________________
58
अवग्रहाख्या तस्य स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टस्पर्शाद्याकारपरिणतपुद्गलराशेः व्यंजनाख्यस्य ग्राहिकाऽवग्रह इति भण्यते, तेनैतदुक्तं भवति - स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टाः स्पर्शायाकारपरिणताः पुद्गला भण्यन्ते व्यञ्जनम् । विशिष्टार्थावग्रहकारित्वात्तस्य व्यञ्जनस्य परिच्छेदकोऽव्यक्तोऽवग्रहो भण्यते, अपरोऽपि तस्मान्मनाग् निश्चिततर: किमप्येतदित्येवंविध
सामान्यपरिच्छेदोऽवग्रहो भण्यते । ततः परमीहादयः प्रवर्तन्ते इति ॥ रत्नाकरावतारिकायां त्ववग्रहलक्षणमेवमुक्तम्
विषय विषयि सन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनात् जातम् आद्यम् अवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रह इति ॥ विषय: - सामान्यविशेषात्मकोऽर्थो विषयी चक्षुरादि: तयोः समीचीन: भ्रान्त्याद्यजनकत्वेनानुकूलो निपात: योग्यदेशाद्यवस्थानम् तस्मादनन्तरं समुद्भूतम्उत्पन्नं यत्सत्तामात्रगोचरं निःशेषविशेषवैमुख्येन सन्मात्रविषयदर्शनं निराकारो बोधः तस्माज्जातम् आद्यम् सत्त्वसामान्यादवान्तरैः सामान्याकारैर्मनुष्यत्वादिर्भिजातिविशेषैर्विशिष्टस्य वस्तुनो यद्ग्रहणम् ज्ञानम् तदवग्रह इति नाम्नाभिधीयते इति ॥ ___ अत्र च प्राच्यमते दर्शनस्यावकाशं न पश्यामो, द्वितीयमते च व्यंजनावग्रहावकाशं न पश्यामः तदत्र तत्वं बहुश्रुतेभ्योऽवसेयम् ॥ वक्ष्यमाणो वा महाभाष्याभिमतो व्यञ्जनावग्रहादीनां
दर्शनस्य चाभेदरनुकरणीयरित्यलं प्रसंगेन । आवल्यसंख्येयभागो, व्यञ्जनावग्रहे भवेत् । कालमानं लघु ज्येष्ठमानं प्राणपृथक्त्वकम् ॥ ६८० ॥ स चतुर्धा श्रोत्रजिह्वाघ्राणस्पर्शनसम्भव: । अप्राप्यकारिभावात्स्यान्न चक्षुर्मनसोरसौ ॥ ६८१ ॥ शब्दादेर्यः परिच्छेदो, मनाक्स्पष्टतरो भवेत् । किञ्चिदित्यात्मकः सोऽयमर्थावग्रह उच्यते ॥ ६८२ ॥ कालतोऽर्थावग्रहस्तु, स्यादेकसमयात्मकः । निश्चयाद्व्यवहारात्तु, स स्यादान्तर्मुहूर्तिकः ॥ ६८३ ॥ तस्यैवावगृहीतस्य, धर्मान्वेषणरूपिका । ईहा भवेत्कालमानमस्या अन्तर्मुहूर्त्तकम् ॥ ६८४ ॥ अथेहितस्य तस्येदमिदमेवेति निश्चयः । अवायो मानमस्यापि, स्मृतमन्तर्मुहूर्त्तकम् ॥ ६८५ ॥ निर्णीतार्थस्य मनसा, धरणं धारणा स्मृता । काल: संख्य उतासंख्यस्तस्या मानमवस्थितेः ॥ ६८६ ॥ बाल्ये दृष्टं स्मरत्येव, पर्यन्तेऽसंख्यजीवितः । ततः स्याद्धारणामानमसंख्यकालसम्मितम् ॥ ६८७ ॥ यथा हि सृज्यते पूर्वं, श्रोत्रेण शब्दसंहतिः । ततश्च किञ्चिदश्रौषमित्यर्थावग्रहो भवेत् ॥ ६८८ ॥ ततः स्त्र्यादिशब्दनिष्ठ, माधुर्यादि विचिन्तयेत् । इयमीहा ततोऽवायो, निश्चयात्मा धृतिस्ततः ॥ ६८९ ॥ एवं गन्धरसस्पर्शष्वपि भाव्या मनीषिभिः । घ्राणजिह्वास्पर्शनानां, व्यञ्जनावग्रहादयः ॥ ६८० ॥ व्यञ्जनावग्रहाभावाच्चक्षुर्मानसयोः पुनः । चत्वारोऽर्थावग्रहाद्या, धारणान्ता भवन्ति हि ॥ ६९१ ॥
१. न हावर्णनमात्रादनवकाशो भवति, व्यञ्जनाख्यशक्तिग्रहादगिविशिष्टग्रहणे दर्शनता २. वैशिष्ट्यग्रहात्प्राक् व्यपदेशः ३. तद्भवापेक्षया निर्णीतिः । ४. पाठान्तर यथा हि भज्यते (लभ्यते) पूर्व, श्रोत्रेभ्यः शब्दसंहति ।