________________
64
ऋग्यजुःसामाथर्वाणो, वेदा अंगानि षट् पुनः । शिक्षाकल्पो व्याकरणं, छन्दोज्योतिर्निरुक्तयः ।। ७७५ । ततश्च - षडंगी वेदाश्चत्वारो, मीमांसाऽऽन्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च, विद्या एताश्चतुर्दश ॥ ७७६ ।। तथा - आयुर्वेदो धनुर्वेदो, गान्धर्वं चार्थशास्त्रकम् । चतुर्भिरेतैः संयुक्ताः, स्युरष्टादश ताः पुनः ॥ ७७७ ॥ अपूर्णदशपूर्वान्तमपि सम्यक् श्रुतं भवेत् । मिथ्यात्विभिः संगृहीतं, मिथ्याश्रुतं विपर्ययात् ।। ७७८ ।। द्रव्यक्षेत्रकालभावैः, साद्यन्तं भवति श्रुतम् । अनाद्यपर्यवसितमपि ज्ञेयं तथैव च ।। ७७९ ।। एकं पुरुषमाश्रित्य, साद्यन्तं भवति श्रुतम् । अनाद्यपर्यवसितं भूयसस्तान् प्रतीत्य च ॥ ७८० ।। भवान्तरं गतस्याशु, पुंसो यन्नश्यति श्रुतम् । कस्यचित्तद्भव एव, मिथ्यात्वगमनादिभिः ।। ७८१ ।
तदुक्तं विशेषावश्यके [श्लो. ५४२ ], चउदसपुब्बी मणुओ, देवत्ते तं न संभरइ सब्वम् ॥ देसंमि होई भयणा, सट्टाणभवेवि भयणाओ || देशे पुनरेकादशाङ्गलक्षणे इति कल्पचुर्णि: । स्वस्थानभवे इति मनुष्यभवेऽपि तिष्ठतः भजना ॥ तत्र श्रुतज्ञाननाशकारणानि अमूनि - “मिच्छभवंतरकेवलगेलन्न- पमायमाइणा नासोत्ति” । षष्ठाङ्गचतुर्दशाध्ययने तेतलिमन्त्रिणः पूर्वाधीतचतुर्दशपूर्वस्मरण मुक्तमस्तीति ज्ञेयम् ।
साद्यन्तं क्षेत्रतो ज्ञेयं, भरतैरवताश्रयात् । अनाद्यपर्यवसितं, विदेहापेक्षया पुनः ॥ ७८२ ॥ कालतश्चावसर्पिण्युत्सर्पिण्योः सादिसान्तकम् । महाविदेहकालस्यापेक्षयाद्यन्तवर्जितम् ॥ ७८३ ॥ भंवसिद्धिकमाश्रित्य, साद्यन्तं भावतो भवेत् । छद्मस्थिकज्ञाननाशो, यदस्य केवलक्षणे ॥ ७८४ ॥ 'नट्ठमि य छाउमत्थिए नाणे' इति वचनात् ॥
अनाद्यनन्तं चाभव्यमाश्रित्य श्रुतमुच्यते । श्रुतज्ञानश्रुताज्ञानभेदस्यात्राविवक्षणात् ॥ ७८५ ।। क्षायोपशमिकभावे, यद्वाऽनाद्यन्तमीहितम् । एवं साद्यनादिसान्तमनन्तं श्रुतमूह्यताम् ॥ ७८६ ॥ गमाः सदृशपाठाः स्युर्यत्र तद्गमिकं श्रुतम् । तत्प्रायो दृष्टिवादे स्यादन्यच्चागमिकं भवेत् ।। ७८७ ।। अंगाविष्टं द्वादशाङ्गान्यन्यदावश्यकादिकम् । इत्थं प्ररूपिताः प्राज्ञैः श्रुतभेदाश्चतुर्दश ॥ ७८८ ॥ ये भेदा विंशतिस्तेऽपि, कथ्यन्ते लेशमात्रतः । न ग्रन्थविस्तरभयादिह सम्यक् प्रपञ्चिता: ।। ७८९ ।। तथाहु: - [कर्मविपाकनाम्नि प्रथमकर्मग्रन्थे गाथा - ७ ]
पज्जय अक्खरपयसंघाया पडिवत्ति तह य अणुओगो । पाहुडपाहुड पाहुड वत्थुपुव्वा य ससमासा ॥ तत्र च-अविभागः परिच्छेदो, यो ज्ञानस्य प्रकल्पितः । स पर्यायो द्ध्यादयस्ते, स्यात्पर्यायसमासकः ॥ ७९० ॥ लब्ध्यपर्याप्तस्य सूक्ष्मनिगोदस्थशरीरिणः । यदाद्यक्षणजातस्य श्रुतं सर्वजघन्यतः ॥ ७९१ ।। तस्मादन्यत्र यो जीवान्तरे ज्ञानस्य वर्धते । अविभागपरिच्छेदः, स पर्याय इति स्मृतः ।। ७९२ ।। १. भयणाउ इतिपाठः । २. देवत्वे पूर्वाणामस्मरणमिति चूर्णिवचसस्तत्त्वं, तेतली तु नरः, तस्य जातिस्मृत्या पूर्वज्ञाने का हानि: ?! ३. सादिसान्तिकम् इति पाठः ।