SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ते चैवम् – बह बहुबहुविधान्यक्षिप्राक्षिप्राख्यनिश्रिततदन्या: । संदिग्धासंदिग्धध्रुवाध्रुवाख्या मतेर्भदाः ॥ ७१२ ॥ तथाहि – आस्फालिते तूर्यवृन्दे, कश्चिद्यथैकहेलया । भेरीशब्दा इयन्तोऽत्रैतावन्त: शंखनिःस्वना: ॥ ७१३ ॥ इत्थं पृथक्पृथक् गृह्णन्, बहुग्राही भवेदथ । ओघतोऽन्यस्तूर्यशब्दं, गृह्णन्नबहुविद्भवेत् ॥ ७१४ ॥ माधुर्यादिविविधबहुधर्मयुक्तं वेत्ति यः स बहुविधवित् । अबहुविधवित्तु शब्द, वेत्येकद्धयादिधर्मयुतम् ॥ ७१५ ॥ वेत्ति कश्चिदचिरेण, चिरेणान्यो विमृश्य च । क्षिप्राक्षिप्रग्राहिणौ तौ, निर्दिष्टव्यौ यथाक्रमम् ॥ ७१६ ॥ लिङ्गापेक्षं वेत्ति कश्चिद्, ध्वजेनेव सुरालयम् । स भवेन्निश्रितग्राही, परो लिङ्गानपेक्षया ॥ ७१७ ॥ निःसंशयं यस्तु वेत्ति, सोऽसंदिग्धविदाहितः । ससंशयं यस्तु वेत्ति, संदिग्धग्राहको हि सः ॥ ७१८ ॥ ज्ञाते य एकदा भूयो, नोपदेशमपेक्षते । ध्रुवग्राही भवेदेष, तदन्योऽध्रुवविद् भवेत् ॥ ७१९ ॥ नन्वेकसमयस्थायी, प्रोक्तः प्राच्यैरवग्रहः । संभवन्ति कथं तत्र, प्रकारा बहुतादयः ॥ ७२० ॥ सत्यमेतन्मत: किन्तु, द्विविधोऽवग्रह श्रुते । निश्चयात्क्षणिको व्यावहारिकश्वामितक्षणः ॥ ७२१ ॥ अपेक्ष्यावग्रहं भाव्यास्ततश्च व्यावहारिकम् । भेदा यथोक्ता बहुतादयो नैश्चयिके तु न ॥ ७२२ ॥ तथोक्तं तत्वार्थवृत्तौ- [अध्या. १ सूत्र. १६] ननु चावग्रह एकसामायिक : शास्त्रे निरूपितः । न चैकस्मिन् समये चैवैकोऽवग्रह एवंविध युक्तऽल्पकालत्वादिति, उच्यते, सत्यमेवैतत् । किन्त्ववग्रह द्विधा नैश्चयिको व्यावहारिकश्च । तत्र नैश्चयिको नाम सामान्यपरिच्छेदः, स चैकसामयिकः शास्त्रेऽभिहितः । ततो नैश्चयिकादनन्तर मीहौवमात्मिका प्रवर्तते किमेष: स्पर्श उतास्पर्श इति । ततश्चानन्तरोऽपाय: स्पर्शोऽयमिति । अयं चापायोऽवग्रह इत्युपचर्यते ॥ यस्मादेतेनागामिनो भेदानङ्गीकृत्य सामान्यमवच्छिद्यते । यतः पुनरेतस्मादीहा प्रवर्तिष्यते कस्यायं स्पर्शस्ततश्चापायो भविष्यत्यस्यायमिति । अयमपि चापाय: पुनरवग्रह इत्युपचर्यते अतोऽन्तरवर्तिनीमीहामपायं चाश्रित्य, एवं यावदस्यान्ते निश्चय उपजातो भवति (यत्रापरं विशेषं नाकाड़ातीत्यर्थः) अपाय एव भवति. न तत्रोपचार इति । अतो य एष औपचारिकोऽवग्रहस्तमङ्गीकृत्य बहु अवगृह्णातीत्येतदुच्यते । न त्वेकसमयवर्तिनं नैश्चयिक (अंगीकृत्य) मिति । एवं सर्वत्रौपचारिकाश्रयणाद् व्याख्येयमिति ॥ औत्पत्तिकी वैनयिकी, कार्मिकी पारिणामिकी । आभिः सहामी भेदाः स्युश्चत्वारिंशं शतत्रयम् ॥ ७२३ ॥ न दृष्टो न श्रुतश्च प्राग्, मनसाऽपि न चिन्तितः । यथाऽर्थस्तत्क्षणादेव, यथार्थो गृह्यते धिया ॥ ७२४ ॥ लोकद्धयाविरुद्धा सा, फलेनाव्यभिचारिणी । बुद्धिरौत्पत्तिकी नाम, निर्दिष्टा रोहकादिवत् ॥ ७२५ ॥ गुरूणां विनयात्प्राप्ता, फलदाऽत्र पस्त्र च । धर्मार्थकामशास्त्रार्थपटुः वैनयिकी मतिः ॥ ७२६ ॥ नैमित्तिकस्य शिष्येण, विनीतेन यथोदितः । स्थविरायाः घटध्वंसे, सद्यः सुतसमागमः ॥ ७२७ ॥ १. अबहुविधग्रहः २. भवेदसौ प्र० ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy