________________
अत्रोच्यतेएतान्याद्यज्ञानयुग्मेऽन्तर्भूतान्यखिलान्यपि । इन्द्रियार्थसंन्निकर्षनिमित्तकतया किल ॥ ९२३ ॥ अप्रमाणानि वाऽमूनि, मिथ्यादर्शनयोगतः । असद्बोधव्यापृतेश्चोन्मत्तवाक्यप्रयोगवत् ॥ ९२४ ॥ पञ्चानामप्यथैतेषां, सहभावो विचार्यते । एकं ढे त्रीणि चत्वारि, स्युः सहैकत्र देहिनि ॥ ९२५ ॥ तथाहि–प्राप्तं निसर्गसम्यक्त्वं, येन स्यात्तस्य केवलम् । मतिज्ञानमनवाप्तश्रुतस्यापि शरीरिणः ॥ ९२६ ॥ अत एव मतिर्यत्र, श्रुतं तत्र न निश्चितम् । श्रुतं यत्र मतिज्ञानं तत्र निश्चितमेव हि ॥ ९२७ ॥
अयं तत्त्वार्थवृत्याद्यभिप्राय: ॥ नन्दीसूत्रादौ तु–'जत्थ मइनाणं तत्थ सुअनाणं । जत्थ सुअनाणं तत्थ मइनाणं' । इत्युक्तम् ॥ अतैवैकेन्द्रियाणामपि श्रुतज्ञानं स्वीकृतं श्रुते ॥ यथा - 'जह सुहुमं भाविंदियनाणं दबिंदियावरोहेऽवि । दब्बसुआभावम्मिवि भावसुअं पत्थिवाईणं ॥ भावेन्द्रियोपयोगश्च बकुलादिवदेकेन्द्रियाणां सर्वेषां भाव्यः ॥ तथा मलयगिरिपूज्या अप्याहुः नन्दीवृत्तौ-यद्यपि तेषामे केन्द्रियादीनां परोपदेशश्रवणासम्भवः तथापि तेषां तथाविधक्षयोपशमभावतः कश्चिदव्यक्तोऽक्षरलाभो भवति । यद्धशादक्षरानुषक्तं श्रुतज्ञानमुपजायते । इत्थं चैतदङ्गीकर्तव्यम् तेषामप्याहाराद्यभिलाष उपजायते । अभिलाषश्च प्रार्थना । सा च यदीदमहं प्राप्नोमि तदा भव्यं भवतीत्याद्यक्षरानुविद्वैव । ततस्तेषामपि काचिदव्यक्ताक्षरोपलब्धिरवश्यं
प्रतिपत्तव्या ॥ इति ॥ मतिज्ञानश्रुतज्ञानरूपे द्वे भवतः सह । त्रीणि ते सावधिज्ञाने, समन:पर्यवे तु वा ॥ ९२८ ॥ चतुर्णा सहभावोऽपि, छद्मस्थश्रमणे भवेत् । पञ्चानां सहभावे तु, मतद्धितयमुच्यते ॥ ९२९ ॥ केचिदूचुर्न नश्यन्ति, यथाऽऽभ्युदिते सति । महांसि चन्द्रनक्षत्रदीपादीन्यखिलान्यपि ॥ ९३० ॥ भवन्त्यकिञ्चित्कराणि, किन्तु प्रकाशनं प्रति । छानस्थिकानि ज्ञानानि, प्रोद्भूते केवले तथा ॥ ९३१ ॥ ततो न केवलेनैषां, सहभावो विरुध्यते । अव्यापारान्निष्फलानामप्यक्षाणामिवार्हति ॥ ९३२ ॥ अन्ये त्वाहुर्न सन्त्येव, केवलज्ञानशालिनि । छानस्थिकानि ज्ञानानि, युक्तिस्तत्राभिधीयते ॥ ९३३ ॥ अपायसव्व्याभावात्, मतिज्ञानं न सम्भवेत् । न श्रुतज्ञानमपि यत्तन्मतिज्ञानपूर्वकम् ॥ ९३४ ॥ रूपिद्रव्यैकविषये, न तृतीयतुरीयके । लोकालोकविषयक ज्ञानस्य सर्ववेदिनः ॥ ९३५ ॥ क्षयोपशमजान्यन्यान्यन्त्यं च क्षायिकं मतम् । सहभावस्तदेतेषां, पञ्चानामेति नौचितीम् ॥ ९३६ ॥ कटे सत्युपकल्प्यन्ते, जालकान्यतराऽन्तरा । मूलतः कटनाशे तु, तेषां व्यवहृतिः कुतः? ॥ ९३७ ॥ किंच-ज्ञानदर्शनयोरेवोपयोगौ स्तो यथाक्रमम् । अशेषपर्यायद्रव्यबोधिन: सर्ववेदिनः ॥ ९३८ ॥ एकस्मिन् समये ज्ञानं दर्शनं चापरक्षणे । सर्वज्ञस्योपयोगौ द्वौ समयान्तरितौ सदा ॥ ९३९ ॥ तथाहु :- "नाणंमि दंसणंमि य, एत्तो एक्कतरयंमि उवउत्ता । सबस्स केवलिस्सवि, जुगवं दो नत्थि उवओगा”
[आवश्यकनियुक्ति श्लो. ९०९]