SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 70 द्रव्यपर्याययोवृद्धिरवश्यं क्षेत्रवृद्धितः । अत्र शेषो विशेषश्च, ज्ञेय आवश्यकादितः ॥ ८८७ ॥ अवध्यविषयत्वेनामूर्तयोः क्षेत्रकालयोः । उक्तक्षेत्रकालवर्तिद्रव्ये कार्याऽत्र लक्षणा ॥ ८८८ ॥ इत्यवधिज्ञानविषयः ॥ स्कन्धाननन्तानृजुधीरूपयुक्तो हि पश्यति । नृक्षेत्रे संज़िपर्याप्तेर्मनस्त्वेनोररीकृतान् ॥ ८८९ ॥ मनोज्ञानस्य नितरां, क्षयोपशमपाटवात् । विशेषयुक्तमेवासौ, वेत्ति वस्तु घटादिकम् ॥ ८९० ॥ स्कन्धान जानाति विपुलधीश्च तानेव साधिकान् । अपेक्ष्य द्रव्यपर्यायान्, तथा स्पष्टतरानपि ॥ ८९१ ॥ द्विधा मन:पर्यवस्य, द्रव्यतो विषयो ह्ययम् । विषयं क्षेत्रतोऽथास्य, ब्रवीमि ऋजुधीरिह ॥ ८९२ ॥ अधस्तिर्यग्लोकमध्यावेत्ति रत्नप्रभाक्षितौ । ऋजुधीर्योजनसहस्रान्तं संज़िमनांस्यसौ ॥ ८९३ ॥ ज्योतिश्चक्रोपरितलं, यावदूषं स वीक्षते । तिर्यक् क्षेत्रं द्विपाथोधिसार्धदीपद्धयात्मकम् ॥ ८९४ ॥ उक्तं क्षेत्रं विपुलधीनिर्मलं वीक्षते तथा । विष्कम्भायामबाहल्यैः, सार्धद्रयङ्गलसाधिकम् ॥ ८९५ ॥ __ अयं भगवतीसूत्रवृत्तिराजप्रधीयवृत्तिनन्दीसूत्रनन्दीमलयगिरीयावृत्ति विशेषावश्यकवृत्ति कर्मग्रन्थवृत्त्यायभिप्रायः । सामान्यं घटादिवस्तुमात्रचिन्तनपरिणामग्राहि किञ्चिदविशुद्धतरं अर्धतृतीयाङ्गलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः । संपूर्णमनुष्यक्षेत्रविषयं विपुलमतिलब्धिः ॥ इति प्रवचनसारोद्धारवृत्त्यौपपातिकवृत्त्योः लिखितम् ॥ अर्धतृतीयद्वीपसमुद्रेष्वर्धतृतीयाङ्गलहीनेषु संज़िमनांसि ऋजुमतिर्जानाति । विपुलमतिरर्धतृतीयैरङ्गुलैरभ्यधिकेषु ॥ इति चार्थतः श्रीज्ञानसूरिकृतावश्यकचूणौ ॥ ऋजुधी: कालत: पल्यासंख्यभागं जघन्यत: । अतीतानागतं जानात्युत्कर्षादपि तन्मितम् ॥ ८९६ ॥ तावत्कालभूतभाविमनः पर्यायबोधतः । तावन्तमेव विपुलधीस्तु पश्यति निर्मलम् ॥ ८९७ ॥ सर्वभावानन्तभागवर्तिनोऽनन्तपर्यवान् । ऋजुधीर्भावतो वेत्ति, विपुलस्तांश्च निर्मलान् ॥ ८९८ ॥ इति मन:पर्यायविषयः ॥ केवली द्रव्यतः सर्वं, द्रव्यं मूर्त्तममूर्त्तकम् । क्षेत्रत: सकलं क्षेत्रं, सर्वं कालं च कालत: ॥ ८९९ ॥ भावतः सर्वपर्यायान्, प्रतिद्रव्यमनन्तकान् । भवतो भाविनो भूतान्, सम्यग् जानाति पश्यति ॥ ९०० ॥ विहाय: कालयोः सर्वद्रव्येषु संगतावपि । पृथगुक्तिः पुनः क्षेत्रकालरुढ्येति चिन्त्यताम् ॥ ९०१ ॥ इति केवलज्ञानविषय: ॥ मत्यज्ञानी तु मिथ्यात्वमिश्रेणावग्रहादिना । औत्पत्तिक्यादिना यद्धा, पदार्थान् विषयीकृतान् ॥ ९०२ ॥ वेत्त्यपायादिना तांश्च, पश्यत्यवग्रहादिना । मत्यज्ञानेन विशेषसामान्यावगमात्मना ॥ ९०३ ॥ मत्यज्ञानपरिगतं, क्षेत्रं कालं च वेत्त्यसौ । मत्यज्ञानपरिगतान्, स वेत्ति पर्यवानपि ॥ ९०४ ॥ १. आधेयदर्शनादाधारदर्शनकथनात् खारीमुद्रा इतिवत् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy