्तेऽप्यस्य पर्यवाः ॥ ९८० ॥ निर्विभागैः परिच्छेदैः च्छिन्नं कल्पनयाथवा । अनन्तखण्डं भवतीत्यनन्ता मतिपर्यवाः ॥ ९८१ ॥ यद्यप्यस्मिन्नसंबद्धास्तथाप्यस्योपयोगतः । तेऽदसीया असंबद्धस्वोपयोगिधनादिवत् ॥ ९८२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy