________________
59
यथा प्रथमतो वृक्षे, चक्षुगोचरमागते । किञ्चिदेतदिति ज्ञानं, स्यादर्थावग्रहो ह्ययम् ॥ ६९२ ॥ ततस्तद्गतधर्माणां, समीक्षेहा प्रजायते । निश्चयस्तरुरेवायमित्यवायस्ततो भवेत् ॥ ६९३ ॥ ततस्तथा निश्चितस्य, धरणं धारणा भवेत् । भाव्यते मनसोऽप्येवमथार्थावग्रहादयः ॥ ६९४ ॥ यथा हि विस्मृतं वस्तु, पूर्व किञ्चिदिति स्मरेत् । ततश्च तद्गता धर्माः, स्मर्यन्ते लीनचेतसा ॥ ६९५ ॥ ततश्च तत्तद्धर्माणां, स्मरणात्तद्धिनिश्चयः । ततः स्मृत्या निश्चितस्य, पुनस्तस्यैव धारणम् ॥ ६९६ ॥ अनिन्द्रियनिमित्तं च, मतिज्ञानमिदं भवेत् । अत एव विधैतत्स्यादाद्यमिन्द्रियहेतुकम् ॥ ६९७ ॥ अनिन्द्रियसमुत्थं चेन्द्रियानिन्द्रियहेतुकम् । तत्राद्यमेकाक्षादीनां, मनोविरहिणां हि यत् ॥ ६९८ ॥ केवलं हीन्द्रियनिमित्तकमेव भवेदिदम् । अभावान्मनसो नास्ति, व्यापारोऽत्र मनागपि ॥ ६९९ ॥ अनिन्द्रियनिमित्तं च, स्मृतिज्ञानं निरुपितम् । व्यापाराभावतोऽक्षाणां, तदक्षनिरपेक्षकम् ॥ ७०० ॥ ओघज्ञानमविभक्तरूपं यदपि लक्ष्यते । वल्ल्यादीनां वृतिनीत्वाद्यभिसर्पणलक्षणम् ॥७०१ ॥ तदप्यनिन्द्रियनिमित्तकमेव प्रकीर्त्यते । हेतुभावं भजन्तीह, नाक्षाणि न मनोऽपि यत् ॥ ७०२ ॥ मत्यज्ञानावरणीयक्षयोपशम एव हि । केवलं हेतुतामोघज्ञानेऽस्मिन्नश्नुते च यत् ॥७०३ ॥ यत्तु जाग्रदवस्थायामुपयुक्तस्य चेतसा । स्पर्शादिज्ञानमेतच्चेन्द्रियानिन्द्रियहेतृकम ॥७०४ ॥ इदमर्थतस्तत्वार्थवृत्तौ ॥ अथ प्रकृतम् । एवमर्थावग्रहेहा, अवायधारणा इह । स्युश्चतुर्विंशति: षभिर्हता इन्द्रियमानसैः ॥७०५ ॥ व्यञ्जनावग्रहै:पूर्वोदितैश्चतुर्भिरन्विताः । स्युस्तेऽष्टाविंशतिभेदा, मतिज्ञानस्य निश्चिताः ॥ ७०६ ॥ भगवतीवृत्तौ तु षोढा श्रोत्रादिभेदेनावायश्च धारणा पि च । इत्येवं द्वादशविधं, मतिज्ञानमुदाहृतम् ॥ ७०७ ॥ द्वादशेहावग्रहयोश्चत्वारो व्यञ्जनस्य च । उक्ता भेदा: षोडशैते, दर्शने चक्षुरादिके ॥७०८ ॥
यदाह भाष्यकार:-"नाणम् अवायधिइओ, दंसणमिटं जहोग्गहेहाओ” ॥ [विशेषावश्यक
श्लो. ५३९] नन्वष्टाविंशतिविधं, मतिज्ञानं यदागमे । जेगीयते तन्न कथमेवमुक्ते विरुध्यते ॥७०९ ॥ अत्रोच्यते - मतिज्ञानचक्षुरादिदर्शनानां मिथो भिदम् । अविवक्षित्वैव मतिमष्टाविंशतिधा विदुः ॥७१० ॥ किंच-एकैकश्च प्रकारोऽयं, बादशधा विभिद्यते । ज्ञानस्यास्य ततो भेदाः, स्युः षट्त्रिंशं शतत्रयम् ॥ ७११ ॥
___ तथोक्तं तत्त्वार्थभाष्ये- एवमेतन्मतिज्ञानं द्विविधं चतुर्विधं अष्टाविंशतिविधं अष्टषष्ट्युत्तरशतविधं षटमिंशतिशतविध च भवति इति । [अध्याय १. सूत्र. १९]