________________
69
उत्पद्यते च पनकः, स्वदेहदेशे सुसूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ ८६४ ॥ तावज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात्समवसेयम् ॥। ८६५ ।।
तथा - 'मच्छो महल्लकाओ, संखित्तो जोउ तीहिं समएहिं । स किर पयत्तविसेसेण, सण्हमोगाहणं कुणइ ।। सण्हयरासण्हयरो, सुहुमो पणओ जहन्नदेहो य । स बहुविसेसविसिट्ठो, सण्हयरो सव्वदेहेसु ।। पढमबितीये सण्हो, जायड़ थूलो चउत्थयाइसु । तइयसमयंमि जुग्गो, गहिओ तो तिसमयाहारो ॥ [विशेषावश्यक श्लो. ५९६, ५९७, ५९८ ]
अलोके लोकमात्राणि, पश्येत् खण्डान्यसंख्यशः । उत्कृष्टतोऽवधिज्ञानविषयः शक्त्यपेक्षया ॥। ८६६ ।। असंख्यभागमावल्या, जघन्यादेष पश्यति । उत्सर्पिण्यवसर्पिण्यः, उत्कर्षेण त्वसंख्यकाः || ८६७ ।। अतीता अपि तावत्यस्तावत्योऽनागता अपि । तावत्काले भूतभाविरुपिद्रव्यावबोधतः ॥। ८६८ ॥ पर्यायान् भावतोऽनन्तानेष वेत्ति जघन्यत: । आधारद्रव्यानन्त्येन, प्रतिद्रव्यं तु नो यतः ॥। ८६९ ।। उत्कर्षतोऽपिं पर्यायाननन्तान् वेत्ति पश्यति । सर्वेषां पर्यवाणां चानन्तेंऽशे तेऽपि पर्यवाः ।। ८७० ।। अथावधेर्विषययोर्नियमः क्षेत्रकालयोः । मिथो विभाव्यते वृद्धिमाश्रित्य श्रुतवर्णितः ॥ ८७१ ॥ अङ्गुलस्यासंख्यभागं क्षेत्रतो यो निरीक्षते । आवल्यसंख्येयभागं कालतः स निरीक्षते ॥ ८७२ ॥ प्रमाणाङ्गुलमत्राहुः, केचित् क्षेत्राधिकारतः । अवधेरधिकाराच्च, केचनात्रोच्छ्रयाङ्गुलम् ॥ ८७३ ॥ यश्चाङ्गुलस्य संख्येयं, क्षेत्रतो भागमीक्षते । आवल्या अपि संख्येयं कालतोंऽशं स वीक्षते ॥ ८७४ ॥ सम्पूर्णमङ्गुलं यस्तु, क्षेत्रतो वीक्षते जनः । पश्येदावलिकान्तः स, कालतोऽवधिचक्षुषा ।। ८७५ ।। पश्यन्नावलिकां पश्येदङ्गुलानां पृथक्त्वकम् । क्षेत्रतो हस्तदर्शी च, मुहूर्त्तान्तः प्रपश्यति ॥ ८७६ ।। कालतो भिन्नदिनदृक् गव्यूतं क्षेत्रमीक्षते । योजनक्षेत्रदर्शी च भवेद्दिनपृथक्त्वदृक् ॥। ८७७ ॥ कालतो भिन्नपक्षेक्षी, पञ्चविंशतियोजनीम् । क्षेत्रतो वेत्ति भरतदर्शी पक्षमनूनकम् ॥ ८७८ ॥ जानाति जम्बूद्वीपं च, कालतोऽधिकमासवित् । कालतो वर्षवेदी स्यात्, क्षेत्रतो नरलोकवित् ।। ८७९ ।। रुचकद्वीपदर्शी च, पश्येत् वर्षपृथक्त्वकम् । संख्येयकालदर्शी च, संख्येयान् द्वीपवारिधीन् ॥ ८८० ॥ सामान्यतोऽत्र प्रोक्तोऽपि, काल: संख्येयसंज्ञकः । विज्ञेयः परतो वर्षसहस्रादिह धीधनैः ॥ ८८१ ॥ असंख्यकालविषयेऽवधौ च द्वीपवार्धयः । भजनीया असंख्येयाः, संख्येया अपि कुत्रचित् ।। ८८२ ॥ विज्ञेया भजना चैवं, महान्तो द्वीपवार्धयः । संख्येया एव किञ्चैकोऽप्येकदेशोऽपि सम्भवेत् ॥ ८८३ ॥ तत्र स्वयम्भूरमणतिरश्चोऽसंख्यकालिके । अवधौ विषयस्तस्याम्भोधेः स्यादेकदेशकः ॥ ८८४ ॥ योजनापेक्षयाऽसंख्यमेव क्षेत्रं भवेदिह । असंख्यकालविषयेऽवधाविति तु भाव्यताम् ॥। ८८५ ।। कालवृद्धौ द्रव्यभावक्षेत्रवृद्धिरसंशयम् । क्षेत्रवृद्धौ तु कालस्य, भजना क्षेत्रसौक्ष्म्यतः ॥ ८८६ ॥