________________
श्रुताज्ञानी पुनर्मिथ्याश्रुतसन्दर्भगर्भितान् । द्रव्यक्षेत्रकालभावान्, वेत्ति प्रज्ञापयत्यपि ॥ ९०५ ॥ एवं विभङ्गानुगतान्, विभङ्गज्ञानवानपि । द्रव्यक्षेत्रकालभावान्, कथञ्चिद्वेत्ति पश्यति ॥ ९०६ ॥ यथा स शिवराजर्षिदिशाप्रोक्षकतापसः । विभङ्गज्ञानतोऽपश्यत्, सप्तद्वीपपयोनिधीन् ॥ ९०७ ॥ निशम्य तानसंख्येयान्, जगद्गुरूनिरूपितान् । संदिहानो वीरपार्श्व, प्रव्रज्य स ययौ शिवम् ॥ ९०८ ॥ इदं पञ्चविधं ज्ञानं, जिनैर्यत्परिकीर्तितम् । तद् द्धे प्रमाणे भवतः, प्रत्यक्षं च परोक्षकम् ॥ ९०९ ॥ स्वस्य ज्ञानस्वरूपस्य, घटादेर्यत्परस्य च । निश्चायकं ज्ञानमिह, तत्प्रमाणमिति स्मृतम् ॥ ९१० ॥ यदाहु :- ‘स्वपरव्यवसायि ज्ञानं प्रमाणम्' । इति ॥ तत्रेन्द्रियानपेक्षं यज्जीवस्यैवोपजायते । तत्प्रत्यक्षं प्रमाणं स्यादन्त्यज्ञानत्रयात्मकम् ॥ ९११ ॥ इन्द्रियैर्हेतुभिर्ज्ञानं, यदात्मन्युपजायते । तत्परोक्षमिति ज्ञेयमाद्यज्ञानद्वयात्मकम् ॥ ९१२ ॥ प्रत्यक्षे च परोक्षे चापायांशो निश्चयात्मकः । यः स एवात्र साकारः, प्रमाणव्यपदेशभाक् ॥ ९१३ ॥ यथाभिहितम्-'साकारः प्रत्ययः सर्वो, विमुक्तः संशयादिना । साकारार्थपरिच्छेदात्प्रमाणं तन्मनीषिणाम् ॥ सामान्यैकगोचरस्य, दर्शनस्यात एव च । न प्रामाण्यं संशयादेरप्येवं न प्रमाणता ॥९१४ ॥ अत एव मतिज्ञाने, सम्यक्त्वदलिकान्वितः । योऽपायांश: स प्रमाणं, स्यात्पौद्गलिकसदृशाम् ॥ ९१५ ॥ प्रक्षीणसप्तकानां चापायांश एव केवलः । प्रमाणमप्रमाणं चावग्रहाद्या अनिर्णयात् ॥ ९१६ ॥
__ अयं च तत्त्वार्थवृत्याद्यभिप्रायः ॥ रत्नावतारिकादौ च मतिज्ञानस्य तद्भेदानामवग्रहादीनां च सांव्यावहारिकप्रत्यक्षप्रमाणत्वमुक्तम् । तथा च तद्ग्रन्थ:-अवग्रहश्च ईहा च अवायश्च धारणा
च ताभिर्भदोविशेषस्तस्मात् प्रत्येक इन्द्रियानिन्द्रियनिबन्धनं प्रत्यक्षं चतुर्भेदम् । इति ॥ श्रुतज्ञानेऽप्यपायांशः, प्रमाणमनया दिशा । निमित्तापेक्षणादेते, परोक्षे इति कीर्त्तिते ॥ ९१७ ॥ परोक्षं ह्यनलज्ञानं, धूमज्ञाननिमित्तकम् । लोके तददिमे ज्ञेये, इन्द्रियादिनिमित्तके ॥ ९१८ ॥ इदं च निश्चयनयापेक्षया व्यपदिश्यते । प्रत्यक्षव्यपदेशोऽपि, व्यवहारान्मतोऽनयोः ॥ ९१९ ॥ ____तथोक्तं नन्द्याम्-तं समासओ दुविहं पण्णत्तं । तं इंदियपच्चक्खं च नोइन्दियपच्चक्खं
च इत्यादि ॥ ननु च-प्रत्यक्षमनुमानं चागमश्चेति त्रयं विदुः । प्रमाणं कापिला आक्षपादास्तत्रोपमानकम् ॥ ९२० ॥ मीमांसका: षडापत्त्यभावाभ्यां सहोचिरे । द्धे त्रीणि वा काणभुजा, द्वे बौद्धा आदितो विदुः ॥ ९२१ ॥ एकं च लौकायतिकाः, प्रमाणानीत्यनेकधा । परैरुक्तानि किं तानि, प्रमाणान्यथवान्यथा ॥ ९२२ ॥
१. प्रत्यक्षेऽपायांशकथनं विचारणीयम् ।