________________
66
प्रमादेन पतत्येतद्भवान्तराश्रयेण वा । यथाश्रुतं स्वरूपं च, वक्ष्येऽथाप्रतिपातिनः ॥ ८१४ ॥ यत्प्रदेशमलोकस्य, द्रष्टुमेकमपि क्षमम् । तत्स्यादप्रतिपात्येव, केवलं तदनन्तरम् ॥ ८१५ ॥ हीयमानप्रतिपातिनोश्चायं विशेषःप्रतिपाति हि निर्मूलं, विध्यायत्येकहेलया । हीयमानं पुनः हासमुपयाति शनैः शनैः ॥ ८१६ ॥
इदं कर्मग्रन्थवृत्त्यभिप्रायेण । तत्त्वार्थभाष्ये तु - अनवस्थितावस्थिताख्ययोः अन्त्यभेदयोः एवं स्वरूपमुक्तम्- अनवस्थितं हीयते वर्धते च वर्धते हीयते च प्रतिपतति च उत्पद्यते च इति पुन: पुन: उर्मिवत्, अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतत्याकेवलप्राप्तेखतिष्ठते । आभवक्षयादा जात्यन्तरस्थायि वा भवति लिङ्गवत् । यथा लिंगं पुरुषादिवेदमिह जन्मन्युपादाय
जन्मान्तरं याति जन्तुस्तथाऽवधिज्ञानमपि, इति भावः ॥ नृतिरश्चामयं षोढा, क्षायोपशमिकोऽवधिः । भवेद्भवप्रत्ययश्च, देवनारकयोरिह ॥ ८१७ ॥ तदुक्तम्- द्विविधोऽवधिर्भवप्रत्ययः क्षयोपशमनिमित्तश्चेति तत्त्वार्थसूत्रे [प्रथमोऽध्यायः, सूत्र. २१] स्याद्भवप्रत्ययोऽप्येष, न क्षयोपशमं विना । अन्वयव्यतिरेकाभ्यां, हेतुत्वादस्य किन्त्विह ॥ ८१८ ॥ स्यात्क्षयोपशमे हेतुर्भवोऽयं तदसौ तथा । उपचाराद्धेतुहेतुरपि हेतुरिहोदितः ॥ ८१९ ॥ इति अवधिज्ञानम् ॥ मनस्त्वेन परिणतद्रव्याणां यस्तु पर्यवः । परिच्छेदः स हि मनःपर्यवज्ञानमुच्यते ॥ ८२० ॥ यद्धा-मनोद्रव्यस्य पर्याया, नानावस्थात्मका हि ये । तेषां ज्ञानं खलु मन:पर्यायज्ञानमुच्यते ॥ ८२१ ॥ स्यादृजुधीविपुलधीलक्षणस्वामिभेदतः । तद् द्विभेदं संयतस्याप्रमत्तस्यर्द्धिशालिनः ॥ ८२२ ॥ अनेन चिन्तित: कुम्भ, इति सामान्यग्राहिणी । मनोद्रव्यपरिच्छित्तिर्यस्यासावृजुधी: श्रुतः ॥ ८२३ ॥ अनेन चिन्तितः कुम्भः, स सौवर्णः स माथुरः । इयत्प्रमाणोऽद्यतनः, पीतवर्णः सदाकृतिः ॥ ८२४ ॥ एवं विशेषविज्ञाने, मतिर्यस्य पटीयसी । ज्ञेयोऽयं विपुलमतिर्मन:पर्यायलब्धिमान् ॥ ८२५ ॥ ननु च-अवधिश्च मन:पर्यवश्चोभे अप्यतीन्द्रिये । रूपिद्रव्यविषये च, भेदस्तदिह कोऽनयोः ॥ ८२६ ॥ अत्रोच्यतेऽवधिज्ञानमुत्कर्षात्सर्वलोकवित् । संयतासंयतनरतिर्यक्स्वामिकमीरितम् ॥ ८२७ ॥ अन्यदिशदमेतस्माद्बहुपर्यायवेदनात् । अप्रमत्तसंयतैकलभ्यं नृक्षेत्रगोचरम् ॥८२८ ॥ उक्तं च तत्त्वार्थभाष्ये—विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमन:पर्यवयोर्विशेषः । इति ॥ [प्रथमोऽध्यायः सूत्र. २६] सामान्यग्राहि ननु यन्मन:पर्यायमादिमम् । तदस्य दर्शनं किं न, सामान्यग्रहणात्मकम् ? ॥ ८२९ ॥ अत्रोच्यते, विशेषमेकं द्वौ त्रीन्वा, गृह्मात्य॒जुमतिः किल । ईष्टे बहून् विशेषांश्च, परिछेत्तुमयं न यद् ॥ ८३० ॥ १. एतावान् सूत्रपाठः (१-२१) २. भवादिर्भाष्यपाठः । ३. एतावान् सूत्रभागः (१-२६) ४. विशुद्धयप्रतिपाताभ्यां विशेष इति तद्विशेषः (१-२५) इत्यतोऽनुवृत्तं