SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 67 सामान्यग्राह्यसौ तस्मात्, स्तोकग्राहितया भवेत् । सामान्यशब्दः स्तोकार्थी, नत्वत्र दर्शनार्थकः ॥ ८३१ ॥ कर्मक्षयोपशमजोत्कर्षाद्विपुलधी: पुन: । बहून् विशेषान्वेत्त्यत्र, बह्नर्थो विपुलध्वनिः ॥ ८३२ ॥ न चाभ्यधायि सिद्धान्ते, कुत्राप्येतस्य दर्शनम् । दर्शनात्मकसामान्यग्राहिता नैतयोस्ततः ॥ ८३३ ॥ विशेषरूपग्राहित्वे, प्राप्ते नन्वेवमेतयोः । द्वयोर्मनोविषययोर्दैविध्ये किं निबन्धनम् ॥ ८३४॥ अत्रोच्यते—– अल्पपर्यायवेद्याद्यं, घटादिवस्तुगोचरम् । नानाविधविशेषावच्छेदि शुद्धतरं परम् ॥ ८३५ ॥ कस्यचिन्न पतत्याद्यं, कस्यचिच्च पतत्यपि । अन्त्यं चाकेवलप्राप्तेर्न पतत्येव तिष्ठति ॥ ८३६ ॥ तथोक्तं तत्त्वार्थवृत्तौ — यस्य पुनः विपुलमतेः मन: पर्यायज्ञानं समजनि तस्य न पतति आकेवलप्राप्तेः ॥ इति ॥ तत्त्वार्थसूत्रेऽपि - 'विशुद्ध्यप्रतिपाताभ्यां तद्विशेष' [ अध्या. १. सू. २५ ] इत्युक्तम् ॥ योगशास्त्रप्रथमप्रकाशवृत्तौ अपि — ऋजुश्च विपुलश्चेति, स्यान्मनः पर्यवो द्विधा । विशुद्ध्यप्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥ इति मन: पर्यायज्ञानम् ॥ केवलं यन्मतिज्ञानाद्यन्यज्ञानानपेक्षणात् । ज्ञेयानन्त्यादनन्तं वा शुद्धं वाऽऽवरणक्षयात् ॥। ८३७ ॥ सकलं वाऽऽदित एव, निःशेषावरणक्षयात् । अनन्यसदृशत्वेनाथवाऽसाधारणं भवेत् ॥ ८३८ ॥ भूतभाविभवद्भावस्वरूपोद्दीपकं स्वतः । तद्ज्ञानं केवलज्ञानं, केवलज्ञानिभिर्मतम् ॥ ८३९ ॥ इति केवलज्ञानम् ॥ कुत्सितज्ञानमज्ञानं, कुत्सार्थस्य नञोऽन्वयात् । कुत्सितत्वं तु मिथ्यात्वयोगात्तत्त्रिविधं पुनः ॥ ८४० ॥ मत्यज्ञानं श्रुताज्ञानं, विभंगज्ञानमित्यपि । अथ स्वरूपमेतेषां दर्शयामि यथाश्रुतम् ॥ ८४१ ॥ मतिज्ञानश्रुतज्ञाने, एव मिथ्यात्वयोगतः । अज्ञानसंज्ञां भजतो, नीचसङ्गादिवोत्तमः ॥ ८४२ ॥ तथोक्तम्—‘अविसेसिया मइ च्चिय, सम्मदिट्ठिस्स सा मइन्नाणं । मइअन्नाणं मिच्छादिट्ठिस्स सुअंपि एमेव ' ॥ [विशेषावश्यक श्लो. ११४] भंगा विकल्पा विरुद्धा:, स्युस्तेऽत्रेति विभङ्गकम् । विरूपो वाऽवधेर्भङ्गो, भेदोऽयं तद्विभंगकम् ॥ ८४३ ॥ एतच्च ग्रामनगरसन्निवेशादिसंस्थितम् । समुद्रद्वीपवृक्षादिनानासंस्थानसंस्थितम् ॥ ८४४ ॥ अष्टानामप्यथैतेषां विषयान्वर्णयाम्यहम् । द्रव्यक्षेत्रकालभावैः द्रव्यतस्तत्र कथ्यते ॥ ८४५ ।। सामान्यतो मतिज्ञानी, सर्वद्रव्याणि बुध्यते । विशेषतोऽपि देशादिभेदैस्तानवगच्छति ॥ ८४६ ॥ किन्तु तद्गतनिःशेषविशेषापेक्षयाऽस्फुटान् । एष धर्मास्तिकायादीन्, पश्येत्सर्वात्मना तु न ॥ ८४७ ॥ योग्यदेशस्थितान् शब्दादींस्तु जानाति पश्यति । श्रुतभावितया बुद्धया, सर्वद्रव्याणि वेत्ति वा ॥ ८४८ ॥ लोकालोको क्षेत्रतश्च, कालतस्त्रिविधं च तम् । सर्वाद्धां वा भावतस्तु, भावानौदायिकादिकान् ॥ ८४९ ॥ १. जातिसूचकः २. वाऽऽवरण, चावरणक्षयात् ३. ओधार्थके आदेशशब्दे ४. श्रुतमर्थो यदा आदेशशब्दस्य
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy