________________
68
आह च भाष्यकार: आएसोत्ति पगारो, ओघादेसेण सव्व दव्वाइं । धम्मत्थिकाइयाई जाणइ न उ सबभावेणं ॥ खेत्तं लोगालोगं कालं सम्बद्धमहव तिविहंपि । पंचोदइयाईए, भावे जन्नेयमेवइयं ॥ आएसोत्तिब सुत्तं सुओवलद्धे सुतस्स मइनाणं । पसरइ तज्झावणया विणावि सुत्ताणुसारेणं ॥ [विशेषावश्यक श्लो. ४०३ थी ४०५]
तत्त्वार्थवृत्ताप्युक्तम्-मतिज्ञानी तावत् श्रुतज्ञानोपलब्धेषु अर्थेषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविद्यः द्रव्याणि ध्यायति तदा मतिज्ञानविषयः सर्वद्रव्याणि, न तु सर्वे पर्यायाः
अल्पकालविषयत्वान्मनसश्चाशक्तेः ॥ इति ॥ इति मतिज्ञानविषयः ॥ भावश्रुतोपयुक्तः सन्, जानाति श्रुतकेवली । दशपूर्वादिभृद्रव्याण्यभिलाप्यानि केवलम् ॥ ८५० ॥ यद्यप्यभिलाप्यार्थानन्तांशोऽस्ति श्रुते तथाप्येते ॥ सर्वे स्युः श्रुतविषयः, प्रसङ्गतोऽनुप्रसङ्गाच्च ॥ ८५१ ॥ यथाहु :- पन्नवणिज्जा भावा, अणंतभागो उ अणभिलप्पाणं । पन्नवणिज्जाणं पुण, अणंतभागो सुअनिबद्धो ॥
[विशेषावश्यक श्लो. १४१] तथा-श्रुतानुवर्तिमनसा, ह्यचक्षुर्दर्शनात्मना । दशपूर्वादिभृद्रव्याण्यभिलाप्यानि पश्यति ॥ ८५२ ॥ तदारतस्तु भजना, विज्ञेया धीविशेषतः । वृद्धैस्तु पश्यतीत्यत्र, तत्त्वमेतन्निरूपितम् ॥ ८५३ ॥ सर्वात्मनादर्शनेऽपि, पश्यत्येव कथञ्चन । ग्रैवेयकानुत्तरादिविमानालेख्यनिर्मितेः ॥८५४ ॥ नोचेत्स्यात्सर्वथादृष्टस्यालेख्यकरणं कुतः । तुर्योपाङ्गे श्रुतज्ञानपश्यत्ताऽपि प्ररुपिता ॥८५५ ॥ क्षेत्रत: कालतोऽप्येवं, भावतो वेत्ति सश्रुत: । भावानौदयिकादीन् वा, पर्यायान् वाऽभिलाप्यगान् ॥ ८५६ ॥ इति श्रुतज्ञानविषयः ॥ द्रव्यतोऽथावधिज्ञानी, रूपिद्रव्याणि पश्यति । भाषातैजसयोरन्तःस्थानि तानि जघन्यतः ॥ ८५७ ॥ उत्कर्षतस्तु सर्वाणि, सूक्ष्माणि बादराणि च । विशेषाकारतो वेत्ति, ज्ञानत्वादस्य निश्चितम् ॥ ८५८ ॥ क्षेत्रतोऽथावधिज्ञानी, जघन्यो।त्ति पश्यति । असंख्येयतमं भागमङ्गलस्योपयोगतः ॥ ८५९ ॥
विशेषश्च अत्र- 'जावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा
ओहिखित्तं जहन्नं तु' ॥ इति नन्दीसूत्रादिषु नन्दीवृत्तौ च ॥ [विशेषाव्यक श्लो. ५९१] योजनसहनमानो, मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः, सूक्ष्मत्वेनेह स ग्राह्यः ॥ ८६०॥ संहत्य चाद्यसमये, स ह्यायोमं करोति च प्रतरम् । संख्यातीताख्याङ्गलविभागबाहल्यमानं तु ॥ ८६१ ॥ स्वतनूपृथुत्वमात्र, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम् ॥ ८६२ ॥ संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टम् । निजतनु पृथुत्वदीर्घ, तृतीयसमये तु संहत्य ॥ ८६३ ॥
१. चतुर्दशपूर्वविदः श्रुतकेवलिनः २. परिणाहलक्षणम्