SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 73 इदं सैद्धान्तिकमतं, तार्किका: केचनोचिरे । स्यातामेवोपयोगौ दावेकस्मिन् समयेऽर्हतः ॥ ९४० ॥ अन्यथा कर्मण इव, स्यादावारकता मिथ: । एकैकस्योपयोगस्यान्योपयोगोदयद्रुहः ॥ ९४१ ॥ यच्चैतयोः साद्यनन्ता, स्थितिरुक्तोपयोगयोः । व्यर्था स्यात्साऽप्यनुदयादेकैकसमयान्तरे ॥ ९४२ ॥ अन्ये च केचन प्राहुः ज्ञानदर्शनयोरिह । नास्ति केवलिनो भेदो, निःशेषावरणक्षयात् ॥ ९४३ ॥ ज्ञानैकदेश: सामान्यमात्रज्ञानं हि दर्शनम् । तत्कथं देशतो ज्ञानं, सम्भवेत्सर्ववेदिनः ॥ ९४४ ॥ उक्तं च- केइ भणंति जुगवं जाणइ पासइ य केवली नियमा । अन्ने एगंतरियं इच्छन्ति सुओवएसेणं ॥ अन्ने न चेव वीसुं, दंसणमिच्छन्ति जिणवरिन्दस्य । जं चिय केवलनाणं, तं चिय से दंसणं बिंति' ॥ अत्र च भूयान् युक्तिसन्दर्भोऽस्ति । स तु नन्दीवृत्तिसम्मत्यादिभ्योऽवसेयः । अथ प्रकृतम्विनैताभ्यां परः कश्चिन्नोपयोगोऽर्हतां मतः । ततः कथं भवेत्तेषां, मत्यादिज्ञानसम्भवः ॥ ९४५ ॥ इत्यादि प्राय: अर्थतः तत्त्वार्थभाष्यवृत्तिगतम् ॥ अथ ज्ञानस्थितिधा, प्रज्ञप्ता परमेश्वरैः । साद्यनन्ता सादिसान्ता, तत्राद्या केवलस्थितिः ॥ ९४६ ॥ शेषज्ञानानां द्वितीया, तत्राद्यज्ञानयोर्लघुः । अन्तर्मुहूर्त्तमुत्कृष्टा, षट्षष्टिः सागराणि च ॥ ९४७ ॥ इयं चैवम्त्रयस्त्रिंशत्वार्धिमानौ, भवौ द्रौ विजयादिषु । द्वाविंशत्यब्धिमानान् वा, भवांस्त्रीनच्युतादिषु ॥ ९४८ ॥ कृत्वोत्कर्षात् शिवं यायात्, सम्यक्त्वमथवा त्यजेत् । सातिरेका नरभवैः, षट्षष्टिर्वार्धयस्तदा ॥ ९४९ ॥ यदाहु :- 'दो वारे विजयाइसु, गयस्स तिन्नच्युए अहव ताई । अइरेगं नरभवियं, नाणाजीवाण सव्वद्धं ॥ [विशेषावश्यक श्लो. ४३६] अथोत्कृष्टावधिज्ञानस्थितिरेषैव वर्णिता । जघन्या चैकसमयं, सा त्वेवं परिभाव्यते ॥ ९५० ॥ यदा विभङ्गकज्ञानी, सम्यक्त्वं प्रतिपद्यते । तदा विभङ्गसमये, तस्मिन्नेवावधिर्भवेत् ॥९५१ ॥ क्षणे द्वितीये तद्ज्ञानं, चेत्पतेन्मरणादिना । तदा जघन्या विज्ञेयाऽवधिज्ञानस्थितिर्बुधैः ॥ ९५२ ॥ संयतस्याप्रमत्तत्वे, वर्तमानस्य कस्यचित् । मनोज्ञानं समुत्पद्य, द्वितीयसमये पतेत् ॥ ९५३ ॥ एवं मन:पर्यवस्य, स्थितिर्लघ्वी क्षणात्मिका । देशोना पूर्वकोटी तु, महती साऽपि भाव्यते ॥ ९५४ ॥ पूर्वकोट्यायुषो दीक्षाप्रतिपत्तेरनन्तरम् । मनोज्ञाने समुत्पन्ने, यावज्जीवं स्थिते च सा ॥ ९५५ ॥ स्थितिर्लध्वी ऋजुमतिमनोज्ञानव्यपेक्षया । अन्यत्त्वप्रतिपातित्वादाकैवल्यं हि तिष्ठति ॥ ९५६ ॥ केवलस्थितिरुक्तैव, साद्यनन्तेत्यनन्तरम् । मत्यज्ञानश्रुताज्ञानस्थितिस्त्रेधा भवेदथ ॥ ९५७ ॥ अनाद्यनन्ताऽभव्यानां, भव्यानां द्विविधा पुनः । अनादिसान्ता साद्यन्ता, तत्राद्या ज्ञानसम्भवे ॥ ९५८ ॥ सादिसान्ता पुनधा, जघन्योत्कृष्टभेदतः । जघन्याऽन्तर्मुहूर्तं स्यात्, सा चैवं परिभाव्यते ॥ ९५९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy