________________
65
येऽविभागपरिच्छेदा, द्व्यादयोऽन्येषु देहिषु । वृद्धिं गतास्ते पर्यायसमास इति कीर्तिताः ॥ ७९३ ॥ तथोक्तमाचाराङ्गवृत्तौ—
“सर्वनिकृष्टो जीवस्य, दृष्ट उपयोग एव' वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ॥ तस्मात्प्रभृतिर्ज्ञानविवृद्धिर्दृष्टा जिनेन जीवानाम् ॥ लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोदृग्भिः ” ॥ मध्ये लब्ध्यक्षराणां स्याद्यदन्यतरदक्षरम् । तदक्षरं तत्संदोहोऽक्षरसमास इष्यते ॥ ७९४ ॥ पदानां यादृशानां स्यादाचाराङ्गादिषु ध्रुवम् । अष्टादशसहस्रादिप्रमाणं तत्पदं भवेत् ।। ७९५ ।। यादीनि तत्समासः स्यादेवं सर्वत्र भाव्यताम् । संघातप्रतिपत्त्यादौ, समासो ह्यनया दिशा ।। ७९६ ।। गतीन्द्रियादिद्धाराणां द्वाषष्टेरेकदेशकः । गत्यादिरेकदेशोऽस्याः, स्वर्गतिस्तत्र मार्गणा ॥। ७९७ ।। जीवादेः क्रियते सोऽयं, संघात इति कीर्त्यते । गत्यादिद्ध्याद्यवयवमार्गणा तत्समासकः ।। ७९८ ।। संपूर्णगत्यादिद्वारे, जीवादेर्मार्गणा तु या । प्रतिपत्तिरियं जीवाभिगमे दृश्यतेऽधुना ।। ७९९ । सत्पदप्ररूपणाद्यनुयोगद्वारमुच्यते । प्राभृतान्तःस्थोऽधिकारः, प्राभृतप्राभृतं भवेत् ॥ ८०० ॥ वस्त्वन्तर्वत्त्र्त्यधिकारः, प्राभृतं परिकीर्तितम् । पूर्वान्तर्वर्त्यधिकारो, वस्तुनाम्ना प्रचक्षते ॥ ८०१ ॥ पूर्वमुत्पादपूर्वादि, ससमासाः समेऽप्यमी । श्रुतस्य विंशतिर्भेदा, इत्थं संक्षेपतः स्मृताः ॥ ८०२ ।। इति श्रुतज्ञानम् ॥
अवधानं स्यादवधिः, साक्षादर्थविनिश्चयः । अवशब्दोऽव्ययं यद्वा, सोऽधः शब्दार्थवाचकः ॥ ८०३ ॥ अधोऽधो विस्तृतं वस्तु, धीयते परिबुध्यते । अनेनेत्यवधिर्यद्धा, मर्यादावाचकोऽवधिः ॥ ८०४ ॥ मर्यादा रुपिद्रव्येषु प्रवृत्तिर्नत्वरूपिषु । तयोपलक्षितं ज्ञानमवधिज्ञानमुच्यते ।। ८०५ ।। अनुगाम्यननुगामी, वर्धमानस्तथा क्षयी । प्रतिपात्यप्रतिपातीत्यवधिः षड्विधो भवेत् ॥ ८०६ ।। यद्धि देशान्तरगतमप्यन्वेति स्वधारिणम् । अनुगाम्यवधिज्ञानं, तद्विज्ञेयं स्वनेत्रवत् ॥ ८०७ ॥ यत्र क्षेत्रे समुत्पन्नं, यत्तत्रैवावबोधकृत् । द्वितीयमवधिज्ञानं तच्छृंखलितदीपवत् ॥ ८०८ ॥ यदङ्गुलस्यासंख्येयभागादिविषयं पुरा । समुत्पद्यानुविषयविस्तारेण विवर्धते ।। ८०९ ।। अलोके लोकमात्राणि, यावत्खण्डान्यसंख्यशः । स्यात्प्रकाशयितुं शक्तं, वर्धमानं तदीरितम् ।। ८१० ।। अप्रशस्ताध्यवसायात्, हीयते यत्प्रतिक्षणम् । आहुस्तदवधिज्ञानं, हीयमानं मुनीश्वराः ।। ८११ ।। स्याद्वर्धमानं शुष्कोपचीयमानेन्धनाग्निवत् । हीयमानं परिमितातादृगिन्धनवह्निवत् ॥ ८१२ ।। योजनानां सहस्राणि, संख्येयान्यप्यसंख्यशः । यावल्लोकमपि दृष्ट्वा, पतति प्रतिपाति तत् ।। ८१३ ।।
१. एष इतिपाठः २. एकस्मिन्पदे ५१०८८६८४० श्लोकाः अष्टाविंशतिश्चाक्षराणीत्यनुयोगद्वावृत्ताविति सेनप्रश्ने । ३. अपिना तद्व्यादिपरिग्रह. ४. अलोके रुपिद्रव्याभावाद् दृश्याभावेऽपि लोके द्रव्यादिकस्य साक्ष्म्येण ज्ञानवृद्धिसाफल्यम्, स्वभावादेव नाग्रतः ५. अलोकस्यैकप्रदेशेऽपि दृष्टे नैव प्रतिपातीत्येवमुक्तं